श्रीविठ्ठलप्रबोधः
विठ्ठलेश्वरकृतः ।
जय जय तुहिनकरनिकरकुड्मलितकमलावलीनिलीनतया
निवृत्तमधुकरनिकरमधुरतरोद्घोषोद्धतिविहतनिद्र
भद्र सुभद्राग्रज ॥ १॥
जय जय निजमुखकमलामलपरिमलाघ्राणजनितसुखातिशयेनैव
सञ्जातसुखनिद्राविद्रावणभियेव नयनयुगलखञ्जरीटोन्मीलनभियेव
झङ्काररहितैरलिभिरिवालकशतैः परिवृतवदनारविन्द गोविन्द ॥ २॥
जय जय निशाकरकरविकचकुवलयकोशनिर्यातदिवाकरकरनिकरकुञ्चित-
कमलावलिकोशस्थितिजनितमधुरमधुपानोन्मोदमुदितभृङ्गाङ्गनारवमधुर-
तरोद्घोषविद्रावितनिद्र निखिलगोपीजनजनितनिजाधारहिन्दोलान्दोलन-
चलदमलवलयझणत्कारेण मधुरतरनिनदवीणागीतादिभिरुन्निद्र-
नयनखञ्जरीटयुगल ॥ ३॥
जय जय ततः किञ्चिदुन्मीलनोन्नतभ्रूलतासमशरासनच्युतकुसुम-
विशिखद्वयेनेव गोपीजनवदनशरदिन्दुविभ्रमसञ्चरत्खञ्जनयुगलेनेव
हिन्दोलान्दोलनचलदमलसुभगबल्लवीगण्डमण्डलस्फुरत्ताटङ्क-
मार्तण्डभ्रमविकसितकमलद्वयेनेवारुणतरामलराधाधरदीधिति-
किर्मीरितदरहसनप्रकटरदनावलीतुहिनकरप्रतिभटप्रभाजनितशारद-
शर्वरीपत्युदयभ्रमविकसितकुमुदद्वयेन प्रकटितनयनयुगेनेक्षित-
निखिलनितम्बनीवृन्द ॥ ४॥
जय जय निजदृगन्तपातसोपानसमारूढमकरकेतुभिर्निजवदनशरदिन्दु-
सम्फुल्लातिलोललोचनकुवलयाभिरनल्पाकल्पभूषिताभिर्निजनितम्ब-
बिम्बालङ्कृतसुधाकरकरधवलविशदसुभगतल्पाभिर्हरिकरकमल-
नखशरसम्पातपराजितानङ्गपृतनाभिरिव विगलितकञ्चिकाञ्चल-
नितम्बाम्बरभूषाभिः अतिसुभगविशदजघनकनकासनोपवेशित-
प्रियाभिर्निजनखदृगन्तविविधप्रसूनार्चितवल्लभाभिः सुरतविद्याविनोद-
चतुराभिर्भावाधिगमसमये प्रियवियोगशङ्कयान्तर्नयनद्वारं प्रवेश्य
पिहितकपाटाभिरिव निमीलितनयनाभिः क्रीडित ॥ ५॥
जय जय पुनरतिनिर्वृतिविहितनिद्र जागृहि जागृहि ॥ ६॥
न यावदेष कुङ्कुमारुणांशुरिन्दिरापते
पुरन्दरीयदिङ्मुखं समेति तावदुत्थितः ।
प्रमार्जयाननाम्बुजं निजाधरं च सुन्दरं
कदम्बशोभितान्तरस्वतल्पमन्मथोदयम् ॥ ७॥
न चेदमी शमीतरुप्रसूनतल्पकञ्चुकं
नखक्षतं च मेचकाधरं सकुङ्कुमं मुखम् ।
विलोक्य नागरा जनास्त ईदृशीं तव स्थितिं
प्रभो सभासु भाषितुं समुज्झितोक्तयो न हि ॥ ८॥
स्फुरत्त्वन्मुखाम्भोजशोभानिवृत्तस्वसौन्दर्यगर्वाचलः शर्वरीशः ।
ह्रिया मज्जति क्षीरवारान्निधौ तन्नखालिच्छटाभिश्च तुच्छीकृतोऽयम् ॥ ९॥
दिवाकरोऽयमुत्कटस्त्वदङ्घ्रिपङ्कजार्हणं
विधातुमागतोऽम्बुजैस्तदर्हणं सभाजय ।
कलिन्दजा त्वदाननावलोकनाय दृक्सरो
जनूंषि सम्प्रसारयत्यनङ्गकोटिसुन्दर ॥ १०॥
स्फुरत्सरोजनिर्गतद्विरेफयूथगायका
यशोदयावतन्वते दिशं शुभाय दर्शनार्थिनः ।
जगद्विलोचने हरे कुरुष्व सार्थजन्मके
कृपां कुरुष्व विठ्ठले स्वपादपद्मसेवके ॥ ११॥
इति विठ्ठलेश्वरकृतः श्रीविठ्ठलप्रबोधः सम्पूर्णः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com