ब्रह्मकृतं विष्णुस्तोत्रम्
ततः प्रणम्य देवेशमजमार्तिहरं हरिम् ।
पितामहः प्रह्वतनुर्वाक्यमेतदुवाच ह ॥ २३॥
ज्ञातं स्वरूपमज्ञातस्वरूप भगवंस्तव ।
मया न यद्वाग्विषये तत्रस्थं चाखिलं जगत् ॥ २४॥
धन्योऽस्म्यनुगृहीतोऽस्मि स्वरूपं यन्मया तव ।
भगवञ्ज्ञातमज्ञातमनन्ताज नमोऽस्तु ते ॥ २५॥
यदि प्रसादं देव त्वं प्रकरोषि ममापरम् ।
परमं चावतारेषु यद्रूपं तद्वदस्व मे ॥ २६॥
केषु केषु मया ज्ञेयः स्थानेषु त्वमधोक्षज ।
सम्भूतयो ममाचक्ष्व या भविष्यन्ति ते भुवि ॥ २७॥
देवलोके नृलोके वा पाताले खेऽन्यतोऽपि वा ।
सम्भूतयो यास्तु भवान्करिष्यति वदस्व ताः ॥ २८॥
त्वं कर्ता सर्वभूतानां संहर्ता चेश्वरेश्वरः
तवापि कर्ता नान्योऽस्ति स्वेच्छया क्रीडते भवान् ।
अहं वेद्मि भवन्तं हि न तवान्योऽस्ति वेदिता ॥ २९॥
इति विष्णुधर्मेषु षट्षष्टितमोऽध्यायान्तर्गतं
ब्रह्मकृतं विष्णुस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran