श्रीविष्णुसहस्रनामस्तोत्रं नारदपञ्चरात्रे
श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे
श्रीमहादेव उवाच-
ब्रह्महत्यासहस्राणां पापं शाम्येत् कथञ्चन ।
न पुनस्त्वय्यविज्ञाते कल्पकोटिशतैरपि ॥ १॥
यस्मान्न या कृता स्पर्धा पवित्रं स्यात्कथं हरे ।
नश्यन्ति सर्वपापानि तन्मां वद सुरेश्वर ।
तदाह देवो गोविन्द मम प्रीत्या यथायथम् ॥ २॥
श्रीभगवानुवाच-
सदा नामसहस्रं मे पावनं मत्पदावहम् ।
तत्परोऽनुदिनं शम्भो सर्वैश्वर्यं यदीच्छसि ॥ ३॥
श्रीमहादेव उवाच-
तमेव तपसा नित्यं भजामि स्तौमि चिन्तये ।
तेनाद्वितीयमहिमो जगत्पूज्योऽस्मि पार्वति ! ॥ ४॥
श्रीपार्वत्युवाच-
तन्मे कथय देवेश यथाहमपि शङ्कर ! ।
सर्वेश्वरी निरूपमा तव स्यां सदृशी प्रभो ! ॥ ५॥
श्रीमहादेव उवाच-
साधु ! साधु ! त्वया पृष्टो विष्णोर्भगवतः शिवे ! ।
नाम्नां सहस्रं वक्ष्यामि मुख्यं त्रैलोक्यमङ्गलम् ॥ ६॥
ॐ नमोनारायणाय पुरुषोत्तमाय च महात्मने ।
विशुद्धसद्माधिष्ठाय महाहंसाय धीमहि ॥ ७॥
विनियोगः
ॐ अस्य श्रीविष्णोः सहस्रनाममन्त्रस्य महादेव ऋषिः । अनुष्टुप्छन्दः ।
परमात्मा देवता । सूर्यकोटिप्रतीकाश इति बीजम् । गङ्गातीर्थोत्तमा शक्तिः ।
प्रपन्नाशनिपञ्जर इति कीलकम् । दिव्यास्त्र इत्यस्रम् । सर्वपापक्षयार्थं
सर्वाभीष्टसिद्ध्यर्थं श्रीविष्णोर्नामसहस्रजपे विनियोगः ।
ऋष्यादिन्यासः
ॐ महादेवाय ऋषये नमः इति शिरसि ॥ १॥
अनुष्टुप् छन्दसे नमः मुखे ॥ २॥
परमात्मदेवतायै नमः हृदि ॥ ३॥
सूर्यकोटिप्रतीकाशबीजाय नमः गुह्ये ॥ ४॥
गङ्गातीर्थोत्तमशक्त्ये नमः पादयोः ॥ ५॥
प्रसन्नाशनिपञ्जरकीलकाय नमः नाभौ ॥ ६॥
विनियोगाय नमः सर्वाङ्गे ॥ ७॥
करन्यासः
ॐ वासुदेवः परं ब्रह्म इत्यङ्गुष्ठाभ्यां नमः ॥ १॥
ॐ मूलप्रकृतिरिति तर्जनीभ्यां नमः ॥ २॥
ॐ भूमहावराह इति मध्यमाभ्यां नमः ॥ ३॥
ॐ सूर्यवंशध्वजो राम इति अनामिकाभ्यां नमः ॥ ४॥
ॐ ब्रह्मादिकमलादिगदासूर्यकेशवमिति कनिष्ठिकाभ्यां नमः ॥ ५॥
शेष इति करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
षडङ्गन्यासः
ॐ वासुदेवः परं ब्रह्म इति हृदयाय नमः ॥ १॥
ॐ मूलप्रकृति शिरसे स्वाहा ॥ २॥
ॐ भूमहावाराह इति शिखायै वषट् ॥ ३॥
ॐ सूर्यवंशध्वजो रामः इति कवचाय हुं ॥ ४॥
ब्रह्मादिकमलादिगदासूर्यकेशवः नेत्रत्रयाय वौषट ॥ ५॥
ॐ दिव्यास्त्र इत्यस्त्राय फट् ॥ ६॥
इति हदयादिषडङ्गान्यासः ॥ ७॥
॥ ध्यानम् ॥
विष्णुं भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदरांघ्रि-
श्रोणीभूषं सुवक्षोमणिमकरमहाकुण्डलं मण्डितांसम् ।
हस्तोद्यच्चक्रशङ्खाम्बुजगदलमलं पीतकौशयवासो -
विद्युद्भासं समुद्यद्दिनकरसदृशं पद्महस्तं नमामि ॥ ८॥
ॐ वासुदेवः परं ब्रह्म परमात्मा परात्परम् ।
परं धाम परं ज्योतिः परं तत्त्वं परं पदम् ॥ ९॥
परं शिवं परो ध्येयः परं ज्ञानं परा गतिः ।
परमार्थः परं श्रेयः परानन्दः परोदयः ॥ १०॥
परो व्यक्तः परं व्योम परार्धः परमेश्वरः ।
निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥ ११॥
निरञ्जनो निरालम्बो निर्लेपो निरवग्रहः ।
निर्गुणोनिष्कलोऽनन्तोऽचिन्त्योऽसावचलोऽच्युतः ॥ १२॥
अतीन्द्रियोऽमितोऽरोध्योऽनीहोऽनीशोऽव्ययोऽक्षयः ।
सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥ १३॥
शर्वः शम्भुः सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् ।
सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥ १४॥
सर्वावासः सर्वरूपः सर्वादि सर्वदुःखहा ।
सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ॥ १५॥
सर्वातिशायकः सर्वाध्यक्षः सर्वेश्वरेश्वरः ।
षड्विंशको महाविष्णुर्महागुह्यो महाहरिः ॥ १६॥
नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः ।
मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥ १७॥
जन्ममृत्युजरातीतः कालातीतो भवातिगः ।
पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥ १८॥
योगिप्रियो योगमयो भवबन्धैकमोचकः ।
पुराणः पुरुषः प्रत्यक् चैतन्यं पुरुषोत्तमः ॥ १९॥
वेदान्तवेद्यो दुर्ज्ञेयस्तापत्रयविवर्जितः ।
ब्रह्मविद्याश्रयोऽलङ्घ्यः स्वप्रकाशः स्वयम्प्रभः ॥ २०॥
सर्वोपेय उदासीनः प्रणवः सर्वतः समः ।
सर्वानवद्यो दुष्प्रापस्तुरीयस्तमसः परः ॥ २१॥
कूटस्थः सर्वसंश्लिष्टो वाङ्गमनोगोचरातिगः ।
सङ्कर्षणः सर्वहरः कालः सर्वभयङ्करः ॥ २२॥
अनुल्लघ्यं सर्वगतिर्महारुद्रो दुरासदः ।
मूलप्रकृतिरानन्दः प्रज्ञाता विश्वमोहनः ॥ २३॥
महामायो विश्वबीजः पराशक्तिसुखैकभुक् ।
सर्वकाम्योऽनन्तशीलः सर्वभूतवशङ्करः ॥ २४॥
अनिरुद्धः सर्वजीवो हृषीकेशो मनःपतिः ।
निरुपाधिः प्रियो हंसोऽक्षरः सर्वनियोजकः ॥ २५॥
ब्रह्मा प्राणेश्वरः सर्वभूतभृद्देहनायकः ।
क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् ॥ २६॥
अन्तर्यामी त्रिधामाऽन्तःसाक्षी त्रिगुण ईश्वरः ।
योगी मृग्यः पद्मनाभः शेषशायी श्रियः पतिः ॥ २७॥
श्रीसत्योपास्यपादाब्जोऽनन्तः श्रीः श्रीनिकेतनः ।
नित्यवक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥ २८॥
रम्यश्रीर्निश्चयश्रीदो विष्णुः क्षीराब्धिमन्दिरः ।
कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥ २९॥
श्रीवत्सवक्षा निःसीमः कल्याणगुणभाजनम् ।
पीताम्बरो जगन्नाथो जगद्धाता जगत्पिता ॥ ३०॥
जगद्बन्धुर्जगत्स्रष्टा जगत्कर्ता जगन्निधिः ।
जगदेकस्फुरद्वीर्यो नाहंवादी जगन्मयः ॥ ३१॥
सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्ववीरजित् ।
सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥ ३२॥
शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः ।
सर्वदेवप्रियः सर्वदेववृत्तिरनुत्तमः ॥ ३३॥
सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।
यज्ञभुग् यज्ञफलदो यज्ञेशो यज्ञभावनः ॥ ३४॥
यज्ञत्राता यज्ञपुमान् वनमाली द्विजप्रियः ।
द्विजैकमानदोऽहिंस्रः कुलदेवोऽसुरान्तकः ॥ ३५॥
सर्वदुष्टान्तकृत् सर्वसज्जनानन्दपालकः ।
सर्वलोकैकजठरः सर्वलोकैकमण्डलः ॥ ३६॥
सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः ।
शङ्खभृन्नन्दकी पद्मपाणिर्गरुडवाहनः ॥ ३७॥
अनिर्देश्यवपु सर्वः सर्वलोकैकपावनः ।
अनन्तकीर्तिर्निः श्रीशः पौरुषः सर्वमङ्गलः ॥ ३८॥
सूर्यकोटिप्रतीकाशो यमकोटिविनाशनः ।
ब्रह्मकोटिजगत्स्रष्टा वायुकोटिमहाबलः ॥ ३९॥
कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः ।
कुबेरकोटिलक्ष्मीवान् शत्रुकोटिविनाशनः ॥ ४०॥
कन्दर्पकोटिलावण्यो दुर्गकोटिविमर्द्धनः ।
समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः ॥ ४१॥
हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः ।
कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥ ४२॥
सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः ।
ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥ ४३॥
विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्तनः ।
आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा ॥ ४४॥
वैकुण्ठोऽनन्तमाहात्म्यो महायोगीश्वरेश्वरः ।
नित्यतृप्तोऽथ सद्भावो निःशङ्को नरकान्तकः ॥ ४५॥
दीनानाथैकशरणं विश्वैकव्यसनापहा ।
जगत्क्षमाकृतो नित्यो कृपालुः सज्जनाश्रयः ॥ ४६॥
योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः ।
अधोक्षजो विश्वरेता प्रजापतिसभाधिपः ॥ ४७॥
शक्रब्रह्मार्चितपदः शम्भुब्रह्मोर्ध्वधामगः ।
सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥ ४८॥
जगत्सेतुर्धर्मसेतुर्धीरोऽरिष्टधुरन्यरः ।
निर्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् ॥ ४९॥
रम्यमायो विश्वविश्वो विष्वक्सेनो नगोत्तमः ।
सर्वाश्रयः पतिर्देव्या सर्वभूषणभूषितः ॥ ५०॥
सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा ।
समस्तदेवसर्वज्ञः सर्वदैवतनायकः ॥ ५१॥
समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः ।
समस्तदेवकवचं सर्वदेवशिरोमणिः ॥ ५२॥
समस्तभयनिर्भिन्नो भगवान् विष्टरश्रवाः ।
विभुः सर्वहितोदर्को हतारिः सुगतिप्रदः ॥ ५३॥
सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः ।
ब्रह्मशम्भुपरार्धाढ्यी ब्रह्मज्येष्ठः शिशुः स्वराट् ॥ ५४॥
विराट् भक्तपराधीनः स्तुत्यः सर्वार्थसाधकः ।
सर्वार्थकर्ता कृत्यज्ञः स्वार्थकृत्यमदोज्झितः ॥ ५५॥
सदा नवः सदा भद्रः सदा शान्तः सदा शिवः ।
सदा प्रियः सदा तुष्टः सदा पुष्टः सदार्चितः ॥ ५६॥
सदा पूतः पावनाग्रो वेदगुह्यो वृषाकपिः ।
सहस्रनामा त्रियुगश्चतुमूर्तिश्चतुर्भुजः ॥ ५७॥
भूतभव्यभवन्नाथो महापुरुषपूर्वजः ।
नारायणो मुञ्जकेशः सर्वयोगविनिस्मृतः ॥ ५८॥
वेदसारो यज्ञसारः सामसारस्तपोनिधिः ।
साध्यश्रेष्ठः पुराणर्षिर्निष्ठाशान्तिपरायणः ॥ ५९॥
शिवस्त्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः ।
नरकृष्णो हरिर्धर्मनन्दनो धर्मजीवनः ॥ ६०॥
आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा ।
त्रिकालो जितकन्दर्प उर्वशीदृङ्मुनीश्वरः ॥ ६१॥
आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः ।
सर्वदेवमयो ब्रह्म गुरुर्वाग्मीश्वरीपतिः ॥ ६२॥
अनन्तविद्याप्रभवो मूलाविद्याविनाशकः ।
सर्वार्हणो जगज्जाढ्यनाशको मधुसूदनः ॥ ६३॥
अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपावकः ।
आदिविद्वान् वेदकर्ता वेदात्मा श्रुतिसागरः ॥ ६४॥
ब्रह्मार्थवेदाभरणः सर्वविज्ञानजन्मभूः ।
विद्याराजो ज्ञानराजो ज्ञानसिन्धुरखण्डधीः ॥ ६५॥
मत्स्यदेवो महाशृङ्गो जगद्बीजवहित्रधृक् ।
लीलाव्याप्तानिलाम्भोधिश्चतुर्वेदप्रर्वतकः ॥ ६६॥
आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भवः ।
अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् ॥ ६७॥
आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः ।
हिरण्याक्षहरः पृध्वीपतिः श्राद्धादिकल्पकः ॥ ६८॥
समस्तपितृभीतिघ्नः समस्तपितृजीवनम् ।
हव्यकव्यैकभुग्भव्यो गुणभव्यैकदायकः ॥ ६९॥
लोमान्तलीनजलधिः क्षोभिताशेषसागरः ।
महावराहो यज्ञघ्नध्वंसनो याज्ञिकाश्रयः ॥ ७०॥
नरसिंहो दिव्यसिंहः सर्वारिष्टार्तिदुःखहा ।
एकवीरोऽद्भुतबलो यन्त्रमन्त्रैकभञ्जनम् ॥ ७१॥
ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः ।
कोटिवज्राधिकनखो गजदुष्प्रेक्षमूर्तिधृक् ॥ ७२॥
मातृचक्रप्रमथनो महामातृगणेश्वरः ।
अचिन्त्योऽमोघवीर्याढ्यः समस्तासुरघस्मरः ॥ ७३॥
हिरण्यकशिपुच्छेदी कालः सङ्कर्षणः पतिः ।
कृतान्तवाहनः सद्यः समस्तभयनाशनः ॥ ७४॥
सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः ।
समस्तपातकध्वंसी सिद्धमन्त्राधिकाह्वयः ॥ ७५॥
भैरवेशो हरार्तिघ्न कालकल्पो दुरासदः ।
दैत्यगर्भस्राविनामा स्फुरद्ब्रह्माण्डवर्जितः ॥ ७६॥
स्मृतिमात्राखिलत्राता भूतरूपो महाहरिः ।
ब्रह्मचर्मशिरःपट्टा दिक्पालोऽर्धाङ्गभूषणः ॥ ७७॥
द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः ।
योगिनीग्रस्तगिरिजारतो भैरवतर्जकः ॥ ७८॥
वीरचक्रेश्वरोऽत्युग्रो यमारिः कालसंवरः ।
क्रोधेश्वरो रुद्रचण्डीपरिवादी सुदुष्टभाक् ॥ ७९॥
सर्वाक्षः सर्वमृत्युश्च मृत्युर्मृत्युनिर्वतकः ।
असाध्यः सर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत् ॥ ८०॥
गणेशकोटिदर्पघ्नो दुःसहोऽशेषगोत्रहा ।
देवदानवदुर्धषो जगद्भक्ष्यप्रदः पिता ॥ ८१॥
समस्तदुर्गतित्राता जगद्भक्षकभक्षकः ।
उग्रेशोऽसुरमार्जारः कालमूषकभक्षकः ॥ ८२॥
अनन्तायुधदोर्द्दण्डो नृसिंहो वीरभद्रजित् ।
योगिनीचक्रगुह्येशः शक्रारिः पशुमांसभुक् ॥ ८३॥
रुद्रो नारायणो मेषरूपशङ्करवाहनः ।
मेषरूपी शिवत्राता दुष्टशक्तिसहस्रभुक् ॥ ८४॥
तुलसीवल्लभो वीरोऽचिन्त्यमायोऽखिलेष्टदः ।
महाशिवः शिवारुद्रो भैरवैककपालभूत् ॥ ८५॥
भिल्लश्चक्रेश्वरः शक्रो दिव्यमोहनरूपधृक् ।
गौरीसौभाग्यदो मायानिधिर्मायाभयापहः ॥ ८६॥
ब्रह्मतेजोमयो ब्रह्म श्रीमयश्च त्रयीमयः ।
सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ॥ ८७॥
उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः ।
बलिस्वाराज्यदः सर्वदेवविप्रात्मदोऽच्युतः ॥ ८८॥
उरुक्रमस्तीर्थपादस्त्रिदशश्च त्रिविक्रमः ।
व्योमपादः स्वपादाम्भःपवित्रितजगत्त्रयः ॥ ८९॥
ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्द्रुतकर्माद्रिधारणः ।
अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः ॥ ९०॥
बहुमूर्धा पराङ्छिद्रभृगुपत्नीशिरोहरः ।
पापस्तेयः सदापुण्यो दैत्येशो नित्यखण्डकः ॥ ९१॥
पूरिताखिलदेवेशो विश्वार्थैकावतारकृत् ।
अमरो नित्यगुप्तात्मा भक्तचिन्तामणिः सदा ॥ ९२॥
वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः ।
विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः ॥ ९३॥
पराशक्तिसमायुक्तो योगानन्दमदोन्मदः ।
समस्तेन्द्रारितेजोहृत् परमानन्दपादपः ॥ ९४॥
अनसूयागर्भरत्नो भोगमोक्षसुखप्रदः ।
जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिहृत् ॥ ९५॥
मातृहत्यघनिर्लेपः स्कन्दजिद्विप्रराज्यदः ।
सर्वक्षत्रान्तकृद्वीरदर्पहा कार्तवीर्यजित् ॥ ९६॥
योगी योगावतारश्च योगीशो योगवत्परः ।
परमानन्ददाता च शिवाचार्ययशःप्रदः ॥ ९७॥
भीमः परशुरामश्च शिवाचार्यैकविश्वभूः ।
शिवाखिलज्ञानकोषो भीष्माचार्योऽग्निदैवतः ॥ ९८॥
द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तकृत् ।
अद्वितीयतमोमूर्तिर्ब्रह्मचर्यैकदक्षिणः ॥ ९९॥
मनुश्रेष्ठः सतां सेतुर्महीयान् वृषभो विराट् ।
आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् ॥ १००॥
पृथुजन्माद्येकदक्षो ह्रीः श्रीः कीर्तिः स्वयंधृतिः ।
जगद्वृत्तिप्रदश्चक्रवर्तिश्रेष्ठो दुरस्त्रधृक् ॥ १०१॥
सनकादिमुनिप्राप्तभगवद्भक्तिवर्धनः ।
वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः ॥ १०२॥
सूर्यवंशध्वजो रामो राधवः सद्गुणार्णवः ।
काकुत्स्थवीरताधर्मो राजधर्मधुरन्धरः ॥ १०३॥
नित्यसुस्थाशयः सर्वभद्रग्राही शुभैकदृक् ।
नवरत्नं रत्ननिधिः सर्वाध्यक्षो महानिधिः ॥ १०४॥
सर्वश्रेष्ठाश्रयः सर्वशस्त्रास्त्रग्रामवीर्यवान् ।
जगद्वशी दाशरथिः सर्वरत्नाश्रयो नृपः ॥ १०५॥
धर्मः समस्तधर्मस्थो धर्मद्रष्टाखिलार्तिहृत् ।
अतीन्द्रो ज्ञानविज्ञानपारदृश्वा क्षमाम्बुधिः ॥ १०६॥
सर्वप्रकृष्टः शिष्टेष्टो हर्षशोकाधनाकुलः ।
पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः ॥ १०७॥
गुहादेशार्पितैश्वर्यः शिवस्पर्द्धाजटाधरः ।
चित्रकूटाप्तरत्नाद्रिजगदीशो रणेचरः ॥ १०८॥
यथेष्टामोघशस्त्रास्त्रो देवेन्द्रतनयाक्षिहा ।
ब्रह्मेन्द्रादिनतैषीको मारीचघ्नो विराधहा ॥ १०९॥
ब्रह्मशापहताशेषदण्डकारण्यपावनः ।
चतुर्दशसहस्राग्र्यरक्षोघ्नैकशरैकभृत् ॥ ११०॥
खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्दनः ।
जटायुषोऽग्निगतिदो कबन्धस्वर्गदायकः ॥ १११॥
लीलाधुनःकोट्यापास्तदुन्दुभ्यस्थिमहाचयः ।
सप्ततालव्यथाकृष्टध्वजपातालदानवः ॥ ११२॥
सुग्रीवे राज्यदो धीमान् मनसैवाभयप्रदः ।
हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत् ॥ ११३॥
अग्निदैवत्यबाणैकव्याकुलीकृतसागरः ।
सम्लिच्छकोटिबाणैकशुष्कनिर्दग्धसागरः ॥ ११४॥
सनागदैत्यधामैकव्याकुलीकृतसागरः ।
समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः ॥ ११५॥
असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः ।
वरदृप्तजनस्थानपौलस्त्यकलकृन्तनः ॥ ११६॥
रावणघ्नः प्रहस्तच्छित् कुम्भकर्णभिदुग्रहा ।
रावणैकमुखच्छेत्ता निःशङ्केन्द्रैकराज्यदः ॥ ११७॥
स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रादिन्द्रताहरः ।
रक्षोदेवत्वहृद्धर्मा धर्महर्म्यः पुरुष्टुतः ॥ ११८॥
नातिमात्रदशास्यारिर्दत्तराज्यविभीषणः ।
सुधासृष्टिभृताशेषस्वसैन्यजीवनैककृत् ॥ ११९॥
देवब्राह्मणनामैकधाता सर्वामरार्चितः ।
ब्रह्मसूर्येन्द्ररुद्रादिवन्द्योऽर्चितसतां प्रियः ॥ १२०॥
अयोध्याखिलराजाग्र्य सर्वभूतमनोहरः ।
स्वाम्यतुल्यकृपादत्तो हीनोष्कृष्टैकसत्प्रियः ॥ १२१॥
स्वपक्षादिन्यायदर्शी हीनार्थोऽधिकसाधकः ।
बाधव्याजानुचितकृत्तावकोऽखिलतुष्टिकृत् ॥ १२२॥
पार्वत्यधिकयुक्तात्मा प्रियात्यक्तः सुरारिजित् ।
साक्षात्कुशलवत्सद्मेन्द्राग्निनातोऽपराजितः ॥ १२३॥
कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः ।
यशोदानन्दनो नन्दी धरणीमण्डलोदयः ॥ १२४॥
ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः ।
ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थपः ॥ १२५॥
स्वर्णीतगर्दभश्वादिचिरायोध्याबलैककृत् ।
रामाद्वितीयः सौमित्रिलक्ष्मणप्रहतेन्द्रजित् ॥ १२६॥
विष्णुभक्ताशिवांहःछित्पादुकाराज्यनिर्वृतः ।
भरतोऽसह्यगन्धर्वकोटिघ्नो लवणान्तकः ॥ १२७॥
शत्रुघ्नो वैद्यराडायुर्वेदगर्भौषधीपतिः ।
नित्यानित्यकरो धन्वन्तरिर्यज्ञो जगद्धरः ॥ १२८॥
सूर्यविघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः ।
छिन्नमूर्धोपदेशार्कतनूजकृतमैत्रिकः ॥ १२९॥
शेषाङ्गस्थापितनरः कपिलः कर्दमात्मजः ।
योगात्मकध्यानभङ्गसगरात्मजभस्मकृत् ॥ १३०॥
धर्मो विश्वेन्द्रसुरभीपतिः शुद्धात्मभावितः ।
शम्भुस्त्रिपुरदाहैकस्थैर्यविश्वरथोद्धतः ॥ १३१॥
विश्वात्माशेषरुद्रार्थशिरश्छेदाक्षताकृतिः ।
वाजपेयादिनामाग्निर्वेदधर्मापरायणः ॥ १३२॥
श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट् ।
विश्वप्रकाशितध्यानयोगो मोहतमिस्रहा ॥ १३३॥
भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः ।
महाप्रलयविश्वैकोऽद्वितीयोऽखिलदैत्यराट् ॥ १३४॥
शेषदेवः सहस्राक्षः सहस्राङ्घिशिरोभुजः ।
फणी फणिफणाकारयोजिताब्ध्यम्बुदक्षितिः ॥ १३५॥
कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः ।
नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा ॥ १३६॥
स्वसन्तोषतृप्तिमात्रः पातितैकदशाननः ।
बलिसंयमनो घोरो रौहिणेयः प्रलम्बहा ॥ १३७॥
मुष्टिकघ्नो द्विविदहा कालिन्दीभेदनो बलः ।
रेवतीरमणः पूर्वभक्तिरेवाच्युताग्रजः ॥ १३८॥
देवकीवसुदेवोत्थोऽदितिकश्यपनन्दनः ।
वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ॥ १३९॥
नराकृतिः पूर्णब्रह्म सव्यसाची परन्तपः ।
ब्रह्मादिकामनानित्यजगत्पर्वेतशैशवः ॥ १४०॥
पूतनाघ्नः शकटभिद्यमलार्जुनभञ्जनः ।
वत्सामुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ॥ १४१॥
दामोदरो गोपदेवो यशोदानन्दकारकः ।
कालीयमर्द्दनः सर्वगोपगोपीजनप्रियः ॥ १४२॥
लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः ।
अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ॥ १४३॥
सद्यः कुवलयापीडघाती चाणूरमर्दनः ।
कंसारिरुग्रसेनादिराज्यस्थाय्यरिहाऽमरः ॥ १४४॥
सुधर्मांकितभूलोको जरासन्धबलान्तकः ।
त्यक्तभक्तजरासन्धभीमसेनयशःप्रदः ॥ १४५॥
सान्दीपनिमृतापत्यदाता कालान्तकादिजित् ।
रुक्मिणीरमणो रुक्मिशासनो नरकान्तकृत् ॥ १४६॥
समस्तनरकत्राता सर्वभूपतिकोटिजित् ।
समस्तसुन्दरीकान्तोऽसुरारिर्गरुडध्वजः ॥ १४७॥
एकाकीजितरुद्रार्कमरुदापोऽखिलेश्वरः ।
देवेन्द्रदर्पहा कल्पद्रुमालङ्कृतभूतलः ॥ १४८॥
बाणबाहुसहस्रच्छित्स्कन्दादिगणकोटिजित् ।
लीलाजितमहादेवो महादेवैकपूजितः ॥ १४९॥
इन्द्रार्थार्जुननिर्मत्सुर्जयदः पाण्डवैकधृक् ।
काशीराजशिरस्छेत्ता रुद्रशक्त्येकमर्दनः ॥ १५०॥
विश्वेश्वरप्रसादाढ्यः काशीराजसुतार्दनः ।
शम्भुप्रतिज्ञापाता च स्वयम्भुगणपूजकः ॥ १५१॥
काशीशगणकोटिघ्नो लोकशिक्षाद्विजार्चकः ।
शिवतीव्रतपोवश्यः पुरा शिववरप्रदः ॥ १५२॥
गयासुरप्रतिज्ञाधृक् स्वांशशङ्करपूजकः ।
शिवकन्याव्रतपतिः कृष्णरूपशिवारिहा ॥ १५३॥
महालक्ष्मीवपुर्गौरीत्राणो देवलवातहा ।
विनिद्रमुचुकुन्दैकब्रह्मास्त्रयुवनाश्वहृत् ॥ १५४॥
अक्रूरोऽक्रूरमुख्यैकभक्तस्वच्छन्दमुक्तिदः ।
सबालस्त्रीजलक्रीडाकृतवापीकृतार्णवः ॥ १५५॥
यमुनापतिरानीतपरिणीतद्विजात्मकः ।
श्रीदामशङ्कुभक्तार्थभूम्यानीतेन्द्रभैरवः ॥ १५६॥
दुर्वृत्तशिशुपालैकमुक्तिकोद्धारकेश्वरः ।
आचाण्डालादिकं प्राप्य द्वारकानिधिकोटिकृत् ॥ १५७॥
ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् ।
परिणीतद्विजसुतानेताऽर्जुनमदापहः ॥ १५८॥
गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः ।
पार्थार्थखण्डिताशेषदिव्यास्त्रः पार्थमोहभृत् ॥ १५९॥
ब्रह्मशापच्छलध्वस्तयादवो विभवावहः ।
अनङ्गे जितगौरीशो रतिकान्तः सदेप्सितः ॥ १६०॥
पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीपतिः ।
उषापतिर्विश्वहेतुर्विश्वतृप्तोऽधिपूरुषः ॥ १६१॥
चतुरात्मा चतुर्वर्णश्चतुर्वेदविधायकः ।
चतुर्विश्वैकविश्वात्मा सर्वोत्कृष्टासु कोटिषु ॥ १६२॥
आश्रयात्मा पुराणर्षिर्व्यासः शास्त्रसहस्रकृत् ।
महाभारतनिर्माता कवीन्द्रो वादरायणः ॥ १६३॥
कृष्णद्वैपायनः सर्वपुरुषार्थकबोधकः ।
वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवंशकृत् ॥ १६४॥
बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः ।
निरायुधो जगज्जैत्रः श्रीधनो दुष्टमोहनः ॥ १६५॥
दैत्यवेदबहिष्कर्त्ता वेदार्थश्रुतिगोपकः ।
शुद्धोदनिर्नष्टदिष्टः सुखदः सदसत्पतिः ॥ १६६॥
यथायोग्याखिलकुपः सर्वशून्योऽखिलेष्टदः ।
चतुष्कोटिपृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥ १६७॥
पाषण्डश्रुतिमार्गेण पाषण्डश्रुतिगोपकः ।
कल्की विष्णुयशः पूतः कलिकालविलोपकः ॥ १६८॥
समस्तम्लेच्छहस्तघ्नः सर्वशिष्टद्विजातिकृत् ।
सत्यप्रवर्त्तको देवद्विजदीर्घक्षुधापहः ॥ १६९॥
अवगवादिवेदेन पृथ्वीदुर्गतिनाशनः ।
सद्यः क्ष्मानन्तलक्ष्मीकृत् नष्टनिः शेष धर्मकृत् ॥ १७०॥
अनन्तस्वर्गयागैकहेमपूर्णाखिलद्विजः ।
असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः ॥ १७१॥
आत्मतत्त्वाधिपः कृर्तृश्रेष्ठो विधिरुमापतिः ।
भर्तुः श्रेष्ठः प्रजेशाग्र्यो मरीचिजनकाग्रणीः ॥ १७२॥
कश्यपो देवरादिन्द्रः प्रह्लादो दैत्यराट् शशी ।
नक्षत्रेशो रविस्तेजः श्रेष्ठः शुक्रः कवीश्वरः ॥ १७३॥
महर्षिराट् भृगुर्विष्णुरादित्येशो बलिः स्वराट् ।
वायुर्वह्निः शुचिश्रेष्ठः शङ्करो रुद्रराट् गुरुः ॥ १७४॥
विद्वत्तमश्चित्ररथो गन्धर्वाग्र्यो वसूत्तमः ।
वर्णादिरग्र्या स्त्री गौरी शक्त्यग्र्या श्रीश्च नारदः ॥ १७५॥
देवर्षिराट् पाण्डवाग्र्योऽर्जुनो नारदवादराट् ।
पवनः पवनेशानो वरुणो यादसाम्पतिः ॥ १७६॥
गङ्गातीर्थोत्तमोद्भूतं छत्रकाग्र्यवरौषधम् ।
अन्नं सुदर्शनास्त्राग्र्यो वज्रप्रहरणोत्तमम् ॥ १७७॥
उच्चैःश्रवा वाजिराजः ऐरावत इभेश्वरः ।
अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ॥ १७८॥
अध्यात्मविद्याविद्यात्मा प्रणवश्छन्दसां वरः ।
मेरुर्गिरिपतिर्भार्गो मासाग्र्यः कालसत्तमः ॥ १७९॥
दिनाद्यात्मा पूर्वसिद्धिः कपिलः सामवेदराट् ।
तार्क्ष्यः खगेन्द्रो ऋत्वग्र्यो वसन्तः कल्पपादपः ॥ १८०॥
दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्यः सुरोत्तमः ।
चिन्तामणिर्गुरुश्रेष्ठो माता हिततमः पिता ॥ १८१॥
सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्भूधरो नृपः ।
वणशो ब्राह्मणश्चान्तः करणाग्र्यं नमो नमः ॥ १८२॥
इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् ।
सर्वापराधशमनं परं भक्तिविवर्द्धनम् ॥ १८३॥
अक्षयब्रह्मलोकादिसर्वार्थाप्येकसाधनम् ।
विष्णुलोकैकसोपानं सर्वदु:खविनाशनम् ॥ १८४॥
समस्तसुखदं सत्यं परं निर्वाणदायकम् ।
कामक्रोधादिनिःशेषमनोमलविशोधनम् ॥ १८५॥
शान्तिदं पावनं नृणां महापाताकिनामपि ।
सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥ १८६॥
सर्वविघ्नप्रशमनं सर्वारिष्टविनाशनम् ।
घोरदुःस्वप्नशमनं तीव्रदारिद्र्यनाशनम् ॥ १८७॥
तापत्रयापहं गुह्यं धनधान्ययशस्करम् ।
सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वकामदम् ॥ १८८॥
तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् ।
अप्रज्ञजाड्यशमनं सर्वविद्याप्रवर्त्तकम् ॥ १८९॥
राज्यदं राज्यकामानां रोगिणां सर्वरोगनुत् ।
वन्ध्यानां सुतदं चाशु सर्वश्रेष्ठफलप्रदम् ॥ १९०॥
अस्त्रग्रामविषध्वंसी ग्रहपीडाविनाशनम् ।
माङ्गल्यं पुण्यमायुष्यं श्रवणात् पठनाज्जपात् ॥ १९१॥
सकृदस्याखिला वेदाः साङ्गा मन्त्राश्च कोटिशः ।
पुराणशास्त्रं स्मृतयः पठिताः पठितास्तथा ॥ १९२॥
जप्त्वास्य श्लोकं श्लोकार्धं पादं वा पठतः प्रिये ।
नित्यं सिध्यति सर्वेषामचिरात्किमुतोऽखिलम् ॥ १९३॥
प्राणेन सदृशं सद्यः प्रत्यहं सर्वकर्मसु ।
इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये ॥ १९४॥
नावैष्णवाय दातव्यं विकल्पोपहृतात्मने ।
भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने ॥ १९५॥
देयं पुत्राय शिष्याय शुद्धाय हितकाम्यया ।
मत्प्रसादादृते नेदं ग्रहिष्यन्त्यल्पमेधसः ॥ १९६॥
कलौ सद्यः फलं कल्पग्राममेष्यति नारदः ।
लोकानां भाग्यहीनानां येन दुःखं विनश्यति ॥ १९७॥
क्षेत्रेषु वैष्णवेष्वेतदार्यावर्त्ते भविष्यति ।
नास्ति विष्णोः परं सत्यं नास्ति विष्णोः परम्पदम् ॥ १९८॥
नास्ति विष्णो परं ज्ञानं नास्ति मोक्षो ह्यवैष्णवः ।
नास्ति विष्णोः परो मन्त्रो नास्ति विष्णोः परं तपः ॥ १९९॥
नास्ति विष्णो परं ध्यानं नास्ति मन्त्रो ह्यवैष्णवः ।
किं नास्य बहुभिर्मन्त्रैः किं जपैर्बहुविस्तरैः ॥ २००॥
वाजपेयसहस्रैः किं भक्तिर्यस्य जनार्दने ।
सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभु ॥ २०१॥
सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् ।
आब्रह्मसारसर्वस्य सर्वमेतन्मयोदितम् ॥ २०२॥
श्रीपार्वत्युवाच-
धन्यास्म्यनुगृहितास्मि कृतार्थास्मि जगत्पते ।
यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् ॥ २०३॥
अहो बत महत्कष्टं समस्त सुखदे हरौ ।
विद्यमानेऽपि सर्वेशे मूढाः क्लिश्यन्ति संसृतौ ॥ २०४॥
यमुद्दिश्यसदा नाथो महेशोऽपि दिगम्बरः ।
जटिलो भस्मलिप्ताङ्गस्तपस्वी वीक्षितो जनैः ॥ २०५॥
अतोऽधिको न देवोऽस्ति लक्ष्मीकान्तान्मधुद्विषः ।
यतत्वं चिन्त्यते नित्यं त्वया योगीश्वरेण हि ॥ २०६॥
अतःपरं किमधिकं पदं श्रीपुरुषोत्तमात् ।
तमविज्ञाय तान् मूढा यजन्ते ज्ञानमानिनः ॥ २०७॥
मुषितास्मि त्वया नाथ चिरं यदयमीश्वरः ।
प्रकाशितो न मे यस्य दत्ताद्या दिव्यशक्तयः ॥ २०८॥
अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः ।
भवदादिगुरुर्मूढैः सामान्य इव लक्ष्यते ॥ २०९॥
महीयसां हि माहात्म्यं भजमानान् भजन्ति चेत् ।
द्विषतोऽपि तथा पापानुपेक्ष्यन्ते क्षमालयाः ॥ २१०॥
मयापि बाल्ये स्वपितुः प्रज्ञा दृष्टा बुभुक्षिताः ।
दुखादशक्ताः स्वं पोष्टुं श्रिया नाध्यासिताः पुरा ॥ २११॥
त्वया संवर्धिताभिश्च प्रजाभिर्विबुधादयः ।
विससद्भिः स्वशक्त्याद्याः समुहृन्मित्रबान्धवाः ॥ २१२॥
त्वया विना क्व देवत्वं क्व धैर्यं क्य परिग्रहः ।
सर्वे भवन्ति जीवन्तो यातनाः शिरसि स्थिताः ॥ २१३॥
नामृते नैव धर्मार्थौ कामो मोक्षोऽपि दुर्लभः ।
क्षुधितानां दुर्गतानां कुतो योगसमाधयः ॥ २१४॥
सा च संसारसारैका सर्वलोकैकपालिका ।
वश्या सा कमला यस्य त्यक्त्वा त्वामपि शङ्करः ॥ २१५॥
श्रिया धर्मेण शौर्येण रूपेणार्चवसम्पदा ।
सर्वातिशयवीर्येण सम्पूर्णस्य महात्मनः ॥ २१६॥
कस्तेन तुल्यतामेति देवदेवेन विष्णुना ।
यस्यांशांशकभागेन विना सर्व विलीयते ॥ २१७॥
जगदेतत्तथा प्राहुर्दोषायैतद्विमोहिताः ।
नास्य जन्म जरा मृत्युर्नाप्राप्यं वार्थमेव वा ॥ २१८॥
तथापि कुरुते धर्मान् पालनाय सतां कृते ।
विज्ञापय महादेव प्रणम्यकं महेश्वरम् ॥ २१९॥
अवधार्य तथा साहं कान्त कामद शाश्वत ।
कामाद्यासक्तचित्तत्वात् किं तु सर्वेश्वर प्रभो ॥ २२०॥
त्वन्मयत्वात्प्रसादाद्वा शक्नोमि पठितुं न चेत् ।
विष्णोः सहस्रनामैतत्प्रत्यहं वृषभध्वज ॥
नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो ॥ २२१॥
श्रीमहादेव उवाच-
राम रामेति रामेति रमेरामे मनोरमे ।
सहस्रनामभिस्तुल्यं रामनाम वरानने ॥ २२२॥
अथ सर्वाणि तीर्थानि जलञ्चैव प्रयागजम् ।
विष्णोर्नामसहस्रस्य कलां नार्हन्ति षोडशीम् ॥ २२३॥
॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे
पार्वतीशिवसंवादे श्रीविष्णोर्नामसहस्रं सम्पूर्णम् ॥
Proofread by DPD, PSA Easwaran