विप्रपत्निभिः कृतं श्रीकृष्णस्तोत्रम्

विप्रपत्निभिः कृतं श्रीकृष्णस्तोत्रम्

विप्रपत्न्य ऊचुः । त्वं ब्रह्म परमं धाम निरीहो निरहङ्कृतिः । निर्गुणश्च निराकारः साकारः सगुणः स्वयम् ॥ ३६॥ साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः । प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ ३७॥ सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः स्मृताः । ते त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः ॥ ३८॥ यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर । महाविराण्महाविष्णुस्त्वं तस्य जनको विभो ॥ ३९॥ तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः । वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ॥ ४०॥ महदादिसृष्टिसूत्रं पञ्चतन्मात्रमेव च । बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ ४१॥ सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा । त्वमनीहः स्वयञ्ज्योतिः सर्वानन्दः सनातनः ॥ ४२॥ अहोऽप्याकारहीनस्त्वं सर्वविग्रहवानपि । सर्वेन्द्रियाणां विषयं जानासि नेन्द्रियी भवान् ॥ ४३॥ सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे । जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम् ॥ ४४॥ पार्वती कमला राधा सावित्री वेदसूरपि । वेदश्च जडतां याति के वा शक्ता विपश्चितः ॥ ४९॥ वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वर । प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु ॥ ४६॥ इति पेतुश्च ता विप्रपत्न्यस्तच्चरणाम्बुजे । अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः ॥ ४७॥ विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत् । स गतिं विप्रपत्नीनां लभते नात्र संशयः ॥ ४८॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे अष्टादशाध्यायान्तर्गतं विप्रपत्निभिः कृतं श्रीकृष्णस्तोत्रं समाप्तम् । ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म; पूर्वभाग । अध्याय १८/३६-४६॥ brahmavaivartapurANa . shrIkRRiShNajanma; pUrvabhAga . adhyAya 18/36-46.. Proofread by PSA Easwaran
% Text title            : Viprapatnibhih Kritam Shri Krishna Stotram
% File name             : viprapatnibhiHkRRitaMshrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (viprapatnibhiHkRitaM brahmavaivartapurANAntargatam tvaM brahma paramaM dhAma nirIho nirahaNkRitiH)
% engtitle              : viprapatnibhiHkRRitaM shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, brahmavaivartapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | shrIkRRiShNajanma; pUrvabhAga | adhyAya 18/36-46||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 22, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org