श्रीविष्णुसहस्रनामावलिः

श्रीविष्णुसहस्रनामावलिः

पूर्वन्यासः । श्रीवेदव्यास उवाच --- ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । श्री वेदव्यासो भगवान् ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनः स्रष्टेति शक्तिः । उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणिरक्षोभ्य इति नेत्रम् । त्रिसामा सामगः सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥ श्रीविश्वरूप इति ध्यानम् । श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥ अथ न्यासः । ॐ शिरसि वेदव्यासऋषये नमः । मुखे अनुष्टुप्छन्दसे नमः । हृदि श्रीकृष्णपरमात्मदेवतायै नमः । गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः । पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः । सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः । करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥ इति ऋषयादिन्यासः ॥ अथ करन्यासः । ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः । अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः । सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः । निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः । रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । अथ षडङ्गन्यासः । ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः । अमृतांशूद्भवो भानुरिति शिरसे स्वाहा । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् । सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् । निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् । रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् । इति षडङ्गन्यासः ॥ श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं करिष्ये इति सङ्कल्पः । ध्यानम् । शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ । अथ श्रीविष्णुसहस्रनामावलिः । १ ॐ विश्वस्मै नमः । २ ॐ विष्णवे नमः । ३ ॐ वषट्काराय नमः । ४ ॐ भूतभव्यभवत्प्रभवे नमः । ५ ॐ भूतकृते नमः । ६ ॐ भूतभृते नमः । ७ ॐ भावाय नमः । ८ ॐ भूतात्मने नमः । ९ ॐ भूतभावनाय नमः । १० ॐ पूतात्मने नमः । ११ ॐ परमात्मने नमः । १२ ॐ मुक्तानां परमायै गतये नमः । १३ ॐ अव्ययाय नमः । १४ ॐ पुरुषाय नमः । १५ ॐ साक्षिणे नमः । १६ ॐ क्षेत्रज्ञाय नमः । १७ ॐ अक्षराय नमः । १८ ॐ योगाय नमः । १९ ॐ योगविदां नेत्रे नमः । २० ॐ प्रधानपुरुषेश्वराय नमः । २१ ॐ नारसिंहवपुषे नमः । २२ ॐ श्रीमते नमः । २३ ॐ केशवाय नमः । २४ ॐ पुरुषोत्तमाय नमः । २५ ॐ सर्वस्मै नमः । २६ ॐ शर्वाय नमः । २७ ॐ शिवाय नमः । २८ ॐ स्थाणवे नमः । २९ ॐ भूतादये नमः । ३० ॐ निधयेऽव्ययाय नमः । ३१ ॐ सम्भवाय नमः । ३२ ॐ भावनाय नमः । ३३ ॐ भर्त्रे नमः । ३४ ॐ प्रभवाय नमः । ३५ ॐ प्रभवे नमः । ३६ ॐ ईश्वराय नमः । ३७ ॐ स्वयम्भुवे नमः । ३८ ॐ शम्भवे नमः । ३९ ॐ आदित्याय नमः । ४० ॐ पुष्कराक्षाय नमः । ४१ ॐ महास्वनाय नमः । ४२ ॐ अनादिनिधनाय नमः । ४३ ॐ धात्रे नमः । ४४ ॐ विधात्रे नमः । ४५ ॐ धातवे उत्तमाय नमः । ४६ ॐ अप्रमेयाय नमः । ४७ ॐ हृषीकेशाय नमः । ४८ ॐ पद्मनाभाय नमः । ४९ ॐ अमरप्रभवे नमः । ५० ॐ विश्वकर्मणे नमः । ५१ ॐ मनवे नमः । ५२ ॐ त्वष्ट्रे नमः । ५३ ॐ स्थविष्ठाय नमः । ५४ ॐ स्थविराय ध्रुवाय नमः । ५५ ॐ अग्राह्याय नमः । ५६ ॐ शाश्वताय नमः । ५७ ॐ कृष्णाय नमः । ५८ ॐ लोहिताक्षाय नमः । ५९ ॐ प्रतर्दनाय नमः । ६० ॐ प्रभूताय नमः । ६१ ॐ त्रिककुब्धाम्ने नमः । ६२ ॐ पवित्राय नमः । ६३ ॐ मङ्गल पराय नमः । (मङ्गलाय परस्मै) ६४ ॐ ईशानाय नमः । ६५ ॐ प्राणदाय नमः । ६६ ॐ प्राणाय नमः । ६७ ॐ ज्येष्ठाय नमः । ६८ ॐ श्रेष्ठाय नमः । ६९ ॐ प्रजापतये नमः । ७० ॐ हिरण्यगर्भाय नमः । ७१ ॐ भूगर्भाय नमः । ७२ ॐ माधवाय नमः । ७३ ॐ मधुसूदनाय नमः । ७४ ॐ ईश्वराय नमः । (see 36) ७५ ॐ विक्रमिणे नमः । ७६ ॐ धन्विने नमः । ७७ ॐ मेधाविने नमः । ७८ ॐ विक्रमाय नमः । ७९ ॐ क्रमाय नमः । ८० ॐ अनुत्तमाय नमः । ८१ ॐ दुराधर्षाय नमः । ८२ ॐ कृतज्ञाय नमः । ८३ ॐ कृतये नमः । ८४ ॐ आत्मवते नमः । ८५ ॐ सुरेशाय नमः । ८६ ॐ शरणाय नमः । ८७ ॐ शर्मणे नमः । ८८ ॐ विश्वरेतसे नमः । ८९ ॐ प्रजाभवाय नमः । ९० ॐ अह्ने नमः । ९१ ॐ संवत्सराय नमः । ९२ ॐ व्यालाय नमः । ९३ ॐ प्रत्ययाय नमः । ९४ ॐ सर्वदर्शनाय नमः । ९५ ॐ अजाय नमः । ९६ ॐ सर्वेश्वराय नमः । ९७ ॐ सिद्धाय नमः । ९८ ॐ सिद्धये नमः । ९९ ॐ सर्वादये नमः । १०० ॐ अच्युताय नमः । १०१ ॐ वृषाकपये नमः । १०२ ॐ अमेयात्मने नमः । १०३ ॐ सर्वयोगविनिःसृताय नमः । १०४ ॐ वसवे नमः । १०५ ॐ वसुमनसे नमः । १०६ ॐ सत्याय नमः । १०७ ॐ समात्मने नमः । १०८ ॐ सम्मिताय नमः । १०९ ॐ समाय नमः । ११० ॐ अमोघाय नमः । १११ ॐ पुण्डरीकाक्षाय नमः । ११२ ॐ वृषकर्मणे नमः । ११३ ॐ वृषाकृतये नमः । ११४ ॐ रुद्राय नमः । ११५ ॐ बहुशिरसे नमः । ११६ ॐ बभ्रवे नमः । ११७ ॐ विश्वयोनये नमः । ११८ ॐ शुचिश्रवसे नमः । ११९ ॐ अमृताय नमः । १२० ॐ शाश्वतस्थाणवे नमः । १२१ ॐ वरारोहाय नमः । १२२ ॐ महातपसे नमः । १२३ ॐ सर्वगाय नमः । १२४ ॐ सर्वविद्भानवे नमः । १२५ ॐ विष्वक्सेनाय नमः । १२६ ॐ जनार्दनाय नमः । १२७ ॐ वेदाय नमः । १२८ ॐ वेदविदे नमः । १२९ ॐ अव्यङ्गाय नमः । १३० ॐ वेदाङ्गाय नमः । १३१ ॐ वेदविदे नमः । (see 128) १३२ ॐ कवये नमः । १३३ ॐ लोकाध्यक्षाय नमः । १३४ ॐ सुराध्यक्षाय नमः । १३५ ॐ धर्माध्यक्षाय नमः । १३६ ॐ कृताकृताय नमः । १३७ ॐ चतुरात्मने नमः । १३८ ॐ चतुर्व्यूहाय नमः । १३९ ॐ चतुर्दंष्त्राय नमः । १४० ॐ चतुर्भुजाय नमः । १४१ ॐ भ्राजिष्णवे नमः । १४२ ॐ भोजनाय नमः । १४३ ॐ भोक्त्रे नमः । १४४ ॐ सहिष्णवे नमः । १४५ ॐ जगदादिजाय नमः । १४६ ॐ अनघाय नमः । १४७ ॐ विजयाय नमः । १४८ ॐ जेत्रे नमः । १४९ ॐ विश्वयोनये नमः । (see 117) १५० ॐ पुनर्वसवे नमः । १५१ ॐ उपेन्द्राय नमः । १५२ ॐ वामनाय नमः । १५३ ॐ प्रांशवे नमः । १५४ ॐ अमोघाय नमः । (see 110) १५५ ॐ शुचये नमः । १५६ ॐ ऊर्जिताय नमः । १५७ ॐ अतीन्द्राय नमः । १५८ ॐ सङ्ग्रहाय नमः । १५९ ॐ सर्गाय नमः । १६० ॐ धृतात्मने नमः । १६१ ॐ नियमाय नमः । १६२ ॐ यमाय नमः । १६३ ॐ वेद्याय नमः । १६४ ॐ वैद्याय नमः । १६५ ॐ सदायोगिने नमः । १६६ ॐ वीरघ्ने नमः । १६७ ॐ माधवाय नमः । (see 72) १६८ ॐ मधवे नमः । १६९ ॐ अतीन्द्रियाय नमः । १७० ॐ महामायाय नमः । १७१ ॐ महोत्साहाय नमः । १७२ ॐ महाबलाय नमः । १७३ ॐ महाबुद्धये नमः । १७४ ॐ महावीर्याय नमः । १७५ ॐ महाशक्तये नमः । १७६ ॐ महाद्युतये नमः । १७७ ॐ अनिर्देश्यवपुषे नमः । १७८ ॐ श्रीमते नमः । (see 22) १७९ ॐ अमेयात्मने नमः । १८० ॐ महाद्रिधृषे नमः । १८१ ॐ महेष्वासाय नमः । १८२ ॐ महीभर्त्रे नमः । १८३ ॐ श्रीनिवासाय नमः । १८४ ॐ सतां गतये नमः । १८५ ॐ अनिरुद्धाय नमः । १८६ ॐ सुरानन्दाय नमः । १८७ ॐ गोविन्दाय नमः । १८८ ॐ गोविदां पतये नमः । १८९ ॐ मरीचये नमः । १९० ॐ दमनाय नमः । १९१ ॐ हंसाय नमः । १९२ ॐ सुपर्णाय नमः । १९३ ॐ भुजगोत्तमाय नमः । १९४ ॐ हिरण्यनाभाय नमः । १९५ ॐ सुतपसे नमः । १९६ ॐ पद्मनाभाय नमः । (see 48) १९७ ॐ प्रजापतये नमः । (see 69) १९८ ॐ अमृत्यवे नमः । १९९ ॐ सर्वदृशे नमः । २०० ॐ सिंहाय नमः । २०१ ॐ सन्धात्रे नमः । २०२ ॐ सन्धिमते नमः । २०३ ॐ स्थिराय नमः । २०४ ॐ अजाय नमः । (see 95) २०५ ॐ दुर्मर्षणाय नमः । २०६ ॐ शास्त्रे नमः । २०७ ॐ विश्रुतात्मने नमः । २०८ ॐ सुरारिघ्ने नमः । २०९ ॐ गुरुवे नमः । २१० ॐ गुरुतमाय नमः । २११ ॐ धाम्ने नमः । २१२ ॐ सत्याय नमः । (see 106) २१३ ॐ सत्यपराक्रमाय नमः । २१४ ॐ निमिषाय नमः । २१५ ॐ अनिमिषाय नमः । २१६ ॐ स्रग्वीणे नमः । २१७ ॐ वाचस्पतये उदारधिये नमः । २१८ ॐ अग्रण्ये नमः । २१९ ॐ ग्रामण्ये नमः । २२० ॐ श्रीमते नमः । (see 22, 178) २२१ ॐ न्यायाय नमः । २२२ ॐ नेत्रे नमः । २२३ ॐ समीरणाय नमः । २२४ ॐ सहस्रमूर्ध्ने नमः । २२५ ॐ विश्वात्मने नमः । २२६ ॐ सहस्राक्षाय नमः । २२७ ॐ सहस्रपदे नमः । २२८ ॐ आवर्तनाय नमः । २२९ ॐ निवृत्तात्मने नमः । २३० ॐ संवृताय नमः । २३१ ॐ सम्प्रमर्दनाय नमः । २३२ ॐ अहःसंवर्तकाय नमः । २३३ ॐ वह्नये नमः । २३४ ॐ अनिलाय नमः । २३५ ॐ धरणीधराय नमः । २३६ ॐ सुप्रसादाय नमः । २३७ ॐ प्रसन्नात्मने नमः । २३८ ॐ विश्वधृषे नमः । २३९ ॐ विश्वभुजे नमः । २४० ॐ विभवे नमः । २४१ ॐ सत्कर्त्रे नमः । २४२ ॐ सत्कृताय नमः । २४३ ॐ साधवे नमः । २४४ ॐ जह्नवे नमः । २४५ ॐ नारायणाय नमः । २४६ ॐ नराय नमः । २४७ ॐ असङ्ख्येयाय नमः । २४८ ॐ अप्रमेयात्मने नमः । २४९ ॐ विशिष्टाय नमः । २५० ॐ शिष्टकृते नमः । २५१ ॐ शुचये नमः । (see 155) २५२ ॐ सिद्धार्थाय नमः । २५३ ॐ सिद्धसङ्कल्पाय नमः । २५४ ॐ सिद्धिदाय नमः । २५५ ॐ सिद्धिसाधाय नमः । २५६ ॐ वृषाहिने नमः । २५७ ॐ वृषभाय नमः । २५८ ॐ विष्णवे नमः । (see 2) २५९ ॐ वृषपर्वणे नमः । २६० ॐ वृषोदराय नमः । २६१ ॐ वर्धनाय नमः । २६२ ॐ वर्धमानाय नमः । २६३ ॐ विविक्ताय नमः । २६४ ॐ श्रुतिसागराय नमः । २६५ ॐ सुभुजाय नमः । २६६ ॐ दुर्धराय नमः । २६७ ॐ वाग्मिने नमः । २६८ ॐ महेन्द्राय नमः । २६९ ॐ वसुदाय नमः । २७० ॐ वसवे नमः । (see 104) २७१ ॐ नैकरूपाय नमः । २७२ ॐ बृहद्रूपाय नमः । २७३ ॐ शिपिविष्टाय नमः । २७४ ॐ प्रकाशाय नमः । २७५ ॐ ओजस्तेजोद्युतिधराय नमः । २७६ ॐ प्रकाशात्मने नमः । २७७ ॐ प्रतापनाय नमः । २७८ ॐ ऋद्धाय नमः । २७९ ॐ स्पष्टाक्षराय नमः । २८० ॐ मन्त्राय नमः । २८१ ॐ चन्द्रांशवे नमः । २८२ ॐ भास्करद्युतये नमः । २८३ ॐ अमृतांशूद्भवाय नमः । २८४ ॐ भानवे नमः । २८५ ॐ शशबिन्दवे नमः । २८६ ॐ सुरेश्वराय नमः । २८७ ॐ औषधाय नमः । २८८ ॐ जगतः सेतवे नमः । २८९ ॐ सत्यधर्मपराक्रमाय नमः । २९० ॐ भूतभव्यभवन्नाथाय नमः । २९१ ॐ पवनाय नमः । २९२ ॐ पावनाय नमः । २९३ ॐ अनलाय नमः । २९४ ॐ कामघ्ने नमः । २९५ ॐ कामकृते नमः । २९६ ॐ कान्ताय नमः । २९७ ॐ कामाय नमः । २९८ ॐ कामप्रदाय नमः । २९९ ॐ प्रभवे नमः । (see 35) ३०० ॐ युगादिकृते नमः । ३०१ ॐ युगावर्ताय नमः । ३०२ ॐ नैकमायाय नमः । ३०३ ॐ महाशनाय नमः । ३०४ ॐ अदृश्याय नमः । ३०५ ॐ अव्यक्तरूपाय नमः । (व्यक्तरूपाय) ३०६ ॐ सहस्रजिते नमः । ३०७ ॐ अनन्तजिते नमः । ३०८ ॐ इष्टाय नमः । ३०९ ॐ विशिष्टाय नमः । (अविशिष्टाय) (see 249) ३१० ॐ शिष्टेष्टाय नमः । ३११ ॐ शिखण्डिने नमः । ३१२ ॐ नहुषाय नमः । ३१३ ॐ वृषाय नमः । ३१४ ॐ क्रोधघ्ने नमः । ३१५ ॐ क्रोधकृत्कर्त्रे नमः । ३१६ ॐ विश्वबाहवे नमः । ३१७ ॐ महीधराय नमः । ३१८ ॐ अच्युताय नमः । (see 100) ३१९ ॐ प्रथिताय नमः । ३२० ॐ प्राणाय नमः । (see 66) ३२१ ॐ प्राणदाय नमः । (see 65) ३२२ ॐ वासवानुजाय नमः । ३२३ ॐ अपां निधये नमः । ३२४ ॐ अधिष्ठानाय नमः । ३२५ ॐ अप्रमत्ताय नमः । ३२६ ॐ प्रतिष्ठिताय नमः । ३२७ ॐ स्कन्दाय नमः । ३२८ ॐ स्कन्दधराय नमः । ३२९ ॐ धुर्याय नमः । ३३० ॐ वरदाय नमः । ३३१ ॐ वायुवाहनाय नमः । ३३२ ॐ वासुदेवाय नमः । ३३३ ॐ बृहद्भानवे नमः । ३३४ ॐ आदिदेवाय नमः । ३३५ ॐ पुरन्दराय नमः । ३३६ ॐ अशोकाय नमः । ३३७ ॐ तारणाय नमः । ३३८ ॐ ताराय नमः । ३३९ ॐ शूराय नमः । ३४० ॐ शौरये नमः । ३४१ ॐ जनेश्वराय नमः । ३४२ ॐ अनुकूलाय नमः । ३४३ ॐ शतावर्ताय नमः । ३४४ ॐ पद्मिने नमः । ३४५ ॐ पद्मनिभेक्षणाय नमः । ३४६ ॐ पद्मनाभाय नमः । (see 48, 196) ३४७ ॐ अरविन्दाक्षाय नमः । ३४८ ॐ पद्मगर्भाय नमः । ३४९ ॐ शरीरभृते नमः । ३५० ॐ महर्द्धये नमः । ३५१ ॐ ऋद्धाय नमः । (see 278) ३५२ ॐ वृद्धात्मने नमः । ३५३ ॐ महाक्षाय नमः । ३५४ ॐ गरुडध्वजाय नमः । ३५५ ॐ अतुलाय नमः । ३५६ ॐ शरभाय नमः । ३५७ ॐ भीमाय नमः । ३५८ ॐ समयज्ञाय नमः । ३५९ ॐ हविर्हरये नमः । ३६० ॐ सर्वलक्षणलक्षण्याय नमः । ३६१ ॐ लक्ष्मीवते नमः । ३६२ ॐ समितिञ्जयाय नमः । ३६३ ॐ विक्षराय नमः । ३६४ ॐ रोहिताय नमः । ३६५ ॐ मार्गाय नमः । ३६६ ॐ हेतवे नमः । ३६७ ॐ दामोदराय नमः । ३६८ ॐ सहाय नमः । ३६९ ॐ महीधराय नमः । (see 317) ३७० ॐ महाभागाय नमः । ३७१ ॐ वेगवते नमः । ३७२ ॐ अमिताशनाय नमः । ३७३ ॐ उद्भवाय नमः । ३७४ ॐ क्षोभणाय नमः । ३७५ ॐ देवाय नमः । ३७६ ॐ श्रीगर्भाय नमः । ३७७ ॐ परमेश्वराय नमः । ३७८ ॐ करणाय नमः । ३७९ ॐ कारणाय नमः । ३८० ॐ कर्त्रे नमः । ३८१ ॐ विकर्त्रे नमः । ३८२ ॐ गहनाय नमः । ३८३ ॐ गुहाय नमः । ३८४ ॐ व्यवसायाय नमः । ३८५ ॐ व्यवस्थानाय नमः । ३८६ ॐ संस्थानाय नमः । ३८७ ॐ स्थानदाय नमः । ३८८ ॐ ध्रुवाय नमः । ३८९ ॐ परर्द्धये नमः । ३९० ॐ परमस्पष्टाय नमः । ३९१ ॐ तुष्टाय नमः । ३९२ ॐ पुष्टाय नमः । ३९३ ॐ शुभेक्षणाय नमः । ३९४ ॐ रामाय नमः । ३९५ ॐ विरामाय नमः । ३९६ ॐ विरजसे नमः । ३९७ ॐ मार्गाय नमः । (see 365) ३९८ ॐ नेयाय नमः । ३९९ ॐ नयाय नमः । ४०० ॐ अनयाय नमः । ४०१ ॐ वीराय नमः । ४०२ ॐ शक्तिमतां श्रेष्ठाय नमः । ४०३ ॐ धर्माय नमः । ४०४ ॐ धर्मविदुत्तमाय नमः । ४०५ ॐ वैकुण्ठाय नमः । ४०६ ॐ पुरुषाय नमः । ४०७ ॐ प्राणाय नमः । ४०८ ॐ प्राणदाय नमः । ४०९ ॐ प्रणवाय नमः । ४१० ॐ पृथवे नमः । ४११ ॐ हिरण्यगर्भाय नमः । ४१२ ॐ शत्रुघ्नाय नमः । ४१३ ॐ व्याप्ताय नमः । ४१४ ॐ वायवे नमः । ४१५ ॐ अधोक्षजाय नमः । ४१६ ॐ ऋतवे नमः । ४१७ ॐ सुदर्शनाय नमः । ४१८ ॐ कालाय नमः । ४१९ ॐ परमेष्ठिने नमः । ४२० ॐ परिग्रहाय नमः । ४२१ ॐ उग्राय नमः । ४२२ ॐ संवत्सराय नमः । (see 91) ४२३ ॐ दक्षाय नमः । ४२४ ॐ विश्रामाय नमः । ४२५ ॐ विश्वदक्षिणाय नमः । ४२६ ॐ विस्ताराय नमः । ४२७ ॐ स्थावरस्थाणवे नमः । ४२८ ॐ प्रमाणाय नमः । ४२९ ॐ बीजायाव्ययाय नमः । ४३० ॐ अर्थाय नमः । ४३१ ॐ अनर्थाय नमः । ४३२ ॐ महाकोशाय नमः । ४३३ ॐ महाभोगाय नमः । ४३४ ॐ महाधनाय नमः । ४३५ ॐ अनिर्विण्णाय नमः । ४३६ ॐ स्थविष्ठाय नमः । (see 53) ४३७ ॐ अभुवे नमः । ४३८ ॐ धर्मयूपाय नमः । ४३९ ॐ महामखाय नमः । ४४० ॐ नक्षत्रनेमये नमः । ४४१ ॐ नक्षत्रिणे नमः । ४४२ ॐ क्षमाय नमः । ४४३ ॐ क्षामाय नमः । ४४४ ॐ समीहनाय नमः । ४४५ ॐ यज्ञाय नमः । ४४६ ॐ इज्याय नमः । ४४७ ॐ महेज्याय नमः । ४४८ ॐ क्रतवे नमः । ४४९ ॐ सत्राय नमः । ४५० ॐ सतां गतये नमः । (see 184) ४५१ ॐ सर्वदर्शिने नमः । ४५२ ॐ विमुक्तात्मने नमः । ४५३ ॐ सर्वज्ञाय नमः । ४५४ ॐ ज्ञानाय उत्तमाय नमः । ४५५ ॐ सुव्रताय नमः । ४५६ ॐ सुमुखाय नमः । ४५७ ॐ सूक्ष्माय नमः । ४५८ ॐ सुघोषाय नमः । ४५९ ॐ सुखदाय नमः । ४६० ॐ सुहृदे नमः । ४६१ ॐ मनोहराय नमः । ४६२ ॐ जितक्रोधाय नमः । ४६३ ॐ वीरबाहवे नमः । ४६४ ॐ विदारणाय नमः । ४६५ ॐ स्वापनाय नमः । ४६६ ॐ स्ववशाय नमः । ४६७ ॐ व्यापिने नमः । ४६८ ॐ नैकात्माने नमः । ४६९ ॐ नैककर्मकृते नमः । ४७० ॐ वत्सराय नमः । ४७१ ॐ वत्सलाय नमः । ४७२ ॐ वत्सिने नमः । ४७३ ॐ रत्नगर्भाय नमः । ४७४ ॐ धनेश्वराय नमः । ४७५ ॐ धर्मगुपे नमः । ४७६ ॐ धर्मकृते नमः । ४७७ ॐ धर्मिणे नमः । ४७८ ॐ सते नमः । ४७९ ॐ असते नमः । ४८० ॐ क्षराय नमः । ४८१ ॐ अक्षराय नमः । (see 17) ४८२ ॐ अविज्ञात्रे नमः । ४८३ ॐ सहस्रांशवे नमः । ४८४ ॐ विधात्रे नमः । (see 44) ४८५ ॐ कृतलक्षणाय नमः । ४८६ ॐ गभस्तिनेमये नमः । ४८७ ॐ सत्त्वस्थाय नमः । ४८८ ॐ सिंहाय नमः । (see 200) ४८९ ॐ भूतमहेश्वराय नमः । ४९० ॐ आदिदेवाय नमः । (see 334) ४९१ ॐ महादेवाय नमः । ४९२ ॐ देवेशाय नमः । ४९३ ॐ देवभृद्गुरवे नमः । ४९४ ॐ उत्तरस्मै नमः । ४९५ ॐ गोपतये नमः । ४९६ ॐ गोप्त्रे नमः । ४९७ ॐ ज्ञानगम्याय नमः । ४९८ ॐ पुरातनाय नमः । ४९९ ॐ शरीरभूतभृते नमः । ५०० ॐ भोक्त्रे नमः । (see 143) ५०१ ॐ कपीन्द्राय नमः । ५०२ ॐ भूरिदक्षिणाय नमः । ५०३ ॐ सोमपाय नमः । ५०४ ॐ अमृतपाय नमः । ५०५ ॐ सोमाय नमः । ५०६ ॐ पुरुजिते नमः । ५०७ ॐ पुरुसत्तमाय नमः । ५०८ ॐ विनयाय नमः । ५०९ ॐ जयाय नमः । ५१० ॐ सत्यसन्धाय नमः । ५११ ॐ दाशार्हाय नमः । ५१२ ॐ सात्वतां पतये नमः । ५१३ ॐ जीवाय नमः । ५१४ ॐ विनयितासाक्षिणे नमः । ५१५ ॐ मुकुन्दाय नमः । ५१६ ॐ अमितविक्रमाय नमः । ५१७ ॐ अम्भोनिधये नमः । ५१८ ॐ अनन्तात्मने नमः । ५१९ ॐ महोदधिशयाय नमः । ५२० ॐ अन्तकाय नमः । ५२१ ॐ अजाय नमः । (see 95, 204) ५२२ ॐ महार्हाय नमः । ५२३ ॐ स्वाभाव्याय नमः । ५२४ ॐ जितामित्राय नमः । ५२५ ॐ प्रमोदनाय नमः । ५२६ ॐ आनन्दाय नमः । ५२७ ॐ नन्दनाय नमः । ५२८ ॐ नन्दाय नमः । ५२९ ॐ सत्यधर्माय नमः । ५३० ॐ त्रिविक्रमाय नमः । ५३१ ॐ महर्षये कपिलाचार्याय नमः । ५३२ ॐ कृतज्ञाय नमः । (see 82) ५३३ ॐ मेदिनीपतये नमः । ५३४ ॐ त्रिपदाय नमः । ५३५ ॐ त्रिदशाध्यक्षाय नमः । ५३६ ॐ महाश‍ृङ्गाय नमः । ५३७ ॐ कृतान्तकृते नमः । ५३८ ॐ महावराहाय नमः । ५३९ ॐ गोविन्दाय नमः । (see 187) ५४० ॐ सुषेणाय नमः । ५४१ ॐ कनकाङ्गदिने नमः । ५४२ ॐ गुह्याय नमः । ५४३ ॐ गभीराय नमः । ५४४ ॐ गहनाय नमः । (see 382) ५४५ ॐ गुप्ताय नमः । ५४६ ॐ चक्रगदाधराय नमः । ५४७ ॐ वेधसे नमः । ५४८ ॐ स्वाङ्गाय नमः । ५४९ ॐ अजिताय नमः । ५५० ॐ कृष्णाय नमः । (see 57) ५५१ ॐ दृढाय नमः । ५५२ ॐ सङ्कर्षणाच्युताय नमः । ५५३ ॐ वरुणाय नमः । ५५४ ॐ वारुणाय नमः । ५५५ ॐ वृक्षाय नमः । ५५६ ॐ पुष्कराक्षाय नमः । (see 40) ५५७ ॐ महामनसे नमः । ५५८ ॐ भगवते नमः । ५५९ ॐ भगघ्ने नमः । ५६० ॐ आनन्दिने नमः । ५६१ ॐ वनमालिने नमः । ५६२ ॐ हलायुधाय नमः । ५६३ ॐ आदित्याय नमः । (see 334) ५६४ ॐ ज्योतिरादित्याय नमः । ५६५ ॐ सहिष्णवे नमः । ५६६ ॐ गतिसत्तमाय नमः । ५६७ ॐ सुधन्वने नमः । ५६८ ॐ खण्डपरशवे नमः । ५६९ ॐ दारुणाय नमः । ५७० ॐ द्रविणप्रदाय नमः । ५७१ ॐ दिविस्पृशे नमः । ५७२ ॐ सर्वदृग्व्यासाय नमः । ५७३ ॐ वाचस्पतये अयोनिजाय नमः । ५७४ ॐ त्रिसाम्ने नमः । ५७५ ॐ सामगाय नमः । ५७६ ॐ साम्ने नमः । ५७७ ॐ निर्वाणाय नमः । ५७८ ॐ भेषजाय नमः । ५७९ ॐ भिषजे नमः । ५८० ॐ संन्यासकृते नमः । ५८१ ॐ शमाय नमः । ५८२ ॐ शान्ताय नमः । ५८३ ॐ निष्ठायै नमः । ५८४ ॐ शान्त्यै नमः । ५८५ ॐ परायणाय नमः । ५८६ ॐ शुभाङ्गाय नमः । ५८७ ॐ शान्तिदाय नमः । ५८८ ॐ स्रष्ट्रे नमः । ५८९ ॐ कुमुदाय नमः । ५९० ॐ कुवलेशयाय नमः । ५९१ ॐ गोहिताय नमः । ५९२ ॐ गोपतये नमः । (see 495) ५९३ ॐ गोप्त्रे नमः । (see 496) ५९४ ॐ वृषभाक्षाय नमः । ५९५ ॐ वृषप्रियाय नमः । ५९६ ॐ अनिवर्तिने नमः । ५९७ ॐ निवृत्तात्मने नमः । (see 229) ५९८ ॐ सङ्क्षेप्त्रे नमः । ५९९ ॐ क्षेमकृते नमः । ६०० ॐ शिवाय नमः । (see 27) ६०१ ॐ श्रीवत्सवक्षसे नमः । ६०२ ॐ श्रीवासाय नमः । ६०३ ॐ श्रीपतये नमः । ६०४ ॐ श्रीमतां वराय नमः । ६०५ ॐ श्रीदाय नमः । ६०६ ॐ श्रीशाय नमः । ६०७ ॐ श्रीनिवासाय नमः । (see 183) ६०८ ॐ श्रीनिधये नमः । ६०९ ॐ श्रीविभावनाय नमः । ६१० ॐ श्रीधराय नमः । ६११ ॐ श्रीकराय नमः । ६१२ ॐ श्रेयसे नमः । ६१३ ॐ श्रीमते नमः । (see 22, 178, 220) ६१४ ॐ लोकत्रयाश्रयाय नमः । ६१५ ॐ स्वक्षाय नमः । ६१६ ॐ स्वङ्गाय नमः । (see 548) ६१७ ॐ शतानन्दाय नमः । ६१८ ॐ नन्द्ये नमः । ६१९ ॐ ज्योतिर्गणेश्वराय नमः । ६२० ॐ विजितात्मने नमः । ६२१ ॐ अविधेयात्मने नमः । (विधेयात्मने) ६२२ ॐ सत्कीर्तये नमः । ६२३ ॐ छिन्नसंशयाय नमः । ६२४ ॐ उदीर्णाय नमः । ६२५ ॐ सर्वतश्चक्षुषे नमः । ६२६ ॐ अनीशाय नमः । ६२७ ॐ शाश्वतस्थिराय नमः । ६२८ ॐ भूशयाय नमः । ६२९ ॐ भूषणाय नमः । ६३० ॐ भूतये नमः । ६३१ ॐ विशोकाय नमः । ६३२ ॐ शोकनाशनाय नमः । ६३३ ॐ अर्चिष्मते नमः । ६३४ ॐ अर्चिताय नमः । ६३५ ॐ कुम्भाय नमः । ६३६ ॐ विशुद्धात्मने नमः । ६३७ ॐ विशोधनाय नमः । ६३८ ॐ अनिरुद्धाय नमः । (see 185) ६३९ ॐ अप्रतिरथाय नमः । ६४० ॐ प्रद्युम्नाय नमः । ६४१ ॐ अमितविक्रमाय नमः । (see 516) ६४२ ॐ कालनेमिनिघ्ने नमः । ६४३ ॐ वीराय नमः । ६४४ ॐ शौरये नमः । (see 340) ६४५ ॐ शूरजनेश्वराय नमः । ६४६ ॐ त्रिलोकात्मने नमः । ६४७ ॐ त्रिलोकेशाय नमः । ६४८ ॐ केशवाय नमः । (see 23) ६४९ ॐ केशिघ्ने नमः । ६५० ॐ हरये नमः । ६५१ ॐ कामदेवाय नमः । ६५२ ॐ कामपालाय नमः । ६५३ ॐ कामिने नमः । ६५४ ॐ कान्ताय नमः । (see 296) ६५५ ॐ कृतागमाय नमः । ६५६ ॐ अनिर्देश्यवपुषे नमः । (see 177) ६५७ ॐ विष्णवे नमः । (see 2, 258) ६५८ ॐ वीराय नमः । (see 643) ६५९ ॐ अनन्ताय नमः । ६६० ॐ धनञ्जयाय नमः । ६६१ ॐ ब्रह्मण्याय नमः । ६६२ ॐ ब्रह्मकृते नमः । ६६३ ॐ ब्रह्मणे नमः । ६६४ ॐ ब्रह्मणे नमः । ६६५ ॐ ब्रह्मविवर्धनाय नमः । ६६६ ॐ ब्रह्मविदे नमः । ६६७ ॐ ब्राह्मणाय नमः । ६६८ ॐ ब्रह्मिणे नमः । ६६९ ॐ ब्रह्मज्ञाय नमः । ६७० ॐ ब्राह्मणप्रियाय नमः । ६७१ ॐ महाक्रमाय नमः । ६७२ ॐ महाकर्मणे नमः । ६७३ ॐ महातेजसे नमः । ६७४ ॐ महोरगाय नमः । ६७५ ॐ महाक्रतवे नमः । ६७६ ॐ महायज्वने नमः । ६७७ ॐ महायज्ञाय नमः । ६७८ ॐ महाहविषे नमः । ६७९ ॐ स्तव्याय नमः । ६८० ॐ स्तवप्रियाय नमः । ६८१ ॐ स्तोत्राय नमः । ६८२ ॐ स्तुतये नमः । ६८३ ॐ स्तोत्रे नमः । ६८४ ॐ रणप्रियाय नमः । ६८५ ॐ पूर्णाय नमः । ६८६ ॐ पूरयित्रे नमः । ६८७ ॐ पुण्याय नमः । ६८८ ॐ पुण्यकीर्तये नमः । ६८९ ॐ अनामयाय नमः । ६९० ॐ मनोजवाय नमः । ६९१ ॐ तीर्थकराय नमः । ६९२ ॐ वसुरेतसे नमः । ६९३ ॐ वसुप्रदाय नमः । ६९४ ॐ वसुप्रदाय नमः ।?? ६९५ ॐ वासुदेवाय नमः । (see 332) ६९६ ॐ वसवे नमः । (see 104, 270) ६९७ ॐ वसुमनसे नमः । (see 105) ६९८ ॐ हविषे नमः । ६९९ ॐ सद्गतये नमः । ७०० ॐ सद्कृतये नमः । ७०१ ॐ सत्तायै नमः । ७०२ ॐ सद्भूतये नमः । ७०३ ॐ सत्परायणाय नमः । ७०४ ॐ शूरसेनाय नमः । ७०५ ॐ यदुश्रेष्ठाय नमः । ७०६ ॐ सन्निवासाय नमः । ७०७ ॐ सूयामुनाय नमः । ७०८ ॐ भूतावासाय नमः । ७०९ ॐ वासुदेवाय नमः । (see 332, 694) ७१० ॐ सर्वासुनिलयाय नमः । ७११ ॐ अनलाय नमः । (see 293) ७१२ ॐ दर्पघ्ने नमः । ७१३ ॐ दर्पदाय नमः । ७१४ ॐ दृप्ताय नमः । ७१५ ॐ दुर्धराय नमः । (see 266) ७१६ ॐ अपराजिताय नमः । ७१७ ॐ विश्वमूर्तये नमः । ७१८ ॐ महामूर्तये नमः । ७१९ ॐ दीप्तमूर्तये नमः । ७२० ॐ अमूर्तिमते नमः । ७२१ ॐ अनेकमूर्तये नमः । ७२२ ॐ अव्यक्ताय नमः । ७२३ ॐ शतमूर्तये नमः । ७२४ ॐ शताननाय नमः । ७२५ ॐ एकस्मै नमः । ७२६ ॐ नैकाय नमः । ७२७ ॐ सवाय नमः । ७२८ ॐ काय नमः । ७२९ ॐ कस्मै नमः । ७३० ॐ यस्मै नमः । ७३१ ॐ तस्मै नमः । ७३२ ॐ पदायानुत्तमाय नमः । ७३३ ॐ लोकबन्धवे नमः । ७३४ ॐ लोकनाथाय नमः । ७३५ ॐ माधवाय नमः । (see 72, 167) ७३६ ॐ भक्तवत्सलाय नमः । ७३७ ॐ सुवर्णवर्णाय नमः । ७३८ ॐ हेमाङ्गाय नमः । ७३९ ॐ वराङ्गाय नमः । ७४० ॐ चन्दनाङ्गदिने नमः । ७४१ ॐ वीरघ्ने नमः । (see 166) ७४२ ॐ विषमाय नमः । ७४३ ॐ शून्याय नमः । ७४४ ॐ घृताशीषे नमः । ७४५ ॐ अचलाय नमः । ७४६ ॐ चलाय नमः । ७४७ ॐ अमानिने नमः । ७४८ ॐ मानदाय नमः । ७४९ ॐ मान्याय नमः । ७५० ॐ लोकस्वामिने नमः । ७५१ ॐ त्रिलोकधृषे नमः । ७५२ ॐ सुमेधसे नमः । ७५३ ॐ मेधजाय नमः । ७५४ ॐ धन्याय नमः । ७५५ ॐ सत्यमेधसे नमः । ७५६ ॐ धराधराय नमः । ७५७ ॐ तेजोवृषाय नमः । ७५८ ॐ द्युतिधराय नमः । ७५९ ॐ सर्वशस्त्रभृतां वराय नमः । ७६० ॐ प्रग्रहाय नमः । ७६१ ॐ निग्रहाय नमः । ७६२ ॐ व्यग्राय नमः । ७६३ ॐ नैकश‍ृङ्गाय नमः । ७६४ ॐ गदाग्रजाय नमः । ७६५ ॐ चतुर्मूर्तये नमः । ७६६ ॐ चतुर्बाहवे नमः । ७६७ ॐ चतुर्व्यूहाय नमः । (see 138) ७६८ ॐ चतुर्गतये नमः । ७६९ ॐ चतुरात्मने नमः । (see 137) ७७० ॐ चतुर्भावाय नमः । ७७१ ॐ चतुर्वेदविदे नमः । ७७२ ॐ एकपदे नमः । ७७३ ॐ समावर्ताय नमः । ७७४ ॐ अनिवृत्तात्मने नमः । (निवृत्तात्मने) ७७५ ॐ दुर्जयाय नमः । ७७६ ॐ दुरतिक्रमाय नमः । ७७७ ॐ दुर्लभाय नमः । ७७८ ॐ दुर्गमाय नमः । ७७९ ॐ दुर्गाय नमः । ७८० ॐ दुरावासाय नमः । ७८१ ॐ दुरारिघ्ने नमः । ७८२ ॐ शुभाङ्गाय नमः । (see 586) ७८३ ॐ लोकसारङ्गाय नमः । ७८४ ॐ सुतन्तवे नमः । ७८५ ॐ तन्तुवर्धनाय नमः । ७८६ ॐ इन्द्रकर्मणे नमः । ७८७ ॐ महाकर्मणे नमः । (see 672) ७८८ ॐ कृतकर्मणे नमः । ७८९ ॐ कृतागमाय नमः । (see 655) ७९० ॐ उद्भवाय नमः । (see 373) ७९१ ॐ सुन्दराय नमः । ७९२ ॐ सुन्दाय नमः । ७९३ ॐ रत्ननाभाय नमः । ७९४ ॐ सुलोचनाय नमः । ७९५ ॐ अर्काय नमः । ७९६ ॐ वाजसनाय नमः । ७९७ ॐ श‍ृङ्गिणे नमः । ७९८ ॐ जयन्ताय नमः । ७९९ ॐ सर्वविज्जयिने नमः । ८०० ॐ सुवर्णबिन्दवे नमः । ८०१ ॐ अक्षोभ्याय नमः । ८०२ ॐ सर्ववागीश्वरेश्वराय नमः । ८०३ ॐ महाहृदाय नमः । ८०४ ॐ महागर्ताय नमः । ८०५ ॐ महाभूताय नमः । ८०६ ॐ महानिधये नमः । ८०७ ॐ कुमुदाय नमः । (see 588) ८०८ ॐ कुन्दराय नमः । ८०९ ॐ कुन्दाय नमः । ८१० ॐ पर्जन्याय नमः । ८११ ॐ पावनाय नमः । (see 292) ८१२ ॐ अनिलाय नमः । (see 234) ८१३ ॐ अमृताशाय नमः । ८१४ ॐ अमृतवपुषे नमः । ८१५ ॐ सर्वज्ञाय नमः । (see 453) ८१६ ॐ सर्वतोमुखाय नमः । ८१७ ॐ सुलभाय नमः । ८१८ ॐ सुव्रताय नमः । (see 455) ८१९ ॐ सिद्धाय नमः । (see 97) ८२० ॐ शत्रुजिते नमः । ८२१ ॐ शत्रुतापनाय नमः । ८२२ ॐ न्यग्रोधाय नमः । ८२३ ॐ उदुम्बराय नमः । ८२४ ॐ अश्वत्थाय नमः । ८२५ ॐ चाणूरान्ध्रनिषूदनाय नमः । ८२६ ॐ सहस्रार्चिषे नमः । ८२७ ॐ सप्तजिह्वाय नमः । ८२८ ॐ सप्तैधसे नमः । ८२९ ॐ सप्तवाहनाय नमः । ८३० ॐ अमूर्तये नमः । ८३१ ॐ अनघाय नमः । (see 146) ८३२ ॐ अचिन्त्याय नमः । ८३३ ॐ भयकृते नमः । ८३४ ॐ भयनाशनाय नमः । ८३५ ॐ अणवे नमः । ८३६ ॐ बृहते नमः । ८३७ ॐ कृशाय नमः । ८३८ ॐ स्थूलाय नमः । ८३९ ॐ गुणभृते नमः । ८४० ॐ निर्गुणाय नमः । ८४१ ॐ महते नमः । ८४२ ॐ अधृताय नमः । ८४३ ॐ स्वधृताय नमः । ८४४ ॐ स्वास्याय नमः । ८४५ ॐ प्राग्वंशाय नमः । ८४६ ॐ वंशवर्धनाय नमः । ८४७ ॐ भारभृते नमः । ८४८ ॐ कथिताय नमः । ८४९ ॐ योगिने नमः । ८५० ॐ योगीशाय नमः । ८५१ ॐ सर्वकामदाय नमः । ८५२ ॐ आश्रमाय नमः । ८५३ ॐ श्रमणाय नमः । ८५४ ॐ क्षामाय नमः । (see 443) ८५५ ॐ सुपर्णाय नमः । (see 192) ८५६ ॐ वायुवाहनाय नमः । (see 331) ८५७ ॐ धनुर्धराय नमः । ८५८ ॐ धनुर्वेदाय नमः । ८५९ ॐ दण्डाय नमः । ८६० ॐ दमयित्रे नमः । ८६१ ॐ दमाय नमः । ८६२ ॐ अपराजिताय नमः । (see 716) ८६३ ॐ सर्वसहाय नमः । ८६४ ॐ नियन्त्रे नमः । ८६५ ॐ नियमाय नमः । (see 161) ८६६ ॐ यमाय नमः । (see 162) ८६७ ॐ सत्त्ववते नमः । ८६८ ॐ सात्त्विकाय नमः । ८६९ ॐ सत्याय नमः । (see 106, 212) ८७० ॐ सत्यधर्मपरायणाय नमः । ८७१ ॐ अभिप्रायाय नमः । ८७२ ॐ प्रियार्हाय नमः । ८७३ ॐ अर्हाय नमः । ८७४ ॐ प्रियकृते नमः । ८७५ ॐ प्रीतिवर्धनाय नमः । ८७६ ॐ विहायसगतये नमः । ८७७ ॐ ज्योतिषे नमः । ८७८ ॐ सुरुचये नमः । ८७९ ॐ हुतभुजे नमः । ८८० ॐ विभवे नमः । (see 240) ८८१ ॐ रवये नमः । ८८२ ॐ विरोचनाय नमः । ८८३ ॐ सूर्याय नमः । ८८४ ॐ सवित्रे नमः । ८८५ ॐ रविलोचनाय नमः । ८८६ ॐ अनन्ताय नमः । (see 659) ८८७ ॐ हुतभुजे नमः । (see 879) ८८८ ॐ भोक्त्रे नमः । (see 143, 500) ८८९ ॐ सुखदाय नमः । (see 459) ८९० ॐ नैकजाय नमः । ८९१ ॐ अग्रजाय नमः । ८९२ ॐ अनिर्विण्णाय नमः । (see 435) ८९३ ॐ सदामर्षिणे नमः । ८९४ ॐ लोकाधिष्ठानाय नमः । ८९५ ॐ अद्भूताय नमः । ८९६ ॐ सनाते नमः । ८९७ ॐ सनातनतमाय नमः । ८९८ ॐ कपिलाय नमः । ८९९ ॐ कपये नमः । ९०० ॐ अप्ययाय नमः । (अव्ययाय) (see 13) ९०१ ॐ स्वस्तिदाय नमः । ९०२ ॐ स्वस्तिकृते नमः । ९०३ ॐ स्वस्तये नमः । ९०४ ॐ स्वस्तिभुजे नमः । ९०५ ॐ स्वस्तिदक्षिणाय नमः । ९०६ ॐ अरौद्राय नमः । ९०७ ॐ कुण्डलिने नमः । ९०८ ॐ चक्रिणे नमः । ९०९ ॐ विक्रमिणे नमः । (see 75) ९१० ॐ उर्जितशासनाय नमः । ९११ ॐ शब्दातिगाय नमः । ९१२ ॐ शब्दसहाय नमः । ९१३ ॐ शिशिराय नमः । ९१४ ॐ शर्वरीकराय नमः । ९१५ ॐ अक्रूराय नमः । ९१६ ॐ पेशलाय नमः । ९१७ ॐ दक्षाय नमः । (see 423) ९१८ ॐ दक्षिणस्यै नमः । ९१९ ॐ क्षमिणां वराय नमः । ९२० ॐ विद्वत्तमाय नमः । ९२१ ॐ वीतभयाय नमः । ९२२ ॐ पुण्यश्रवणकीर्तनाय नमः । ९२३ ॐ उत्तारणाय नमः । ९२४ ॐ दुष्कृतिघ्ने नमः । ९२५ ॐ पुण्याय नमः । (see 687) ९२६ ॐ दुःस्वप्ननाशनाय नमः । ९२७ ॐ वीरघ्ने नमः । (see 166, 741) ९२८ ॐ रक्षणाय नमः । ९२९ ॐ सद्भ्यो नमः । ९३० ॐ जीवनाय नमः । ९३१ ॐ पर्यवस्थिताय नमः । ९३२ ॐ अनन्तरूपाय नमः । ९३३ ॐ अनन्तश्रिये नमः । ९३४ ॐ जितमन्यवे नमः । ९३५ ॐ भयापहाय नमः । ९३६ ॐ चतुरस्राय नमः । ९३७ ॐ गभीरात्मने नमः । ९३८ ॐ विदिशाय नमः । ९३९ ॐ व्यादिशाय नमः । ९४० ॐ दिशाय नमः । ९४१ ॐ अनादये नमः । ९४२ ॐ भूर्भुवे नमः । ९४३ ॐ लक्ष्म्यै नमः । ९४४ ॐ सुवीराय नमः । ९४५ ॐ रुचिराङ्गदाय नमः । ९४६ ॐ जननाय नमः । ९४७ ॐ जनजन्मादये नमः । ९४८ ॐ भीमाय नमः । (see 357) ९४९ ॐ भीमपराक्रमाय नमः । ९५० ॐ आधारनिलयाय नमः । ९५१ ॐ अधात्रे नमः । (धात्रे) (see 43) ९५२ ॐ पुष्पहासाय नमः । ९५३ ॐ प्रजागराय नमः । ९५४ ॐ ऊर्ध्वगाय नमः । ९५५ ॐ सत्पथाचाराय नमः । ९५६ ॐ प्राणदाय नमः । (see 65, 321) ९५७ ॐ प्रणवाय नमः । ९५८ ॐ पणाय नमः । ९५९ ॐ प्रमाणाय नमः । (see 428) ९६० ॐ प्राणनिलयाय नमः । ९६१ ॐ प्राणभृते नमः । ९६२ ॐ प्राणजीवनाय नमः । ९६३ ॐ तत्त्वाय नमः । ९६४ ॐ तत्त्वविदे नमः । ९६५ ॐ एकात्मने नमः । ९६६ ॐ जन्ममृत्युजरातिगाय नमः । ९६७ ॐ भूर्भुवःस्वस्तरवे नमः । ९६८ ॐ ताराय नमः । (see 338) ९६९ ॐ सवित्रे नमः । (see 884) ९७० ॐ प्रपितामहाय नमः । ९७१ ॐ यज्ञाय नमः । (see 445) ९७२ ॐ यज्ञपतये नमः । ९७३ ॐ यज्वने नमः । ९७४ ॐ यज्ञाङ्गाय नमः । ९७५ ॐ यज्ञवाहनाय नमः । ९७६ ॐ यज्ञभृते नमः । ९७७ ॐ यज्ञकृते नमः । ९७८ ॐ यज्ञिने नमः । ९७९ ॐ यज्ञभुजे नमः । ९८० ॐ यज्ञसाधनाय नमः । ९८१ ॐ यज्ञान्तकृते नमः । ९८२ ॐ यज्ञगुह्याय नमः । ९८३ ॐ अन्नाय नमः । ९८४ ॐ अन्नादाय नमः । ९८५ ॐ आत्मयोनये नमः । ९८६ ॐ स्वयंजाताय नमः । ९८७ ॐ वैखानाय नमः । ९८८ ॐ सामगायनाय नमः । ९८९ ॐ देवकीनन्दनाय नमः । ९९० ॐ स्रष्ट्रे नमः । (see 588) ९९१ ॐ क्षितीशाय नमः । ९९२ ॐ पापनाशनाय नमः । ९९३ ॐ शङ्खभृते नमः । ९९४ ॐ नन्दकिने नमः । ९९५ ॐ चक्रिणे नमः । (see 908) ९९६ ॐ शार्ङ्गधन्वने नमः । ९९७ ॐ गदाधराय नमः । ९९८ ॐ रथाङ्गपाणये नमः । ९९९ ॐ अक्षोभ्याय नमः । (see 800-2) १००० ॐ सर्वप्रहरणायुधाय नमः । सर्वप्रहरणायुध ॐ नम इति ॥ वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ श्री वासुदेवोऽभिरक्षतु ॐ नम इति । ॥ इति श्रीमहाभारते अनुशासनपर्वणि श्रीविष्णुसहस्रनामावलीइः सम्पूर्णा ॥ It is known that there are many repeated names in this nAmAvalI derived from the stotram. To get total of unique thousand names, one needs to add about 99 more names. It is not needed that the count has to be 1000 unique. Chanting with devotion is given more importance. Commentators highlight different aspects of Vishnu from the same name.
% Text title            : viShNusahasranAmAvali
% File name             : vishnaam.itx
% itxtitle              : viShNusahasranAmAvaliH (mahAbhAratAntargatA)
% engtitle              : viShNusahasranAmAvaliH
% Category              : sahasranAmAvalI, vishhnu, nAmAvalI, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description-comments  : See corresponding stotram
% Indexextra            : (Meaning 1, 2, 3, Marathi, Namollasa, vyAkhyA, stotram)
% Latest update         : June 14, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org