मार्कण्डेयप्रोक्तं विष्णुस्तोत्रम्
व्यक्ताव्यक्तस्वरूपाय सदसद्व्यक्तिरूपिणे ।
स्थूलाय सूक्ष्मरूपाय विश्वरूपाय वेधसे ॥ १९॥
नित्याय नित्यज्ञानाय निर्विकाराय तेजसे ।
विद्याविद्यास्वरूपाय कालरूपाय वै नमः ॥ २०॥
निर्मलायोर्मिषट्कादिरहिताय विरागिणे ।
व्यापिने विश्वरूपाय सृष्टिस्थित्यन्तकारिणे ॥ २१॥
योगिभिश्चिन्त्यते योऽसौ वेदान्तान्तगचिन्तकैः ।
अन्तरन्तः परञ्ज्योतिःस्वरूपं प्रणमामि तम् ॥ २२॥
इति कालिकापुराणे प्रथमाध्यायान्तर्गतं
मार्कण्डेयप्रोक्तं विष्णुस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran