यादवैः कृतं श्रीकृष्णस्तोत्रम्
बालं चाबालसद्वृत्तमीश्वरं सकलेश्वरम् ।
योगिध्येयं सदादृश्यं सन्तं सदसदात्मकम् ॥ १॥
यो हि द्रक्ष्यति तं कृष्णं तस्मै भूयो नमो नमः ।
आद्यानामाद्यमनादिं च सकलं निष्कलं हरिम् ।
यो हि द्रक्ष्यति तं देवं तस्मै भूयो नमो नमः ॥ २॥
इति हरिवंशान्तर्गतं यादवैः कृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
हरिवंश । अध्याय ६६.३५॥
harivaMsha . adhyAya 66.35..
Proofread by PSA Easwaran