सुस्वागतम् आगच्छ मम हैमाचलम्
सुस्वागतम्...सुस्वागतम्...
आगच्छ मम हैमाचलम्
प्रियजन ! आगच्छ मम हैमाचलम्
देवभूमिरत्र तुड्।गाः
हैमाच्छादित-शैलशृड्।गाः
सुरतरुवरयुक्तम्
आगच्छ मम हैमाचलम्
प्रियजन ! आगच्छ मम हैमाचलम्
सुरभितमरुतः निर्मलसरिताः
रसमयसेवामृतफलभरिताः
वृक्षाः सघनास्तम
आगच्छ मम हैमाचलम्
प्रियजन ! आगच्छ मम हैमाचलम्
अत्र शिमला चम्बा कसौली
नारकण्डा मण्डी मनाली
सोलनं नाहनम्
आगच्छ मम हैमाचलम्
प्रियजन ! आगच्छ मम हैमाचलम्
अत्र-शतुद्रु-अरिकरी-धाराः
कालिन्दी-रावी-जलभाराः
व्यास-विमल-सलिलम्
आगच्छ मम हैमाचलम्
प्रियजन ! आगच्छ मम हैमाचलम्
अत्र ज्वाला चिन्तापुरणी
चामुण्डा भीमा-संहरणी
रेणुकाख्यस्थलम्
आगच्छ मम हैमाचलम्
प्रियजन ! आगच्छ मम हैमाचलम्
अत्र महेश्वरः मानणेश्वरः
श्रीखण्डेश्वरः शिर्गुलेश्वरः
गौरी-शम्भुमयम्
आगच्छ मम हैमाचलम्
प्रियजन ! आगच्छ मम हैमाचलम्
गीतकार - आचार्य सुरेश शर्मा भारद्वाज
गोरक्षनाथ राजकीय संस्कृत महाविद्यालय, नाहन