आकाशनीलिमा
आकाशं छत्रसङ्काशं विस्तृतं विमलं तथा
जलदैर्लघुभिर्युक्तं नीलवर्णेन लोपितम् ।
सूर्यदेवस्य यात्रायै येनेदमूर्द्वमास्तृतम्
विपुलं गोलरूपं तत् सुन्दरं नीलकम्बलम् ।
इनदेवो दिवा नित्यं दीपकोटिसमप्रभः
स्खालित्येन विना पादौ मन्दं सञ्चरते मुदा ।
भूयांसो नीलवर्णस्तु केनेदं सुविलेपितम्
भगवतः सर्वशक्तस्य कर्मकौशलमेव हि ।
प्रभाते रक्तवर्णेन मध्याह्ने नीलया तथा
सायाह्ने कपिशवर्णेन केनेदं लेपितं क्षणम्?
नीलाकाशमार्गेण गन्तुमिच्छास्मि मे चिरम्
साध्यं वा यदि वा नास्तु दृश्यमेतत् हि सौख्यदम् ॥
कविता रचना - विजयन् वि. पट्टाम्बी