जनकप्रोक्तं विष्णुस्तोत्रम्
जनक उवाच -
सम्यगाह भवान्विप्र वाच्यमेवं भवद्विधैः ।
ममापि श्रूयतां वाक्यं भवतो यदि रोचते ॥ ११॥
यदा सर्वगतो विष्णुः परमात्मा प्रजापतिः ।
तदा मित्रादिमध्यस्थसंज्ञा केषु निपात्यताम् ॥ १२॥
पिता माता तथा भ्राता यदा नान्यज्जनार्दनात् ।
पितृमातृमयीं संज्ञां तदा कुत्र करोम्यहम् ॥ १३॥
सोऽहं ब्रवीमि यद्वाक्यं तन्निबोध द्विजोत्तम ।
अनेकरूपरूपोऽयं विष्णुरेवाखिलं जगत् ॥ १४॥
विष्णुः पिता मे जगतः प्रतिष्ठा विष्णुर्माता विष्णुरेवाग्रजो मे ।
विष्णुर्गतिर्विष्णुमयस्तथास्मि विष्णौ स्थितोऽस्म्यक्षगतश्च विष्णुः ॥ १५॥
यो मे ममत्वोपगतः स विष्णुर्यश्चारिभूतो मम सोऽपि विष्णुः ।
दिवं वियद्भूः ककुभश्च विष्णुर्भूतानि विष्णुर्भुवनानि विष्णुः ॥ १६॥
पश्यामि विष्णुं न परं ततोऽन्यच्छृणोमि विष्णुं न परं ततोऽन्यत् ।
स्पृशामि विष्णुं न परं ततोऽन्यज्जिघ्रामि विष्णुं न परं ततोऽन्यत् ॥ १७॥
रसामि विष्णुं न परं ततोऽन्यन्मन्ये च विष्णुं न परं ततोऽन्यत्
जिघ्रामि विष्णुं न परं ततोऽन्यन्नमामि विष्णुं न परं ततोऽन्यत् ।
बुध्यामि विष्णुं न परं ततोऽन्यत्सर्वं हि विष्णुर्न परं ततोऽन्यत् ॥ १८॥
विष्णुः समस्तं न परं ततोऽस्ति विष्णुः समस्तं न परं च देवः
विष्णुः स्थवीयान्न परं ततोऽस्ति विष्णुर्लघीयान्न परं ततोऽस्ति
विष्णुर्गरीयान्न परं ततोऽन्यत् विष्णुरणीयान्न परं ततोऽस्ति ॥ १९॥
यथा न विष्णुव्यतिरिक्तमन्यच्छृणोमि पश्यामि तथा स्पृशामि ।
सत्येन तेनोपशमं प्रयान्तु दोषा विमुक्तेः परिपन्थिनो ये ॥ २०॥
न मेऽस्ति बन्धुर्न च मेऽस्ति शत्रुर्न भूतवर्गो न जनो मदन्यः ।
त्वं चाहमन्ये च शरीरभेदैर्विभिन्नमीशस्य हरेः स्वरूपम् ॥ २१॥
मूर्तामूर्तिविशेषं तु पश्यतस्तन्मयं द्विज ।
क्रोधहर्षादयो भावाः स्थास्यन्ति हृदये कथम् ॥ २२॥
स त्वं प्रसीद मोहोऽयमथ चेन्मम सुव्रत ।
तथापि मा रुषं कार्षीरचिकित्स्या हि मोहिताः ॥ २३॥
इति विष्णुधर्मेषु पञ्चषष्टितमोऽध्यायान्तर्गतं
जनकप्रोक्तं विष्णुस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran