राजा अम्बरीषकृतम् विष्णुस्तोत्रम्
राजोवाच -
आदिदेव जयाजेय जय सर्गादिकारक ।
जयास्पष्टप्रकाशाण्ड बृहन्मूर्ते जयाक्षर ॥ ३६॥
जय सर्वगताचिन्त्य जय जन्मजरापह ।
जय व्यापिञ्जयाभेद सर्वभूतेष्ववस्थित ॥ ३७॥
जय यज्ञपते नाथ हव्यकव्याशनाव्यय ।
जय विज्ञातसिद्धान्त मायामोहक केशव ॥ ३८॥
लोकस्थित्यर्थमनघ वराह जय भूधर ।
नृसिंह जय देवारिवक्षःस्थलविदारण ॥ ३९॥
देवानामरिभीतानामार्तिनाशन वामन ।
जय क्रान्तसमस्तोर्वीनभःस्वर्लोकभावन ॥ ४०॥
जितं ते जगतामीश जितं ते सर्व सर्वद ।
जितं ते सर्वभूतेश योगिध्येय नमोऽस्तु ते ॥ ४१॥
नमोऽस्त्वव्यपदेश्याय नमः सूक्ष्मस्वरूपिणे ।
नमस्त्रिमूर्तये तुभ्यं विश्वमूर्ते नमोऽस्तु ते ॥ ४२॥
ब्रह्माद्यैश्चिन्त्यते रूपं यत्तत्सदसतः परम् ।
विशेषैरविशेष्याय तस्मै तुभ्यं नमो नमः ॥ ४३॥
पुरुषाख्यं ततो रूपं निर्गुणं गुणभोक्तृ च ।
प्रकृतेः परतः सूक्ष्मं तन्नमस्यामि ते हरे ॥ ४४॥
अव्यक्तादिविशेषान्तमतिसूक्ष्मतमं महत् ।
प्राकृतं तव तद्रूपं तस्मै देव नमाम्यहम् ॥ ४५॥
रूपैर्नानाविधैर्यश्च तद्रूपान्तरगोचरम् ।
लीलया व्यवहारस्ते तस्मै देवात्मने नमः ॥ ४६॥
प्रसीद विष्णो गोविन्द शङ्खचक्रगदाधर ।
धराधरारविन्दाक्ष वासुदेव महेश्वर ॥ ४७॥
इति विष्णुधर्मेषु द्वितीयोऽध्यायान्तर्गतं राजा अम्बरीषकृतं
विष्णुस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran