शतानीकाय शौनकप्रोक्तम् विष्णुस्तोत्रम्
ॐ नमो वासुदेवाय पुरुषाय महात्मने ।
हिरण्यरेतसेऽचिन्त्यस्वरूपायातिवेधसे ॥ १०॥
विष्णवे जिष्णवे नित्यं शान्तायानघरूपिणे ।
सर्वस्थित्यन्तकरणव्रतिने पीतवाससे ॥ ११॥
नारायणाय विश्वाय विश्वेशायेश्वराय च ।
नमः कमलकिञ्जल्कसुवर्णमुकुटाय च ॥ १२॥
केशवायातिसूक्ष्माय ब्रह्ममूर्तिमते नमः ।
नमः परमकल्याणकल्याणायात्मयोनये ॥ १३॥
जनार्दनाय देवाय श्रीधराय सुमेधसे ।
महात्मने वरेण्याय नमः पङ्कजनाभये ॥ १४॥
स्मृतमात्राघघाताय कृष्णायाक्लिष्टकर्मणे ।
नमो नताय नम्रेशैरशेषैर्वासवादिभिः ॥ १५॥
नमो मायाविने तुभ्यं हरये हरिमेधसे ।
हिरण्यगर्भगर्भाय जगतः कारणात्मने ॥ १६॥
गोविन्दायादिभूताय श्रादीनां? महात्मने ।
नमो भूतात्मभूताय आत्मने परमात्मने ॥ १७॥
अच्युताय नमो नित्यमनन्ताय नमो नमः ।
दामोदराय शुचये यज्ञेशाय नमो नमः ॥ १८॥
नमो मायापटच्छन्नजगद्धाम्ने महात्मने ।
हृषीकेशाय चेशाय सर्वभूतात्मरूपिणे ॥ १९॥
दयालवे नमो नित्यं कपिलाय सुमेधसे ।
संसारसागरोत्तारज्ञानपोतप्रदायिने ॥ २०॥
अकुण्ठमतये धात्रे सर्गस्थित्यन्तकर्मणि ।
करालसौम्यरूपाय वैकुण्ठाय नमो नमः ॥ २१॥
इति विष्णुधर्मेषु द्विनवतितमोऽध्यायान्तर्गतं शतानीकाय
शौनकप्रोक्तं विष्णुस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran