युधिष्ठिरकृतं २ श्रीकृष्णस्तोत्रम्
तव कृष्ण प्रसादेन नयेन च बलेन च ।
बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च ॥ २॥
पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया ।
नमस्ते पुण्डरीकाक्ष पुनः पुनररिन्दम ॥ ३॥
त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम् ।
नामभिस्त्वां बहुविधैः स्तुवन्ति परमर्षयः ॥ ४॥
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव ।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥ ५॥
अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः ।
पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि ॥ ६॥
शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यसे ।
त्रिचक्षुः शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च ॥ ७॥
वराहोऽग्निर्बृहद्भानुर्वृषणस्तार्क्ष्यलक्षणः ।
अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः ॥ ८॥
वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर्गुहः ।
अच्युतश्च्यावनोऽरीणां सङ्कृतिर्विकृतिर्वृषः ॥ ९॥
कृतवर्त्मा त्वमेवाद्रिर्वृषगर्भो वृषाकपिः ।
सिन्धुक्षिदूर्मिस्त्रिककुत्त्रिधामा त्रिवृदच्युतः ॥ १०॥
संराड्विराट्स्वराट्चैव सुरराड्धर्मदो भवः ।
विभुर्भूरभिभूः कृष्णः कृष्णवर्त्मा त्वमेव च ॥ ११॥
स्विष्टकृद्भिषगावर्तः कपिलस्त्वं च वामनः ।
यज्ञो ध्रुवः पतङ्गश्च जयत्सेनस्त्वमुच्यसे ॥ १२॥
शिखण्डी नहुषो बभ्रुर्दिवस्पृक्त्वं पुनर्वसुः ।
सुबभ्रुरुक्षो रुक्मस्त्वं सुषेणो दुन्दुभिस्तथा ॥ १३॥
गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः ।
ऋभुर्विभुः सर्वसूक्ष्मस्त्वं सावित्रं च पठ्यसे ॥ १४॥
अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च ।
हिरण्यगर्भं त्वामाहुः स्वधा स्वाहा च केशव ॥ १५॥
योनिस्त्वमस्य प्रलयश्च कृष्ण त्वमेवेदं सृजसि विश्वमग्रे ।
विश्वं चेदं त्वद्वशे विश्वयोने नमोऽस्तु ते शार्ङ्गचक्रासिपाणे ॥ १६॥
इति महाभारते शान्तिपर्वणि ४३ अध्यायान्तर्गतं
युधिष्ठिरकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
महाभारत । शान्तिपर्व । अध्याय ४३/३-१६॥
mahAbhArata . shAntiparva . adhyAya 43/3-16..
Proofread by PSA Easwaran