यमगीतास्तवनम्

यमगीतास्तवनम्

श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः । ॐ नमो भगवते तस्मै नृसिंहाय महात्मने । यन्नाम कीर्तनात्सद्यो नरकाग्निः प्रशाम्यति ॥ १॥ भक्तप्रियाय देवाय रक्षाय हरये नमः । लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥ २॥ अनन्तायाप्रमेयाय नारसिंहाय ते नमः । नारायणाय गुरवे शङ्खचक्रगदाभृते ॥ ३॥ वेदप्रियाय महते विक्रमाय नमोनमः । वाराहायाप्रतर्क्याय वेदाङ्गाय महीभृते ॥ ४॥ नमो द्युतिमते नित्यं ब्राह्मणाय नमोनमः । वामनाय बहुज्ञाय वेदवेदाङ्गधारिणे ॥ ५॥ बलिबन्धनदत्ताय वेदपालाय ते नमः । विष्णवे सुरनाथाय व्यापिने परमात्मने ॥ ६॥ चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः । जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ॥ ७॥ रामाय रावणान्ताय नमस्तुभ्यं महात्मने । अस्मान्नुद्धर गोविन्द पूतिगन्धान्नमोऽस्तु ते ॥ ८॥ व्यास उवाच- इति सङ्कीर्तिते विष्णौ नारकैर्भक्तिपूर्वकम् । तदा सा नारकी पीडा गता तेषां महात्मनाम् ॥ ९॥ कृष्णरूपधराः सर्वे दिव्यवस्त्रविभूषिताः । दिव्यगन्धानुलिप्ताङ्गाः दिव्याभरणभूषिताः ॥ १०॥ तानारोप्य विमानेषु दिव्येषु हरिपूरुषाः । तर्जयित्वा यमभटान् नीतास्ते केशवालयम् ॥ ११॥ नारकेषु च सर्वेषु नीतेषु हरिपूरुषैः । विष्णुलोकं यमो भूयो नमश्चक्रे तदा हरिम् ॥ १२॥ यन्नामकीर्तनाद्याताः नारका केशवालयम् । तन्नमामि सदा देवं नारसिंहमहं गुरुम् ॥ १३॥ तस्य वै नरसिंहस्य विष्णोरमिततेजसः । प्रणामं येऽपि कुर्वन्ति तेभ्योऽपीह नमोनमः ॥ १४॥ दृष्ट्वा प्रशान्तं नरकाग्निमुग्रं यन्त्रादि सर्वं विपरीतमत्र । पुनः स शिक्षार्थमथात्मदूतान् यमो हि वक्रं कृतवान्मनः स्वयम् ॥ १५॥ इति श्रीनरसिंहपुराणे यमगीतानाम स्तवनं सम्पूर्णमस्तु । Proofread by M K Barman
% Text title            : Yamagitastavanam
% File name             : yamagItAstavanam.itx
% itxtitle              : yamagItAstavanam
% engtitle              : yamagItAstavanam
% Category              : vishhnu, dashAvatAra, stava, giitaa, narasiMhapurANa, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa, narasiMhapurANa | adhyAya
% Indexextra            : (Scans 1, 2, padmapurANalist)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org