श्रीविष्ण्वष्टमङ्गलम्
मङ्गलं भगवान्विष्णुर्मङ्गलं गरुडध्वजः ।
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ॥ १॥
मङ्गलं लक्ष्मणभ्राता मङ्गलं जानकीश्वरः ।
मङ्गलं शुभदो रामो मङ्गलं हनुमत्प्रियः ॥ २॥
मङ्गलं परमानन्दो मङ्गलं परमेश्वरः ।
मङ्गलं श्रीपद्मनाभो मङ्गलं पद्मलोचनः ॥ ३॥
मङ्गलं करुणासिन्धुर्मङ्गलं विश्वपालकः ।
मङ्गलं सच्चिदानन्दो मङ्गलं जगदीश्वरः ॥ ४॥
मङ्गलं श्रीरङ्गनाथो मङ्गलं पुरुषोत्तमः ।
मङ्गलं कमलाकान्तो मङ्गलं भक्तवत्सलः ॥ ५॥
मङ्गलं भगवान्कृष्णो मङ्गलं विश्वजीवनः ।
मङ्गलं माधवो धीरो मङ्गलं धरणीधरः ॥ ६॥
मङ्गलं राधिकाकान्तो मङ्गलं देवकीसुतः ।
मङ्गलं देवदेवेशो मङ्गलं भक्तपालकः ॥ ७॥
मङ्गलं बदरीनाथो मङ्गलं करुणाकरः ।
मङ्गलं श्रीमुक्तिनाथो मङ्गलं सर्वनायकः ॥ ८॥
इति श्रीविष्ण्वष्टमङ्गलं सम्पूर्णम् ।
Encoded and proofread by Ruma Dewan