युधिष्ठिरकृतं १ श्रीकृष्णस्तोत्रम्

युधिष्ठिरकृतं १ श्रीकृष्णस्तोत्रम्

न तेषां दुष्करं किञ्चित्त्रिषु लोकेषु विद्यते । सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ॥ ५॥ तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून् । यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः ॥ ६॥ पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा । ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव ॥ ७॥ न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः । त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव ॥ ८॥ त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः । त्रैलोक्यविजयं श्रीमान्प्राप्तवान् रणमूर्धनि ॥ ९॥ तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर । अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् ॥ १०॥ त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन । सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ॥ ११॥ त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम् । स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते ॥ १२॥ एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् । त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम ॥ १३॥ स्रष्टारं सर्वलोकानां परमात्मानमच्युतम् । ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् ॥ १४॥ अनादिनिधनं देवं लोककर्तारमव्ययम् । त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते ॥ १५॥ परं पुराणं पुरुषं पुराणानां परं च यत् । प्रपद्यतस्तं परमं परा भूतिर्विधीयते ॥ १६॥ योऽगात चतुरो वेदान्यश्च वेदेषु गीयते । तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् ॥ १७॥ धनञ्जयसखा यश्च धनञ्जयहितश्च यः । तं धनञ्जयगोप्तारं प्रपद्य सुखमेधते ॥ १८॥ इति महाभारते द्रोणपर्वणि १२४ अध्यायान्तर्गतं युधिष्ठिरकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् । महाभारत । द्रोणपर्व । अध्याय १२४/५-१८॥ mahAbhArata . droNaparva . adhyAya 124/5-18.. Proofread by PSA Easwaran
% Text title            : Yudhishthirakritam 1 Shri Krishna Stotram
% File name             : yudhiShThirakRRitaM1shrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (yudhiShThirakRitaM 1 mahAbhAratAntargatam na teShAM duShkaraM kinchittriShu lokeShu vidyate)
% engtitle              : yudhiShThirakRRitaM 1 shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, mahAbhArata, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | droNaparva | adhyAya 124/5-18||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : November 2, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org