श्रीविष्णुस्तवनं मार्कण्डेयप्रोक्तं नरसिंहपुराणे
मार्कण्डेय उवाच --
नरं नृसिंहं नरनाथमच्युतं प्रलम्बबाहुं कमलायतेक्षणम् ।
क्षितीश्वरैरर्चितपादपङ्कजं नमामि विष्णुं पुरुषं पुरातनम् ॥ १॥
जगत्पतिं क्षीरसमुद्रमन्दिरं तं शार्ङ्गपाणिं मुनिवृन्दवन्दितम् ।
श्रियः पतिं श्रीधरमीशमीश्वरं नमामि गोविन्दमनन्तवर्चसम् ॥ २॥
अजं वरेण्यं जनदुःखनाशनं गुरुं पुराणं पुरुषोत्तमं प्रभुम् ।
सहस्रसूर्यद्युतिमन्तमच्युतं नमामि भक्त्या हरिमाद्यमाधवम् ॥ ३॥
पुरस्कृतं पुण्यवतां परां गतिं क्षितीश्वरं लोकपतिं प्रजापतिम् ।
परं पराणामपि कारणं हरिं नमामि लोकत्रयकर्मसाक्षिणम् ॥ ४॥
भोगे त्वनन्तस्य पयोदधौ सुरः पुरा हि शेते भगवाननादिकृत् ।
क्षीरोदवीचीकणिकाम्बुनोक्षितं तं श्रीनिवासं प्रणतोऽस्मि केशवम् ॥ ५॥
यो नारसिंहं वपुरास्थितो महान् सुरो मुरारिर्मधुकैटभान्तकृत् ।
समस्तलोकार्तिहरं हिरण्यकं नमामि विष्णुं सततं नमामि तम् ॥ ६॥
अनन्तमव्यक्तमतीन्द्रियं विभुं स्वे स्वे हि रूपे स्वयमेव संस्थितम् ।
योगेश्वरैरेव सदा नमस्कृतं नमामि भक्त्या सततं जनार्दनम् ॥ ७॥
आनन्दमेकं विरजं विदात्मकं वृन्दालयं योगिभिरेव पूजितम् ।
अणोरणीयांसमवृद्धिमक्षयं नमामि भक्तप्रियमीश्वरं हरिम् ॥ ८॥
इति ।
अध्याय १० श्लोक ८-१५, अध्याय श्लोक संख्या ५२
श्रीनरसिंहपुराणे मार्कण्डेयचरित्रे दशमोऽध्यायः ॥ १०॥
From Narasimhapurana adhyAya 10. Selected verses.
https://archive.org/details/NarsimhaPuranGitapress
Proofread by Singanallur Ganesan singanallur at gmail.com