वसुकृतम् विष्णुस्तोत्रम्
वसुरुवाच -
स्तौमि देवमजं नित्यं परिणामविवर्जितम् ।
अवृद्धिक्षयमीशानमच्युतं परतः परम् ॥ ५१॥
कल्पनाकृतनामानमनिर्देश्यमजं विभुम् ।
मूलहेतुमहेतुं त्वां वासुदेवं नमाम्यहम् ॥ ५२॥
परमार्थपरैरीशश्चिन्त्यते यः प्रजाकरैः ।
तं वासुदेवमीशेशं नमाम्यद्य गुणं परम् ॥ ५३॥
यस्मादिदं यत्र चेदमिदं यो विश्वमव्ययम् ।
तं वासुदेवममलं नमामि परमेश्वरम् ॥ ५४॥
ज्ञेयं ज्ञातारमजरं भोक्तारं प्रकृतेः प्रभुम् ।
पुरुषस्वरूपिणं देवं नतोऽस्मि पुरुषं परम् ॥ ५५॥
प्रधानादिविशेषान्तस्वरूपमजमव्ययम् ।
स्थूलसूक्ष्ममयं सर्वव्यापिनं तं नमाम्यहम् ॥ ५६॥
स्रष्टा पालयिता चान्ते यश्च संहारकारकः ।
त्रयीमयं तं त्रिगुणं नतोऽस्मि पुरुषोत्तमम् ॥ ५७॥
आब्रह्मस्थावरान्ते च यो जगत्यत्र संस्थितः ।
व्यक्तरूपी च तं देवं नतोऽहं विष्णुमव्ययम् ॥ ५८॥
नमो नमोऽस्तु ते देव जगतामीश्वरेश्वर ।
परमार्थ पराचिन्त्य विधातः परमेश्वर ॥ ५९॥
त्वमादिरन्तो मध्यं च जगतोऽस्य जगत्पते ।
जगत्त्वयि जगच्च त्वं जगत्त्वत्तो जगन्मय ॥ ६०॥
तवाग्निरासं वसुधाङ्घ्रियुग्मं नभः शिरश्चन्द्ररवी च नेत्रे ।
समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ॥ ६१॥
यद्भूगतं यद्गगनान्तराले यद्वा नभस्यखिललोकगं च ।
यत्स्थूलं सूक्ष्मं परतस्ततोऽपि यदस्ति यन्नास्ति च तत्त्वमीश ॥ ६२॥
वेदाश्च वेद्यं च भगवाननन्तो वेदान्तवेद्यश्च समस्तहेतो ।
वदन्ति तत्त्वा मुनयः परेशं त्वयि प्रसन्ने परमार्थदृश्ये ॥ ६३॥
नमो हृषीकेश तवाप्रमेय नमश्च तुभ्यं परमार्थसार ।
विष्णो नमस्तेऽस्तु परापरेश कृष्णाच्युतानन्त जगन्निवास ॥ ६४॥
नमोऽस्तु तुभ्यं परमेश्वराय नमस्तथान्तःकारणस्थिताय ।
प्रधानभूताय नमश्च तुभ्यं व्यक्तस्वरूपेण च संस्थिताय ॥ ६५॥
संहृत्य विश्वं जलशायिने नमो नमश्च ते कैटभसूदनाय ।
स्वनाभिपद्मोदरशायिने च ब्रह्मस्वरूपोपनताय चैव ॥ ६६॥
स्रष्ट्रे नमः पालयित्रे स्थितौ च सर्वेश तुभ्यं पुरुषोत्तमाय ।
रुद्राय चान्ते क्षयहेतवे ते नतोऽस्मि संहारकराय विष्णो ॥ ६७॥
जय प्रपन्नार्तिहराप्रमेय जयाग्निवस्वश्विमय प्रजेश ।
रुद्रेन्द्रचन्द्रस्तुत देवदेव जयामराणामरिशातनाय ॥ ६८॥
जितं त्वया सर्वग सर्वसारं सर्वात्मभूताखिल वेदवेद्य ।
जितं जिताक्षामलचित्तदृश्य चराचराधार धराधरेड्य ॥ ६९॥
यज्ञाश्रयो यज्ञपुमानशेष देवेश मर्त्यासुरयज्ञभोक्तः ।
त्वमीड्यमानोऽभिमतं ददासि धराधरेशाच्युत वासुदेव ॥ ७०॥
नमस्ते देवदेव त्वं यथा पास्यखिलं जगत् ।
स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर ॥ ७१॥
कृष्णाच्युत हृषीकेश सर्वभूतेश केशव ।
महात्मंस्त्राहि मां भक्तं वासुदेव प्रसीद मे ॥ ७२॥
इति विष्णुधर्मेषु द्विसप्ततितमोऽध्यायान्तर्गतं वसुकृतं
विष्णुस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran