आकाशनीलिमा २
पश्यतु मित्रक आकाशं
छत्रसमानमुपरितले ।
पुष्पैराच्छादितं किमु छत्रं
मध्ये चन्द्रः शीतकरः ॥
जलदाः श्यामा जलभरिता
दुन्दुभिनादं कुर्वन्ति ।
गगने कनकारुणवर्णः
तडितः घोरं गर्जन्ति ॥
भ्रमरा पुष्पेष्वतिलीना
मधुरं मधुरं गुञ्जन्ति ।
कलकलनिनदैः खगमाला
मुखरति गगनं सर्वत्र ।
पक्षं द्वयमिह लब्धं चेत्
इष्टविनोदं करवाम ॥
कविता रचना - विजयन् वि. पट्टाम्बी