विवर्णादि विष्णुसहस्रनामावलिः

विवर्णादि विष्णुसहस्रनामावलिः

ॐ श्रीगणेशाय नमः । ॐ विष्णवे नमः । ॐ विश्वाय नमः । ॐ विश्वकर्त्रे नमः । ॐ विश्वहृदे नमः । ॐ विश्वपालकाय नमः । ॐ विश्वदूराय नमः । ॐ विश्वगताय नमः । ॐ विश्वात्मने नमः । ॐ विश्वचेतनाय नमः । ॐ विश्वयन्त्रे नमः । १० ॐ विश्वतनवे नमः । ॐ विश्वविदे नमः । ॐ विश्वदुर्गमाय नमः । ॐ विश्वाज्ञेयात्मकाय नमः । ॐ विश्वनिदानाय नमः । ॐ विश्वपावनाय नमः । ॐ विश्वोदयाय नमः । ॐ विश्वलयाय नमः । ॐ विविश्वाय नमः । ॐ विश्वपारगाय नमः । २० ॐ विश्वम्भराय नमः । ॐ विश्वमयाय नमः । ॐ विश्वभुजे नमः । ॐ विश्वमोहनाय नमः । ॐ विश्वानन्दाय नमः । ॐ विश्वदुःखदूराय नमः । ॐ विश्वसुखप्रदाय नमः । ॐ विश्वप्रियाय नमः । ॐ विश्वसखाय नमः । ॐ विश्वधृते नमः । ३० ॐ विश्वरूपधृते नमः । ॐ विश्वक्रीडाय नमः । ॐ विश्वसेव्याय नमः । ॐ विश्वदाय नमः । ॐ विश्वसम्मताय नमः । ॐ विश्वभोग्याय नमः । ॐ विश्वगुणाय नमः । ॐ विश्वचक्षुषे नमः । ॐ विरिञ्चिकृते नमः । ॐ विश्वचक्षुर्मण्डलस्थाय नमः । ४० ॐ विश्वचक्षुःप्रकाशकृते नमः । ॐ विश्वाय नमः । ॐ विश्वान्तराय नमः । ॐ विश्वतनवे नमः । ॐ विश्वप्रचोदनाय नमः । ॐ विश्वांशाय नमः । ॐ विस्मयावासाय नमः । ॐ विश्वकल्याणभाजनाय नमः । ॐ विश्वबिम्बाय नमः । ॐ विश्वनिधये नमः । ५० ॐ विश्वमायाय नमः । ॐ विभामयाय नमः । ॐ विवस्वन्मण्डलान्तस्थाय नमः । ॐ विद्यासुखसदात्मकाय नमः । ॐ विवस्वते नमः । ॐ विग्रहादित्याय नमः । ॐ विवस्वद्भासकाय नमः । ॐ विभवे नमः । ॐ विकर्तनसहस्राभाय नमः । ॐ विष्वक्सेनाय नमः । ६० ॐ विकुण्ठगाय नमः । ॐ विद्युत्पीताम्बराय नमः । ॐ विद्यामन्दिराय नमः । ॐ विष्टरश्रवसे नमः । ॐ विनायकाय नमः । ॐ विप्रबन्धवे नमः । ॐ विद्युत्त्वन्मुग्धविग्रहाय नमः । ॐ वियद्गङ्गापदाम्भोजाय नमः । ॐ विक्रमक्रान्तलोककाय नमः । ॐ विरिञ्चिनाभीकमलाय नमः । ७० ॐ विनतातनयध्वजाय नमः । ॐ विषायनाय नमः । ॐ विषधरस्वामिशय्याय नमः । ॐ विषोदयाय नमः । ॐ विषापहारिणे नमः । ॐ विषधिस्तोमकुक्षये नमः । ॐ वियत्समाय नमः । ॐ विलयाम्बुधिविश्रान्ताय नमः । ॐ विकाररहिताय नमः । ॐ विधवे नमः । ८० ॐ विधिरुद्रेन्द्रदासेराय नमः । ॐ विबुधावलिपक्षगाय नमः । ॐ विबुधेशाय नमः । ॐ विधूताघाय नमः । ॐ विरुग्णमधुकैटभाय नमः । ॐ विधुमण्डलमध्यस्थाय नमः । ॐ विधुसूर्यविलोचनाय नमः । ॐ विधुसुन्दरवक्त्राब्जाय नमः । ॐ विधुहेतुहृदम्बुजाय नमः । ॐ विधुलेखानखाय नमः । ९० ॐ विज्ञाय नमः । ॐ विभयाय नमः । ॐ विद्रुमादराय नमः । ॐ विषण्णासुरराट्त्रात्रे नमः । ॐ विनाथजनरक्षणाय नमः । ॐ विभवाय नमः । ॐ विहतारातये नमः । ॐ विस्पष्टकमलेक्षणाय नमः । ॐ विरिञ्चिवनितागीताय नमः । ॐ विमृष्टमणिनूपुराय नमः । १०० ॐ विद्युद्रुचिरलक्ष्मीकाय नमः । ॐ विलसत्स्मेरचन्द्रिकाय नमः । ॐ विकस्वरसुरोर्वीजपुष्पमालानिभेक्षणाय नमः । ॐ विरूपाक्षप्रियाय नमः । ॐ विद्वद्धृदयाम्बुजबम्भराय नमः । ॐ विमुक्ताय नमः । ॐ विषयासक्ताय नमः । ॐ विपत्समयबान्धवाय नमः । ॐ विपुलोरसे नमः । ॐ विशालाक्षाय नमः । ११० ॐ विपुलांसाय नमः । ॐ विजित्त्वराय नमः । ॐ विमलाय नमः । ॐ विततख्यातये नमः । ॐ विश्वनाम्ने नमः । ॐ विभीषणाय नमः । ॐ विलासिने नमः । ॐ विलसद्भूषाय नमः । ॐ विविधायुधभास्वराय नमः । ॐ विश्वम्भरापतये नमः । १२० ॐ विश्वातिक्रान्तमहिम्ने नमः । ॐ विधये नमः । ॐ विधित्रात्रे नमः । ॐ विधितपःफलदाय नमः । ॐ विधिदेशिकाय नमः । ॐ विधिस्तुताय नमः । ॐ विधिविधुश्रीकण्ठात्मने नमः । ॐ विधीश्वराय नमः । ॐ विधिशक्तिप्रदाय नमः । ॐ विश्वशक्तये नमः । १३० ॐ विधिविमोहनाय नमः । ॐ विविधात्मज्ञानबलक्रियाशक्तये नमः । ॐ विलक्षणाय नमः । ॐ विश्वोत्तमाय नमः । ॐ विसदृशाय नमः । ॐ विद्वन्द्वाय नमः । ॐ विगतव्ययाय नमः । ॐ विमत्सराय नमः । ॐ विश्वसिद्धये नमः । ॐ विजितात्मने नमः । १४० ॐ विमुक्तिदाय नमः । ॐ विश्वम्भराभारहराय नमः । ॐ विष्वद्रीचीनवैभवाय नमः । ॐ विविधप्राणिकरुणाय नमः । ॐ विद्रावितजनान्तकाय नमः । ॐ विधूतमायाविभवाय नमः । ॐ विख्यातबलपौरुषाय नमः । ॐ विनिद्राय नमः । ॐ विजराय नमः । ॐ वित्ताय नमः । १५० ॐ विदोषाय नमः । ॐ विफलक्रियाय नमः । ॐ विज्ञानवादिने नमः । ॐ विमदाय नमः । ॐ विक्रोधाय नमः । ॐ विजितेन्द्रियाय नमः । ॐ विनेत्रे नमः । ॐ विश्रुतकथाय नमः । ॐ विमलाशयदर्शनाय नमः । ॐ वितर्कहीनाय नमः । १६० ॐ विरुजाय नमः । ॐ विभेदाय नमः । ॐ विप्रियाप्रियाय नमः । ॐ विज्वराय नमः । ॐ विकचाम्भोजचरणाय नमः । ॐ विनताखिलाय नमः । ॐ विधिकर्त्रे नमः । ॐ विधानज्ञाय नमः । ॐ विधये नमः । ॐ विधिफलप्रदाय नमः । १७० ॐ विधिदृष्टक्रियाभ्यर्च्याय नमः । ॐ विधिहीनाय नमः । ॐ विधिप्रियाय नमः । ॐ विधिसूत्राबद्धलोकाय नमः । ॐ विधिवत्कृतकर्मपाय नमः । ॐ विहितत्यागिसंशास्त्रे नमः । ॐ विहिताविहितागतये नमः । ॐ विहिताखिलमर्यादाय नमः । ॐ विधिरुद्रादिशासनाय नमः । ॐ विधिवत्कर्मसङ्गोप्त्रे नमः । १८० ॐ विधिविद्वेषिभञ्जनाय नमः । ॐ विधातृदर्शितपदाय नमः । ॐ विधिलोपापहाभिधाय नमः । ॐ विलसत्कमलावक्षसे नमः । ॐ विप्रदैवाय नमः । ॐ विपद्धराय नमः । ॐ विधुविद्योतमानाब्जाय नमः । ॐ विरोचनसुदर्शनाय नमः । ॐ विद्विड्रक्ताचितगदाय नमः । ॐ विपन्नाभयकृत्कराय नमः । १९० ॐ विशुद्धविज्ञानघनाय नमः । ॐ विज्ञानकलनप्रभवे नमः । ॐ वितीर्णविमलप्रज्ञाय नमः । ॐ विश्राणनसुरद्रुमाय नमः । ॐ विधिकोटिशतानन्दाय नमः । ॐ विवादाविषयाय नमः । ॐ विशाय नमः । ॐ विह्वलद्विरदत्रात्रे नमः । ॐ विषाटीन्द्रविदारणाय नमः । ॐ विविधाख्यानसंस्थाननिर्मात्रे नमः । २०० ॐ विश्वतोमुखाय नमः । ॐ विष्वग्भुजानीकशताय नमः । ॐ विकचाब्जायुतेक्षणाय नमः । ॐ विष्वक्शिरसे नमः । ॐ विष्वगङ्घ्रये नमः । ॐ विष्वक्छ्रोत्राय नमः । ॐ विसृत्वराय नमः । ॐ विष्वगूरवे(विष्वगुरसे) नमः । ॐ विष्वक्कण्ठाय नमः । ॐ विपुष्कराय नमः । २१० ॐ विद्युत्त्वत्केशनिचयाय नमः । ॐ विटपिव्रातलोमकाय नमः । ॐ विष्णुपद्यादितटिनीनाडीकाय नमः । ॐ विष्टपाकृतये नमः । ॐ विवस्वत्तनयोदारदंष्ट्राय नमः । ॐ विष्णुपदाक्षिकाय नमः । ॐ विन्ध्यादिभूमिधरास्थये नमः । ॐ विद्याहासाय नमः । ॐ विकम्पनाय नमः । ॐ विबुधेशभुजव्राताय नमः । २२० ॐ वियद्वैद्योरुनाशिकाय नमः । ॐ विदिक्कर्णाय नमः । ॐ विधिस्थानमौलये नमः । ॐ विश्वम्भरापदाय नमः । ॐ विहङ्गमव्याकरणाय नमः । ॐ वियन्मध्याय नमः । ॐ विराड्वपुषे नमः । ॐ विदीप्तसन्ध्यावसनाय नमः । ॐ विधृतोडुसुमस्रजाय नमः । ॐ विदीर्णकाण्डपटहाय नमः । २३० ॐ वियदम्बुनिषिक्तपते नमः । ॐ विलयाभिकृताचामाय नमः । ॐ विश्वाहाराय नमः । ॐ विश‍ृङ्खलाय नमः । ॐ विसृत्वरतम सिन्धुमध्यस्थाय नमः । ॐ विगताशयाय नमः । ॐ विलीनशक्तये नमः । ॐ विश्रान्ताय नमः । ॐ विहितात्मसुखाशनाय नमः । ॐ विक्षेपहीनाय नमः । २४० ॐ विकृतये नमः । ॐ विगुणिने नमः । ॐ विगतावृतये नमः । ॐ विलीनपुरुषाज्ञानोपाधिद्विश्वपरायणाय नमः । ॐ विश्वादृष्टवशत्यक्तयोगनिद्राय नमः । ॐ विबुद्धधिये नमः । ॐ विश्वाब्जनाभये नमः । ॐ विविधप्राणिबीजकृतोदयाय नमः । ॐ विरिञ्च्यादिप्रजानाथसमुत्पादितसत्प्रजाय नमः । ॐ विश्वभूरुण्मूलकन्दाय नमः । २५० ॐ विश्ववृद्धिविधायकाय नमः । ॐ विचित्रवीर्याय नमः । ॐ विचित्रकृत्याय नमः । ॐ विश्वकुटुम्बकाय नमः । ॐ विचित्रावताराय नमः । ॐ विश्वरक्षावहितमानसाय नमः । ॐ विचित्रालयमायेशाय नमः । ॐ विश्वपावनचेष्टिताय नमः । ॐ विद्यानिधये नमः । ॐ विद्वदाप्ताय नमः । २६० ॐ विरक्तजनशेवधये नमः । ॐ वितृप्ताय नमः । ॐ विरताय नमः । ॐ विस्थाय नमः । ॐ विक्रीडाय नमः । ॐ विदितात्मकाय नमः । ॐ विहतेन्द्रियसञ्चाराय नमः । ॐ विदिताविदितेतराय नमः । ॐ विपापाय नमः । ॐ विकलाय नमः । २७० ॐ विस्स्वाय नमः । ॐ विपुण्याय नमः । ॐ विपराय नमः । ॐ वियते नमः । ॐ विदुःखाय नमः । ॐ विसुखाय नमः । ॐ विज्याय नमः । ॐ विवायवे नमः । ॐ विविरोचनाय नमः । ॐ विजलाय नमः । २८० ॐ विगतस्पर्शाय नमः । ॐ विरसाय नमः । ॐ विगतध्वनये नमः । ॐ विगन्धाय नमः । ॐ विमहत्तत्त्वाय नमः । ॐ विगताहङ्कृतये नमः । ॐ विधाय नमः । ॐ विरूपाय नमः । ॐ विगताभिख्याय नमः । ॐ विस्त्रीभावाय नमः । २९० ॐ विपौरुषाय नमः । ॐ विक्लैब्याय नमः । ॐ विमनुष्यत्वाय नमः । ॐ विदैवाय नमः । ॐ विगतासुराय नमः । ॐ विशेषाय नमः । ॐ विश्वधिक्कारशेषाय नमः । ॐ विश्वतमोरवये नमः । ॐ विसङ्गाय नमः । ॐ विगतासङ्गाय नमः । ३०० ॐ विबन्धाय नमः । ॐ विश्वबन्धकृते नमः । ॐ विपाणये नमः । ॐ विपदाय नमः । ॐ विश्वग्राहिणे नमः । ॐ विश्वातिगस्यदाय नमः । ॐ विचक्षवे नमः । ॐ विश्वदृशे नमः । ॐ विश्वश्रोत्रे नमः । ॐ विगतकर्णकाय नमः । ३१० ॐ विप्राणाय नमः । ॐ विविधप्राणिप्राणनाय नमः । ॐ विमनसे नमः । ॐ विखाय नमः । ॐ विशुभ्राय नमः । ॐ विद्युदापीतशिखान्तस्थाय नमः । ॐ वियत्पदाय नमः । ॐ विन्नाय नमः । ॐ विनायकाधीशाय नमः । ॐ विघ्नहर्त्रे नमः । ३२० ॐ विकामनाय नमः । ॐ विश्वासिने नमः । ॐ विश्वजनकाय नमः । ॐ विश्वायुष्योपसङ्ग्रहाय नमः । ॐ विपदम्बुधिपोताङ्घ्रये नमः । ॐ विचारासहनाकृतये नमः । ॐ विराजद्विक्रमादित्याय नमः । ॐ विपश्चिद्गलभूषणाय नमः । ॐ वियच्छत्राय नमः । ॐ विधुमयादर्शाय नमः । ३३० ॐ विश्वम्भरासनाय नमः । ॐ विरोचनप्रतीहाराय नमः । ॐ विद्युन्मालामयाम्बराय नमः । ॐ विषराशिस्फुरत्पात्राय नमः । ॐ विटनायककन्दुकाय नमः । ॐ विदिक्पदिक्पालभृत्याय नमः । ॐ विचरद्वायुचामराय नमः । ॐ विरोचनमुखाय नमः । ॐ विप्रमुखाय नमः । ॐ विधिहुताशनाय नमः । ३४० ॐ विडूरवे नमः । ॐ विविधक्षत्रबाहवे नमः । ॐ विधिकराङ्घ्रिकाय नमः । ॐ विश्वम्भरातिवर्तिष्णुदशाङ्गुलमहाकृतये नमः । ॐ विश्वभूतमयैकांशाय नमः । ॐ विविश्वत्रिपदामृताय नमः । ॐ विद्याविद्यासृतिक्रान्ताय नमः । ॐ विबुधाहवसद्धविषे नमः । ॐ विपन्यवे नमः । ॐ विप्रसञ्चिन्त्याय नमः । ३५० ॐ वितानमयविग्रहाय नमः । ॐ वितानकृते नमः । ॐ वितानेशाय नमः । ॐ वितानाङ्गवपाशनाय नमः । ॐ वितानवीतिहोत्रात्मने नमः । ॐ वितानायुतदुर्लभाय नमः । ॐ विजयिने नमः । ॐ विजयागीतनाम्ने नमः । ॐ विजयदायकाय नमः । ॐ विजयाजयतुल्यांशाय नमः । ३६० ॐ विजेतव्यविवर्जिताय नमः । ॐ विशेषहीनचिद्रूपाय नमः । ॐ विशिष्टाय नमः । ॐ विगताञ्जनाय नमः । ॐ विशेषणीभूतविश्वाय नमः । ॐ विबुधालिसुधाकराय नमः । ॐ विश्वकेतुमनोज्ञाङ्गाय नमः । ॐ विधुन्तुदनिकृन्तनाय नमः । ॐ विश्वकेतुपित्रे नमः । ॐ विश्वकेतुवैभववर्धनाय नमः । ३७० ॐ विश्वकेतवे नमः । ॐ विश्वकेतुजयिने नमः । ॐ विश्वप्रलोभनाय नमः । ॐ विश्वकेतुस्मराय नमः । ॐ विश्वकेतुविश्वजयप्रदाय नमः । ॐ विद्याधरादिविनुताय नमः । ॐ विभूतिसमुपासिताय नमः । ॐ विभूतिभूषितमुनये नमः । ॐ विभूतिमयविष्टपाय नमः । ॐ विभूत्यलुब्धस्वजनाय नमः । ३८० ॐ विभूतिविभवप्रदाय नमः । ॐ विभूतिदुर्विभाव्यात्मने नमः । ॐ विभूतिसमुदञ्चनाय नमः । ॐ वितथेतरसङ्कल्पाय नमः । ॐ विविक्तबहुलक्रियाय नमः । ॐ विविक्तरूपाय नमः । ॐ विविक्तनाम्ने नमः । ॐ विशदसद्रदाय नमः । ॐ विविक्तचिह्नाय नमः । ॐ विस्पष्टपद्ममालाय नमः । ३९० ॐ विशेषकिने नमः । ॐ विटीन्द्रश‍ृङ्गमकुटाय नमः । ॐ विशदोपलकुण्डलाय नमः । ॐ विश्वकेतुधनुःप्रायभ्रूलताय नमः । ॐ विस्तृताननाय नमः । ॐ विश्वमात्राशयहराय नमः । ॐ विलोलमधुपालकाय नमः । ॐ विमुग्धनासिकादण्डाय नमः । ॐ विशालहनुसुन्दराय नमः । ॐ विश्वमात्राधर्मगण्डाय नमः । ४०० ॐ विनीलश्मश्रुमण्डलाय नमः । ॐ विशालाक्ष्यारक्तरेखाय नमः । ॐ विस्तीर्णश्रीकृतिश्रवसे नमः । ॐ विश्वमातृकरग्राह्यचिबुकाय नमः । ॐ विशदस्मिताय नमः । ॐ विशालफालाय नमः । ॐ विषजग्रीवाय नमः । ॐ विषजरत्नधृते नमः । ॐ विलम्बिहाररुक्पूरविशदोरस्थलान्तराय नमः । ॐ विषध्रेन्द्रायतभुजाय नमः । ४१० ॐ विषाणिरिपुमध्यमाय नमः । ॐ विनिम्ननाभये नमः । ॐ विपुलश्रोणये नमः । ॐ विविधलेपनाय नमः । ॐ विनदत्स्वर्णवलयाय नमः । ॐ विद्युद्र्वततिमेखलाय नमः । ॐ विषाणिकरमुग्धोरवे नमः । ॐ यजतूणीरजङ्घिकाय नमः । ॐ विगूढजत्रवे नमः । ॐ विश्वौघशरण्याङ्घ्रिपयोरुहाय नमः । ४२० ॐ विसारवज्रचक्राब्जहलकेत्वङ्कधृत्पदाय नमः । ॐ विद्रुमारक्तनखराय नमः । ॐ विविधाम्नायनूपुराय नमः । ॐ विमुग्धस्निग्धरक्ताङ्घ्रितलाय नमः । ॐ विसदृशाकृतये नमः । ॐ विद्याराजाय नमः । ॐ विद्यमानाय नमः । ॐ विद्याकमलिनीरवये नमः । ॐ विद्यमानागामीभूतप्रभवे नमः । ॐ विद्यादुरन्वयाय नमः । ४३० ॐ विद्यावल्लीमूलकन्दाय नमः । ॐ विद्यानन्दाब्धिखेलनाय नमः । ॐ विद्यालतोपघ्नभुजाय नमः । ॐ विद्याम्भोरुहबम्भराय नमः । ॐ विद्यापद्ममरन्दात्मने नमः । ॐ विद्यापुष्करचन्द्रमसे नमः । ॐ विद्याविनयसम्पन्नब्रह्महस्त्यादि तुल्यधिये नमः । ॐ विद्यानन्दमयाय नमः । ॐ विद्यानन्दबिम्बाय नमः । ॐ विविद्यकाय नमः । ४४० ॐ विद्याप्रदायिने नमः । ॐ विद्यात्मने नमः । ॐ विद्याफलमयाकृतये नमः । ॐ विद्यालक्ष्मीत्रपाकीर्तितुष्टिपुष्टिसतीवृताय नमः । ॐ विक्रान्ताय नमः । ॐ विह्वलत्रात्रे नमः । ॐ वियाताय नमः । ॐ विनयान्विताय नमः । ॐ विरोधहीनाय नमः । ॐ विस्नेहाय नमः । ४५० ॐ विगुणाय नमः । ॐ विमदाय नमः । ॐ विमाय नमः । ॐ विक्लमाय नमः । ॐ विगताधर्माय नमः । ॐ विवृद्धये नमः । ॐ विपरिक्षयाय नमः । ॐ विस्वेदाय नमः । ॐ विमलाय नमः । ॐ विस्रहीनाय नमः । ४६० ॐ विक्षवे नमः । ॐ वितृषे नमः । ॐ विभ्ये नमः । ॐ विप्राकृताय नमः । ॐ विभापिण्डाय नमः । ॐ विप्रमाणाय नमः । ॐ विबन्धनाय नमः । ॐ विप्रकृष्टाय नमः । ॐ विकुर्वाणाय नमः । ॐ विहारिणे नमः । ४७० ॐ विरलोदयाय नमः । ॐ विशाम्पतये नमः । ॐ विश्रुतात्मने नमः । ॐ विविधाम्नायमृग्यकृते नमः । ॐ विविक्तसेविनेदीयसे नमः । ॐ विनायकविवर्जिताय नमः । ॐ विदैवाय नमः । ॐ विप्लवाहर्त्रे नमः । ॐ विधेयाखिलदैवताय नमः । ॐ विकुण्ठलोकनिर्मात्रे नमः । ४८० ॐ विकुण्ठेशाय नमः । ॐ विकुण्ठभाय नमः । ॐ विकुण्ठाकूटतनयाय नमः । ॐ विकुण्ठनगरीप्रियाय नमः । ॐ विकुण्ठपद्ममार्तण्डाय नमः । ॐ विकुण्ठविभवाश्रयाय नमः । ॐ विकुण्ठलोलाय नमः । ॐ विकुण्ठनारीनयनचन्द्रमसे नमः । ॐ विनतासुतसद्भाहुभासक दुर्विभासकाय नमः । ॐ विलोलतुलसीमालाय नमः । ४९० ॐ विकचाब्जविधूननाय नमः । ॐ विशदोपलमुक्तौघछत्रद्वयसमञ्चिताय नमः । ॐ विवस्वदयुतच्छद्मप्रदीपाय नमः । ॐ विचलत्पटाय नमः । ॐ विधुबिम्बमयप्राज्यरात्रिकोडुप्रदीपिताय नमः । ॐ विमर्दोत्थापारगन्धमूर्छिताशाप्रबोधनाय नमः । ॐ विश्वम्भराकराम्भोजचामरानिलसेविताय नमः । ॐ विद्युद्भूषणभूषाङ्गश्रीमुखेन्दुप्रभार्चिताय नमः । ॐ विध्यंसविन्यस्तभुजाय नमः । ॐ विष्वक्सेनादिसंवृताय नमः । ५०० ॐ विध्यण्डरेणुसञ्चारक्षमरोमान्धुजालकाय नमः । ॐ विश्वम्भरारजःपुञ्जगणकागण्यवीर्यवते नमः । ॐ विष्टपत्रयपूर्वोर्ध्वलोकविष्कम्भकस्यदाय नमः । ॐ विरिञ्चिकल्पान्तसाक्षिणे नमः । ॐ विरिञ्चिप्रीतिवर्धनाय नमः । ॐ विरिञ्च्ययुतसाहस्रजनकाय नमः । ॐ विधिपावकाय नमः । ॐ विरिञ्चिदत्तप्रवररक्षःखण्डनपण्डिताय नमः । ॐ विरिञ्चिकार्यनिर्वाहाय नमः । ॐ विरिञ्चिपरदैवताय नमः । ५१० ॐ विरिञ्चिपुत्रोपदिष्टतत्त्वाय नमः । ॐ विधिहृदालयाय नमः । ॐ विपञ्चीशिल्पदेवर्षिसङ्गीताय नमः । ॐ विधिसौहृदाय नमः । ॐ विधिसत्त्वोन्मेषकारिणे नमः । ॐ विधिवक्राटवीहरये नमः । ॐ विधिलोकातिनेदीयसे नमः । ॐ विधिमुक्तिप्रदायकाय नमः । ॐ विधिबम्भरनाभ्यब्जाय नमः । ॐ विधिवक्त्राब्जभास्कराय नमः । ५२० ॐ विधिलोककृतश्रेयसे नमः । ॐ विधिबन्धवे नमः । ॐ विधीष्टदाय नमः । ॐ विष्टपेशीकृतविधये नमः । ॐ विधिदत्ताखिलागमाय नमः । ॐ विधिसौभाग्यसन्धात्रे नमः । ॐ विधिचेतोविशोधनाय नमः । ॐ विश्वोपजीव्याय नमः । ॐ विश्वान्याय नमः । ॐ विश्वानन्याय नमः । ५३० ॐ विडर्दनाय नमः । ॐ विश्वशम्भवे नमः । ॐ विरूपाक्षजिह्वारङ्गस्थलीनटाय नमः । ॐ विरूपाक्षजटाकाशगङ्गावर्षबलाहकाय नमः । ॐ विरूपाक्षशरण्याङ्घ्रये नमः । ॐ विरूपाक्षत्रिशूलदाय नमः । ॐ विरूपाक्षद्विषद्भस्मासुरप्राणविनाशनाय नमः । ॐ विरूपाक्षपरित्त्रात्रे नमः । ॐ विरूपाक्षशुभप्रदाय नमः । ॐ विरूपाक्षबलाधात्रे नमः । ५४० ॐ विरूपाक्षजयप्रदाय नमः । ॐ विरूपाक्षस्मयाहर्त्रे नमः । ॐ विरूपाक्षेषुभूतभाय नमः । ॐ विरूपाक्षजयिने नमः । ॐ विभ्राजे नमः । ॐ विरूपाक्षविपक्षहृते नमः । ॐ विरूपाक्षप्रीतिपात्राय नमः । ॐ विरूपाक्षमनोगताय नमः । ॐ विरूपाक्षमयाय नमः । ॐ विद्धविरूपाक्षतमोऽशुभाय नमः । ५५० ॐ विरूपाक्षानन्तकोटिक्षयसाक्षिणे नमः । ॐ विरोधजिते नमः । ॐ विरूपनेत्रहृदयाय नमः । ॐ विरूपाक्षपितामहाय नमः । ॐ विरूपनेत्रसद्बन्धवे नमः । ॐ विरूपाक्षमुखोक्षिदाय नमः । ॐ विरूपाक्षसमानात्मने नमः । ॐ विरूपाक्षाष्टसिद्धिदाय नमः । ॐ विरूपाक्षमहादेवाय नमः । ॐ विरूपाक्षमहागुरवे नमः । ५६० ॐ विरूपनेत्रान्तरात्मने नमः । ॐ विरूपाक्षसमीरणाय नमः । ॐ विरूपाक्षपरिज्ञेयतत्त्वाय नमः । ॐ विविधमार्गकृते नमः । ॐ विरूपाक्षब्रह्महत्याहरभिक्षाप्रदापनाय नमः । ॐ विरूपाक्षाभयकराय नमः । ॐ विरूपाक्षविमोहनाय नमः । ॐ विरूपनेत्रोपभुक्तविषववीर्यविनाशनाय नमः । ॐ विरूपाक्षकृतत्त्रासाय नमः । ॐ विश्वभव्यमहातपसे नमः । ५७० ॐ विरूपाक्षप्रजारक्षाय नमः । ॐ विरूपाक्षविमोक्षदाय नमः । ॐ विरूपाक्षमताविष्टपाषण्डजनतापनाय नमः । ॐ विरूपाक्षललाटाक्षये नमः । ॐ वीतिहोत्राहितप्रभाय नमः । ॐ विधिरुद्रादिकुल्यान्तर्वृष्टशक्तिजलाम्बुदाय नमः । ॐ विधिरुद्रादिमानौघपूर्णमायापयोनिधिये नमः । ॐ विश्वप्राणान्तराय नमः । ॐ विश्वप्राणाधिष्ठातृपौरुषाय नमः । ॐ विनायकाभ्यवहृतिक्रियाविघ्ननिवारकाय नमः । ५८० ॐ विनायकायुताधीशाय नमः । ॐ विष्यक्सेनोपसेविताय नमः । ॐ विनायककराब्धारास्नपितश्रीस्वयंवृताय नमः । ॐ विनायकैकरदनच्छेदशान्तसुदर्शनाय नमः । ॐ विनायकसमुद्गीताय नमः । ॐ विनायकवरप्रदाय नमः । ॐ विनायकपरित्रात्रे नमः । ॐ विनायकभयावहाय नमः । ॐ विनायकशरण्याङ्घ्रये नमः । ॐ विनायकशुभप्रदाय नमः । ५९० ॐ विनायकोदरस्थाग्निज्वालावर्धनमारुताय नमः । ॐ विश्वजन्तूदराग्न्यात्मने नमः । ॐ विश्वान्नप्रतिपादकाय नमः । ॐ विश्वम्भरापुण्यगन्धाय नमः । ॐ विद्युत्त्वत्पुष्पसद्रसाय नमः । ॐ विरोचनलसद्रूपाय नमः । ॐ वियच्छब्दाय नमः । ॐ विटेड्द्धृतये नमः । ॐ विरोचनसखस्पर्शाय नमः । ॐ विधुज्योत्स्नाविकातपाय नमः । ६०० ॐ विषशेवधिगाम्भीर्याय नमः । ॐ विश्वज्ञानाय नमः । ॐ विवित्सुखाय नमः । ॐ विश्वमङ्गलमाङ्गल्याय नमः । ॐ विश्वपूरुषपौरुषाय नमः । ॐ विश्वम्भराक्षमयै नमः । ॐ विद्युद्रुचये नमः । ॐ विक्रान्तविक्रमाय नमः । ॐ विद्युत्त्वदुदयाय नमः । ॐ विद्युद्भङ्गाय नमः । ६१० ॐ विधुविभेदनाय नमः । ॐ विकम्पनाय नमः । ॐ विषनिधिसन्निवृत्तये नमः । ॐ विवित्पतये नमः । ॐ विनिवृत्तये नमः । ॐ विप्रवृत्तये नमः । ॐ विभावसुगतये नमः । ॐ विदाय नमः । ॐ विश्वाधिकाय नमः । ॐ विटवरात्युच्छ्रिताय नमः । ६२० ॐ विटधारयाय नमः । ॐ विटेन्द्राय नमः । ॐ विटराट्छृङ्गनिलयाय नमः । ॐ विटवर्धनाय नमः । ॐ विषराण्मन्थनाय नमः । ॐ विद्युत्स्फुरन्मकरकुण्डलाय नमः । ॐ विटकूटाक्रान्तभुजाय नमः । ॐ विषध्रेन्द्रविकर्षणाय नमः । ॐ विष्फुरद्भुजसन्दोहपर्यायाक्रान्तमन्दराय नमः । ॐ विध्वनत्करसाहस्रभर्त्सितार्ककरोत्कराय नमः । ६३० ॐ विचलत्कचवृन्दाभ्रमालाञ्जनवपुर्धराय नमः । ॐ विस्तीर्णवलिमद्रक्तकण्ठाय नमः । ॐ विमृदितप्रजाय नमः । ॐ विवल्गत्पृथुलश्रोणये नमः । ॐ विरणन्मणिकङ्कणाय नमः । ॐ विभ्रस्यदूर्ध्वकौशेयाय नमः । ॐ विविधद्रुसुमाप्लुताय नमः । ॐ विविधस्वरसम्पूर्णमञ्जुगीतविनोदनाय नमः । ॐ विषधीन्द्रकरोदञ्चत्पयःक्षालितसत्पदाय नमः । ॐ विभ्रमाक्रान्तविबुधवल्लवीदृष्टिमानसाय नमः । ६४० ॐ विस्फुरद्धासविभवध्वस्तसर्वाद्रिकश्मलाय नमः । ॐ विधुवक्त्रस्मितज्योत्स्नावर्धितक्षीरवारिधये नमः । ॐ विशिखापाङ्गनिहतलक्ष्मीचित्ताय नमः । ॐ विनोदभाजे नमः । ॐ विश्वावस्वादिगन्धर्वगीयमानगुणेहिताय नमः । ॐ विधिरुद्रेन्द्रकलितजयशब्दाय नमः । ॐ विषार्दनाय नमः । ॐ विश्राणनगुणाक्रान्तकामधेनुसुरद्रुमाय नमः । ॐ विबुधद्विपसङ्क्रान्तगतिगाम्भीर्यसद्गुणाय नमः । ॐ विधुमण्डलसङ्क्रान्तमुखकञ्जप्रभाकलाय नमः । ६५० ॐ विबुधाश्वोपसङ्क्रान्तवैशद्यविशदश्रवसे नमः । ॐ विबुधाहारसङ्क्रान्तमाधुर्यमधुराधराय नमः । ॐ विबुधक्षितिवामाक्षीक्रान्तसौन्दर्यविग्रहाय नमः । ॐ विषरत्नोपसङ्क्रान्ततेजसे नमः । ॐ विश्वप्रमाणदिते नमः । ॐ विश्वव्यवस्थासन्धात्रे नमः । ॐ विश्वसङ्ग्रहनिग्रहाय नमः । ॐ विषराट्छीकरर्क्षौघचित्रिताकारपुष्कराय नमः । ॐ विषाक्लेद्याय नमः । ॐ विषादाह्याय नमः । ६६० ॐ विषधये नमः । ॐ विषनाशनाय नमः । ॐ विश्वमातृस्मरोन्मेषाय नमः । ॐ विश्वमातृस्वयंवृताय नमः । ॐ विश्वमातृकटाक्षालिपीयमानपदाम्बुजाय नमः । ॐ विश्वमातृसमानात्मने नमः । ॐ विश्वमातृपरीक्षिताय नमः । ॐ विश्वमातृस्मिताहाराय नमः । ॐ विश्वमातृपदाङ्किताय नमः । ॐ विश्वमातृकलाभूषाय नमः । ६७० ॐ विश्वमात्रधरस्पृहाय नमः । ॐ विश्वाम्बिकोरोजकुम्भनाभिलेपायिताकृतये नमः । ॐ विश्वमातृमुखाम्भोजकस्तूरीतिलकद्दृशाय नमः । ॐ विश्वमातृशिरोजौघमेघमण्डलभृत्कराय नमः । ॐ विश्वमातृकुचोर्वीध्रविश्रान्ताद्भुतवारिदाय नमः । ॐ विश्वमातृमुखानङ्कचन्द्रमण्डलमानदाय नमः । ॐ विश्वमातृमुखाम्भोजपीयमानाधरामृताय नमः । ॐ विश्वमातृभुजव्याजिचम्पकस्रग्लसद्गलाय नमः । ॐ विश्वमातृकुचद्वन्द्वपीडितोरस्थलस्रजाय नमः । ॐ विश्वमातृदृशाभृङ्गीपीतहृत्पद्मसद्रसाय नमः । ६८० ॐ विश्वमातृकपोलान्तःप्रतिबिम्बितसन्मुखाय नमः । ॐ विश्वमातृमुखाम्भोजप्रतिमाभृत्कपोलकाय नमः । ॐ विश्वमातृश्रवोभूषारुक्पूरश्वेतिताननाय नमः । ॐ विद्रुमीकृतपद्मासन्नासिकामौक्तिकाधराय नमः । ॐ विश्वमातृशिरस्सौरीश्लिष्टगङ्गाकृताप्लवाय नमः । ॐ विश्वमातृदृगन्ताभाक्षणनीलोत्तराधराय नमः । ॐ विश्वमातृदृगम्भोजसङ्कोचोन्मेषदेक्षणाय नमः । ॐ विश्वमात्रलकाक्षेपासहनेन्दुकलानखाय नमः । ॐ विश्वमात्राननादर्शवृन्तश्चिबुकधृत्कराय नमः । ॐ विश्वमात्रोष्ठपीयूषपानत्यक्तसुधाघटाय नमः । ६९० ॐ विपञ्चीस्वरजिल्लक्ष्मीगानमाधुर्यविस्मिताय नमः । ॐ विश्वमातृस्वर्णलतावपन्तायतविग्रहाय नमः । ॐ विश्वमातृश्रुतिद्वन्द्वभूषणायितभाषणाय नमः । ॐ विश्वमातृवचःपुष्पमरन्दापूरिताशयाय नमः । ॐ विश्वमातृस्वर्णपुत्रीभूषिताङ्कोपशोभिताय नमः । ॐ विश्वमातृमनोज्ञांसलक्ष्मीलालितसद्भुजाय नमः । ॐ विश्वाम्बाकरकञ्जातनखाभारञ्जितस्तनाय नमः । ॐ विश्वाम्बापाङ्गनीलाब्जपूजिताय नमः । ॐ विश्वमन्मथाय नमः । ॐ विश्वाम्बाकैशिकामोदाघ्राणकेलिविचक्षणाय नमः । ७०० ॐ विश्वाम्बास्पर्शसुखिताय नमः । ॐ विश्वाम्बामूर्धचुम्बकाय नमः । ॐ विश्वाम्बामोहपाशाभवनमालाविभूषिताय नमः । ॐ विश्वाम्बाकुचकाश्मीररञ्जितोत्तरसत्पटाय नमः । ॐ विश्वम्भरालसत्पृष्ठाट नमः । ॐ विश्वाम्बादृढसौहृदाय नमः । ॐ विश्वम्भराविश्वमातृमण्डितोभयपार्श्वकाय नमः । ॐ विश्वम्भराधृताम्भोजच्छत्राय नमः । ॐ विश्वम्भराप्रियाय नमः । ॐ विश्वाम्बाकरगस्वर्णवालव्यजनवीजिताय नमः । ७१० ॐ विश्वम्भराविश्वमातृवामसव्यकुचग्रहाय नमः । ॐ विश्वम्भराविश्वमातृन्यस्तैकैकाम्बुजेक्षणाय नमः । ॐ विश्वम्भरासमुल्लासाय नमः । ॐ विश्वाम्बामानवर्धनाय नमः । ॐ विश्वाम्बानुनयाभिज्ञाय नमः । ॐ विश्वाम्बावचनानुगाय नमः । ॐ विश्वम्भराविश्वमातृसव्यासव्यकरग्रहाय नमः । ॐ विश्वम्भराकृष्णवेणीसंसेवासुखिताशयाय नमः । ॐ विश्वम्भरोपथिभुजाय नमः । ॐ विश्वाम्बाकशिपूदराय नमः । ७२० ॐ विश्वम्भराश्लेषिदिव्यभव्यार्चाविग्रहायुताय नमः । ॐ विश्वम्भरागर्भदात्रे नमः । ॐ विश्वाम्बाभोगवर्धनाय नमः । ॐ विश्वम्भरासमुद्धर्त्रे नमः । ॐ विश्वाम्बानित्यसंयुताय नमः । ॐ विश्वम्भरानित्यबन्धवे नमः । ॐ विश्वाम्बाजन्मभूरुचये नमः । ॐ विश्वम्भराकराम्भोजशुकसंस्तुतसद्गुणाय नमः । ॐ विश्वम्भरागर्भलीनदिव्यौषधिसमुद्धराय नमः । ॐ विश्वम्भराधेनुवृषाय नमः । ७३० ॐ विश्वधर्मपरायणाय नमः । ॐ विरुद्धधर्मनिर्हर्त्रे नमः । ॐ विविधत्रातृविग्रहाय नमः । ॐ विश्वम्भरापराधाराय नमः । ॐ विश्वकञ्चुकिताकृतये नमः । ॐ विश्वबीजब्रह्मयोनये नमः । ॐ विश्वयोनिप्रकल्पकाय नमः । ॐ विश्वविश्वेदेवदेवाय नमः । ॐ विश्वभाषाविशारदाय नमः । ॐ विविधग्रन्थविषयाय नमः । ७४० ॐ विश्वमन्त्रार्थसङ्ग्रहाय नमः । ॐ विविधानन्तमन्त्रार्थाय नमः । ॐ विश्वमन्त्राधिदैवताय नमः । ॐ विग्रहोपलसन्मन्त्राय नमः । ॐ विश्वमन्त्रफलप्रदाय नमः । ॐ विश्वाम्नायमयाय नमः । ॐ विश्वमन्त्रादये नमः । ॐ विश्वमन्त्रसते नमः । ॐ विविधास्त्रप्रयोगज्ञाय नमः । ॐ विविधास्त्रमयाकृतये नमः । ७५० ॐ विविधास्त्रोपसंहारवेत्त्रे नमः । ॐ विश्वास्त्रभञ्जनाय नमः । ॐ विश्वास्त्रवारणात्मास्त्राय नमः । ॐ विश्वास्त्रास्पृश्यविग्रहाय नमः । ॐ विश्वास्त्रबलसन्धात्रे नमः । ॐ विविधास्त्रसमुद्भवाय नमः । ॐ वितथेतरवागस्त्राय नमः । ॐ विविधास्त्रमहेश्वराय नमः । ॐ विविधाम्नायनिश्श्वासाय नमः । ॐ विदीप्तश्रुतिमस्तकाय नमः । ७६० ॐ विश्ववेदैकसंवेद्याय नमः । ॐ विहिताम्नायमस्तकाय नमः । ॐ विग्रहाञ्चाद्वेदवन्तिस्तुताय नमः । ॐ विविधवेदविदे नमः । ॐ विविधाम्नायसन्मालानायकाय नमः । ॐ विवृतश्रुतये नमः । ॐ विध्यर्थवादाविषयाय नमः । ॐ विलसच्छ्रुतिवल्लभाय नमः । ॐ विश्वम्भराप्रविष्टात्मधृतभूताय नमः । ॐ विलाघवाय नमः । ७७० ॐ विधुभूतात्मसम्पुष्टविविधौषधिमण्डलाय नमः । ॐ विश्वानरसुताविष्टस्वतेज पाचितौदनाय नमः । ॐ विरोचनसभाऽऽविष्टस्वशक्त्वुज्जीवितप्रजाय नमः । ॐ विभावसुसमाविष्टस्वतेजोवृष्टभूतलाय नमः । ॐ विश्वोपसङ्क्रान्तसच्चित्सुखांशाय नमः । ॐ विश्वविभ्रमाय नमः । ॐ विभक्त्यर्थाय नमः । ॐ विभक्तिस्थशक्तिरूपाय नमः । ॐ विभक्तिकृते नमः । ॐ विभक्त्यगोचरपदाय नमः । ७८० ॐ विभक्त्यात्मने नमः । ॐ विभक्तिभृते नमः । ॐ विश्वापोहाय नमः । ॐ विश्ववृत्तिः नमः । ॐ विश्वज्ञानाय नमः । ॐ विभोजनाय नमः । ॐ विश्वस्मृतिः नमः । ॐ विश्वनिद्राय नमः । ॐ विश्वजागरणाय नमः । ॐ विदृशे नमः । ७९० ॐ विश्वप्रेमास्पदवदाय नमः । ॐ विश्वभूतादिवत्सलाय नमः । ॐ विश्वरत्नोदराय नमः । ॐ विश्ववसुजिते नमः । ॐ विश्वमन्दिराय नमः । ॐ विषशेवधिजामात्रे नमः । ॐ विषधिश्वशुरोत्तमाय नमः । ॐ विश्वप्रियाबुद्धिगुरवे नमः । ॐ विश्वसूप्रकृतिप्रियाय नमः । ॐ विश्रवस्तनयाधीशाय नमः । ८०० ॐ विश्रवस्सुतशेवधये नमः । ॐ विश्रवस्तनयोदारधनदाय नमः । ॐ विश्रवस्सुताय नमः । ॐ विश्रवस्सुतसंसेव्याय नमः । ॐ विश्रवस्सुतबान्धवाय नमः । ॐ विश्रवस्सुतसन्त्रात्रे नमः । ॐ विश्रवस्सुतकामदाय नमः । ॐ विश्रवस्सुतहृद्वासाय नमः । ॐ विश्रवस्सुतचोदनाय नमः । ॐ विश्रवस्सुतदुर्ज्ञेयाय नमः । ८१० ॐ विश्रवस्सुततोषिताय नमः । ॐ विश्रवस्सुतदत्तोत्तराशाय नमः । ॐ विश्रवाश्रयाय नमः । ॐ विश्रवस्तवयैश्वर्यप्रदलक्ष्मीदृगञ्चलाय नमः । ॐ विबुधेश्वरदृक्पद्मसहस्रामितसौभगाय नमः । ॐ विबुधाधिपसोदर्याय नमः । ॐ विबुधाधिपपालनाय नमः । ॐ विबुधेन्द्राय नमः । ॐ विबुधराजे नमः । ॐ वितीर्णविबुधालयाय नमः । ८२० ॐ विबुधेन्द्रारिसंहर्त्रे नमः । ॐ विबुधेन्द्रविपद्धराय नमः । ॐ विबुधेन्द्रविपद्बन्धवे नमः । ॐ विबुधेन्द्रप्रसादिताय नमः । ॐ विबुधेन्द्रकृतैश्वर्याय नमः । ॐ विबुधेश्वरकामदाय नमः । ॐ विबुधेन्द्रशतैश्वर्याय नमः । ॐ विरोचनसुतान्दनाय नमः । ॐ विबुधेन्द्रकृतशतक्रतवे नमः । ॐ विबुधनाथजिते नमः । ८३० ॐ विबुधाधीशपक्षपाताय नमः । ॐ विबुधस्त्रीप्रणर्तिताय नमः । ॐ विबुधस्त्रीलतोपघ्नाय नमः । ॐ विबुधेश्वरसाह्यकृते नमः । ॐ विबुधेन्द्रायुधस्थात्मतेजसे नमः । ॐ विबुधदीपनाय नमः । ॐ विबुधाहारितसुधाय नमः । ॐ विबुधोत्साहवर्धनाय नमः । ॐ विबुधासुरसङ्ग्रामजयलक्ष्मीसमञ्चिताय नमः । ॐ विबुधास्याब्जमार्तण्डाय नमः । ८४० ॐ विबुधेन्द्रपुरोहिताय नमः । ॐ विबुधाचार्यसंशास्त्रे नमः । ॐ विबुधाचार्यदेशिकाय नमः । ॐ विबुधाचार्यसंस्तुत्याय नमः । ॐ विबुधाचार्यमानदाय नमः । ॐ विबुधद्रुमसन्तानपुष्पलक्ष्मीनिषेविताय नमः । ॐ विबुधद्रुममूलस्थाय नमः । ॐ विबुधद्रुमजन्मकृते नमः । ॐ विबुधध्वजिनीपालाय नमः । ॐ विशाखामितवीर्यदाय नमः । ८५० ॐ विशाखातनयत्त्रात्रे नमः । ॐ विशाखहृदयान्तराय नमः । ॐ विशाखविन्यस्तनिजतेजसे नमः । ॐ विजिततारकाय नमः । ॐ विशाखाद्भुतदर्पाब्धिकुम्भभूर्विबुधोदयाय नमः । ॐ विशाखषण्मुखाश्रान्तगीतषड्गुणभूषणाय नमः । ॐ विशाखातनयव्यूहसेनापालनपण्डिताय नमः । ॐ विशाखासुतविद्यादाय नमः । ॐ विशाखासुतचोदनाय नमः । ॐ विशाखप्रीतहृदयाय नमः । ८६० ॐ विशाखपरिपूजिताय नमः । ॐ विशाखनिर्दम्भबन्धवे नमः । ॐ विशाखपरदैवताय नमः । ॐ विशाखपरमोदारतपोवल्लीफलप्रदाय नमः । ॐ विकैतवतपोरूपाय नमः । ॐ विदोषतपाश्रयाय नमः । ॐ विदर्शनतपःप्राप्याय नमः । ॐ विविघ्नसुतपःप्रियाय नमः । ॐ विषाधीशाय नमः । ॐ विषाधीशचेतःकमलभास्कराय नमः । ८७० ॐ विषाधीशप्रतीचीदाय नमः । ॐ विषेशज्ञानदायकाय नमः । ॐ विषाधीशान्तरारामाय नमः । ॐ विषाधीशहृदीश्वराय नमः । ॐ विषाधीश्वरविज्ञाततत्त्वाय नमः । ॐ विषपतिप्रियाय नमः । ॐ विविक्तद्वारनवकब्रह्मपत्तनभासनाय नमः । ॐ विस्रुतामृतसम्पूर्णब्रह्मपुर्यन्तरुज्ज्वलाय नमः । ॐ विशुद्धचक्रनिलयाय नमः । ॐ विशुद्दारिदृगर्चिताय नमः । ८८० ॐ विशुद्धचक्रावेशितासुप्राप्याय नमः । ॐ विविधचक्रकृते नमः । ॐ विविक्तषट्चक्रपुरस्वामिने नमः । ॐ विविधचक्रगाय नमः । ॐ विशुद्धचक्रोपरिस्थपूर्णचन्द्राय नमः । ॐ विशुद्धदृशे नमः । ॐ विधुभास्वन्नाडिकान्तस्सुषुम्नाग्रतलालयाय नमः । ॐ विविक्तोत्थापिताहीन्द्रस्रुतामृतपसत्प्रियाय नमः । ॐ विरतस्वान्तकमलप्रतीताय नमः । ॐ वितमःप्रभाय नमः । ८९० ॐ विपरानुभवाकाराय नमः । ॐ विश्वशून्यविचक्षणाय नमः । ॐ विविकल्पसमाध्यात्मने नमः । ॐ विविकल्पसमाधिभाजे नमः । ॐ विविकल्पसमाध्यास्याय नमः । ॐ विविकल्पसमाधिदृशे नमः । ॐ विकल्पितसमाधिस्थपुरुषाज्ञेयसत्पदाय नमः । ॐ विविक्तसच्चित्सुखात्मने नमः । ॐ विश्वमायादुरन्वयाय नमः । ॐ विकल्पितदभावानाकलिताय नमः । ९०० ॐ विलयोदयाय नमः । ॐ विद्याविद्योपाधिहीनाय नमः । ॐ विद्याविद्याप्रकल्पनाय नमः । ॐ विशेषहीनचिद्रूपमायाकल्पितदेहभाजे नमः । ॐ विवादाविषयावार्यमायाय नमः । ॐ विप्रकृतिप्रभाय नमः । ॐ विषुवाद्यपरिच्छेद्याय नमः । ॐ विभावर्यादिकल्पनाय नमः । ॐ विभावर्याद्यवयववत्सरात्मकचक्रकृते नमः । ॐ विनिरोधाब्दचक्रोरुवेगात्तपुरुषायुषाय नमः । ९१० ॐ विश्वत्त्राणात्मचरणप्रसन्नध्रुवसद्गतये नमः । ॐ विभ्रमत्कालनेमिघ्नाय नमः । ॐ विषुवाय नमः । ॐ विषुवप्रभवे नमः । ॐ विकालचक्रपदगाय नमः । ॐ विवस्वद्भ्रमणातिगाय नमः । ॐ विवस्वदायुःकलनाय नमः । ॐ विवस्वत्सुतशासनाय नमः । ॐ विवस्वत्तनयोदारदण्डपाशाहितप्रभाय नमः । ॐ विकलाकाष्ठादिसत्यकालाय नमः । ९२० ॐ विश्वोत्तरापदाय नमः । ॐ विपूर्वाय नमः । ॐ विप्रतीचीकाय नमः । ॐ विधिलोकादिदक्षिणाय नमः । ॐ विवस्वद्द्विधुतारादिभ्रमणागोचरालयाय नमः । ॐ विध्वादिमच्छिंशुमारचक्रनित्यभ्रमावहाय नमः । ॐ विश्वामित्रादिसप्तर्षिपूजितध्रुवलोककृते नमः । ॐ विश्वामित्रादिसप्तर्षिदत्तज्योतिर्मयक्षितये नमः । ॐ विविक्तनक्षत्रपथाय नमः । ॐ वियद्गङ्गाधुनीधराय नमः । ९३० ॐ विवस्वत्स्यन्दनाधाराय नमः । ॐ विधुलोकरसावहाय नमः । ॐ विद्युद्विवस्वद्वरुणाद्यातिवाहिककल्पकाय नमः । ॐ विरोचनज्योतिराद्यापुनरावृत्तिमार्गकृते नमः । ॐ विधूतकलुषोदारभक्तदत्तात्मरूपकाय नमः । ॐ विमानप्रवरानीतभक्तदर्शनकौतुकाय नमः । ॐ विधिरुद्रादिसत्कारतुष्टभक्तप्रियंवदाय नमः । ॐ विद्युदम्बरसच्छङ्खचक्रभक्तगणावृताय नमः । ॐ विमुक्तनित्यमुक्तात्मसेविताय नमः । ॐ विच्युतिस्वकाय नमः । ९४० ॐ विमुक्तनयनानन्दाय नमः । ॐ विमुक्तहृदयप्रियाय नमः । ॐ विमुक्तहृदयारामाय नमः । ॐ विमुक्तोक्तात्मतत्त्वकाय नमः । ॐ विमुक्तजनसंवादिने नमः । ॐ विमुक्तजनतर्पणाय नमः । ॐ विरजातोयसंसर्गाप्राकृतात्मकृतस्वकाय नमः । ॐ विरजातीरकान्तारविहृताय नमः । ॐ विरजाप्रियाय नमः । ॐ विरजातोयसंसर्गात्प्राकृतात्मीकृतस्वकाय नमः । ९५० ॐ विरजातीरतुलसीवनदेवीनिषेविताय नमः । ॐ विरजातोयकणभाक्सुगन्धिपवनार्चिताय नमः । ॐ विरजातोयकपटसच्चिदानन्दविग्रहाय नमः । ॐ विरजसे नमः । ॐ विरजातोयसुस्नाताय नमः । ॐ विरजापतये नमः । ॐ विरजोर्मिच्छटाडोलाविहारिणे नमः । ॐ विरजान्तराय नमः । ॐ विरजादेवताकेलये नमः । ॐ विरजाविभ्रमाशयाय नमः । ९६० ॐ विरजामीननयनाकरालिङ्गितकन्धराय नमः । ॐ विरजावर्तनाभीदृशे नमः । ॐ विरजापुलिनाश्रयाय नमः । ॐ विरजाकुचकञ्जातकोशगृध्नुकरद्वयाय नमः । ॐ विरजाविहगश्रेणिकाञ्च्यै नमः । ॐ विघटनोत्कराय नमः । ॐ विकुण्ठलक्ष्मीदुकूलविरजाम्बुविलोलनाय नमः । ॐ विरजामुखकञ्जातचुम्बनाय नमः । ॐ विरजोदयाय नमः । ॐ विरजाभुवनक्रीडानिर्जितप्रेयसीगणाय नमः । ९७० ॐ विरजाजलगूढात्मने नमः । ॐ विरजाक्लेदिताम्बराय नमः । ॐ विरजातीरविहरद्वैमानिककृतोत्सवाय नमः । ॐ विरजाजलजन्त्वोघमुक्तौघपरिपूजिताय नमः । ॐ विरजामृतपानाप्तब्रह्मानन्दपुरीजनाय नमः । ॐ विरजासलिलाधाराय नमः । ॐ विरजीभूतमायकाय नमः । ॐ विरजापदतीरस्थाय नमः । ॐ विरजापरिघालयाय नमः । ॐ विरजागाधसलिलभीतभीतविरिञ्चनाय नमः । ९८० ॐ विरजातोयपानाप्तविद्याभक्तजनेदिताय नमः । ॐ विनायकध्वजभ्राजद्विमानवरभूषणाय नमः । ॐ वियद्विमानविभ्राजदबलातारकाविधवे नमः । ॐ विकुण्ठनगरीनारीनीराजितपदाम्बुजाय नमः । ॐ विकुण्ठपौरीनेत्रालिलीयमानोत्सवासवाय नमः । ॐ विस्पष्टेन्दीवराभात्मलग्नलक्ष्मीमुखेन्दुभाय नमः । ॐ विश्वाम्बाहेमपुत्रीभृद्वक्षोनीलाश्मपीठकाय नमः । ॐ विधुबिम्बोपरिस्थार्कभानुविद्योतिताम्बराय नमः । ॐ विवेलात्मप्रभापूरनीलीकृतमहाहिपाय नमः । ॐ विषध्रमूर्धसाहस्ररत्नाभालेपचित्रिताय नमः । ९९० ॐ विसारितैकबाह्वग्रकङ्कणाभाञ्चितेन्दिराय नमः । ॐ विश्वाम्बाकरकञ्जातलक्ष्मीलालितजानुकाय नमः । ॐ विचित्रदिव्याभरणांशुकाभासिन्धूदयश्रीमुखचन्द्रबिम्बाय नमः । ॐ विष्वक्कृपादर्शितकामपूरनखेन्दुभिन्नाङ्गुलिपादपद्माय नमः । ॐ विश्वालयव्यापिविचित्रगन्थमल्लीतुलस्यम्बुजचुम्बिताङ्गाय नमः । ॐ विश्वम्भरावासितचारुगन्धविप्ताङ्गनीरन्ध्रपतद्विरेफाय नमः । ॐ विवृत्तरत्नोपधिपुष्पमालागृहीतगन्धाद्भुतकेशवेशाय नमः । ॐ विचित्रभूषाम्बरवैष्णवस्त्रीसङ्गीतनाट्याकलनस्मितास्याय नमः । ॐ विनायकोदारसुपर्णकम्पनप्रभूतदिव्यानिललोलितालकाय नमः । ॐ विरिञ्चिना द्युन्मकुटप्रभाझरीनिषिक्तपादाय नमः । ॐ विविदाशयाञ्चिताय नमः । १००१ विचित्रभूषाम्बरवैष्णवस्त्रीसङ्गीतनाट्याकलनस्मितास्यः ॥ विनायकोदारसुपर्णकम्पनप्रभूतदिव्यानिललोलितालकः । विरिञ्चिना द्युन्मकुटप्रभाझरीनिषिक्तपादो विविदाशयाञ्चितः ॥ विनायकश्रौतरथाधिरूढसद्विनायकापाङ्गसुधामयाकृतिः । विचित्रसाहस्रसुमाधिरोहताद्विनायकोदारगलं सुखादियम् ॥ पराभवज्येष्ठकमासपूर्णिमातिथौ समाप्तिं गमितासकौ कृतिः । सुखेन रामेण समर्पिता हरेः पदाब्जयोराविधुभासतान्तराम् ॥ पराभवाषाढशुद्धद्वादश्यामसकौ कृतिः । रामेण सर्वा व्याख्याता प्रापिता च हरेः पदम् ॥ ॥ एवं सहस्रनामानि कृत्वा भगवते कृति नायकाय समर्पयति ॥ ॥ श्री हयग्रीवार्पणमस्तु ॥ इति विवर्णादि विष्णुसहस्रनामावलिः समाप्ता । Composed by Bellamkonda Rama Raya Kavindrulu (1875-1914) Proofread by PSA Easwaran
% Text title            : Vivarnadi Vishnu Sahasranamavali
% File name             : vivarNAdiviShNusahasranAmAvaliH.itx
% itxtitle              : vivarNAdiviShNusahasranAmAvaliH
% engtitle              : vivarNAdiviShNusahasranAmAvaliH
% Category              : vishhnu, sahasranAmAvalI, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Bellamkonda Rama Raya Kavindrulu (1875-1914)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : See corresponding stotram
% Indexextra            : (Telugu, stotram)
% Acknowledge-Permission: Bellamkonda Chakradhar Kumar
% Latest update         : December 19, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org