श्रीविष्णुस्तुतिः (मुचुकुन्दकृता)

श्रीविष्णुस्तुतिः (मुचुकुन्दकृता)

विमोहितोऽयं जन ईश मायया त्वदीयया त्वां च भजत्यनर्थदृक् । सुखाय दुःखप्रभवेषु सज्जते गृहेषु योषित्पुरुषश्च वञ्चितः ॥ १॥ लब्ध्वा जनो दुर्लभमत्र मानुषं कथञ्चिदव्यङ्गमयत्नतोऽनघ । पादारविन्दं न भजत्यसन्मति- र्गृहान्धकूपे पतितो यथा पशुः ॥ २॥ ममैष कालोऽजित निष्फलो गतो राज्यश्रियोन्नद्धमदस्य भूपते । मर्त्यात्मबुद्धेः सुतदारकोशभू- ष्वासज्जमानस्य दुरन्तचिन्तया ॥ ३॥ कलेवरेऽस्मिन् घटकुड्यसन्निभे निरूढमानो नरदेव इत्यहम् । वृतो रथेभाश्वपदात्यनीकपैर्गां पर्यटंस्त्वागणयन् सुदुर्मदः ॥ ४॥ प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रभुद्धलोभं विषयेषु लालसम् । त्वमप्रमत्तः सहसाऽभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ ५॥ पुरा रथैर्हेमपरिष्कृतैश्चरन् मतङ्गजैर्वा नरदेवसंज्ञितः । स एव कालेन दुरत्ययेन ते कलेवरो विट्कृमिभस्मसंज्ञितः ॥ ६॥ निर्जित्य दिक्चक्रमभूतविग्रहो वरासनस्थः समराजवन्दितः । गृहेषु मैथुन्यसुखेषु योषितां क्रीडामृग पूरुष ईश नीयते ॥ ७॥ करोति कर्माणि तपःसु निष्ठितो निवृत्तभोगस्तदपेक्षया ददत् । पुनश्च भूयेयमहं स्वराडिति प्रबुद्धतर्षो न सुखाय कल्पते ॥ ८॥ भवापवर्गो भ्रमतो यदा भवे- ज्जनस्य तर्ह्यच्युत सत्समागमः । सत्सङ्गमो यर्हि तदैव सद्गतौ परावरेशे त्वयि जायते मतिः ॥ ९॥ मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया । यः प्रार्थ्यते साधुभिरेकचर्यया वनं विविक्षद्भिरखण्डभूमिपैः ॥ १०॥ न कामयेऽन्यं तव पादसेवनाद्- अकिञ्चनप्रार्थ्यतमाद्वरं विभो । आराध्य कस्त्वां ह्यपवर्गदं हरे वृणीत आर्यो वरमात्मबन्धनम् ॥ ११॥ तस्माद्विसृज्याशिष ईश सर्वतो रजस्तमःसत्त्वगुणानुबन्धनाः । निरञ्जनं निर्गुणमद्वयं परं त्वां ज्ञप्तिमात्रं पुरुषं व्रजाम्यहम् ॥ १२॥ चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैः अवितृषषडमित्रो लब्धशान्तिः कथञ्चित् । शरणद समुपेतस्त्वत्पदाब्जं परात्मन् अभयममृतमशोकं पाहि माऽऽपन्नमीश ॥ १३॥ इति श्रीमद्भागवतान्तर्गता मुचुकुन्दकृता श्रीविष्णुस्तुतिः समाप्ता । इति श्रीमद्भागवतमहापुराणे दशमस्कन्धे उत्तरार्धे एकपञ्चाशत्तमाध्यायान्तर्गतं मुचुकुन्दकृतं श्रीकृष्णस्तोत्रं समाप्तम् । भागवतपुराण । अध्याय १०/५१/४६-५८॥ bhAgavatapurANa . adhyAya 10/51/46-58.. Proofread by PSA Easwaran
% Text title            : viShNustutiHmuchukunda
% File name             : viShNustutiHmuchukunda.itx
% itxtitle              : viShNustutiH (muchukundakRitA bhAgavatAntargatA)
% engtitle              : viShNustutiHmuchukunda
% Category              : vishhnu, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : bhAgavatapurANa | adhyAya 10/51/46-58||
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org