यमकृतं कृष्णनरायणस्तोत्रम्
निःश्वसन्तं च दीनं च स्वाधिकारनिरर्थकम् ।
यमराजाऽपि नीलाद्रौ श्रीहरिं प्रणिपत्य च ॥ ७०॥
तुष्टाव श्रीजगन्नाथं स्वाधिकारदृढस्थितौ ।
नमस्ते चैकतत्त्वाय द्वैतायाऽनन्तकाय च ॥ ७१॥
स्वप्रोतसर्वरूपाय धृतिपुष्टिकराय च ।
सर्वाभासाधिदेवाय नमस्ते सर्वयोनये ॥ ७२॥
विश्वासाय गुरवे साक्षिणे ते नमो नमः ।
कारुण्यसिन्धवे तुभ्यं परातीताय ते नमः ॥ ७३॥
जन्ममृत्युप्रहर्त्रे ते नमोऽस्तु दीनबन्धवे ।
मायाधिष्ठात्रात्मने ते पीतकौशेयवाससे ॥ ७४॥
मायाचक्रकर्तनाय चक्रिणे ते नमो नमः ।
दण्डदात्रेऽधिकर्त्रे ते परमेशाय वै नमः ॥ ७५॥
नीलमेघसुवपुषे नीलाद्रिवासिताय च ।
नमस्ते पुण्डरीकाक्षिशोभिताय गदाभृते ॥ ७६॥
श्रीवत्सकौस्तुभशोभाभासत्समूढवक्षसे ।
नीलवर्णं नीलशैलगुहावासं कृपालयम् ॥ ७७॥
आश्रितानां तु दुःखघ्नं प्रणमामि परात्परम् ।
यत्पादयोराश्रये संल्लुब्धा श्रीरनपायिनी ॥ ७८॥
वर्तते शाश्वती लक्ष्मीर्भक्तैश्वर्यप्रदायिनी ।
या प्रकृतिः पराधीना परेश तव वाञ्च्छया ॥ ७९॥
त्वामावृत्त्य विकासं सम्प्रयाति बन्धमुक्तये ।
भुक्तभोगाय चार्पयति निर्वाणतां त्वदिच्छया ॥ ८०॥
त्वमेव तु परब्रह्म ब्रह्मरूपेण वर्तसे ।
भूमरूपेण च व्यूहरूपेण वर्तसे तथा ॥ ८१॥
यमरूपेण च रुद्ररूपेण वर्तसे विभो ।
लक्ष्मीनारायण विष्णो कृष्णनारायणप्रभो ॥ ८२॥
काम्भरेयमहाराज कृपालो ते नमो मुहुः ।
प्रभानारायण पार्वतीशनारायण प्रभो ।
हंसनारायण मञ्जूनारायण नमोऽस्तु ते ॥ ८३॥
सगुणेश तव पत्नीं दुःखहर्त्रीं नमाम्यहम् ।
पुत्रचिन्तावारयित्रीं धारयित्रीं नमाम्यहम् ॥ ८४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ५८१-अध्यायान्तर्गतं
यमकृतं कृष्णनरायणस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ५८१/७२-८४॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 581/72-84..
Proofread by PSA Easwaran