आशीर्वादात्मकं पत्रम्
(अनुष्टुप्छन्दः)
विलसन्त्वाशिषो मे त्वां सदा रक्षन्तु विघ्नतः ।
श्रीविघ्नेशप्रसादेन पूर्णत्वं शीघ्रमानुहि ॥ १॥
भविष्यति ज्ञानसत्रं गन्तव्यं पत्रतः श्रुतम् ।
स्वस्त्यस्तु ते सुखं गच्छ गमनेच्छैव ते यदि ॥ २॥
तुभ्यं यद्रोचते सत्यं तत्कुरुष्व सदानघ ।
प्रतिबन्धो न मे कश्चित्परमार्थैकसाधने ॥ ३॥
नाज्ञानवशतः कश्चिदविचारो प्रभवेत्क्वचित् ।
सदा समाहितो भूत्वा चिन्तयात्मानमात्मनि ॥ ४॥
प्राप्यत्वात् सुखरूपत्वादाधारत्पात्स्वरूपतः ।
ब्रह्मरूपं चिनुष्वात्र कृतकृत्यत्वमाप्नुहि ॥ ५॥
श्रवणं तु परं पूर्वं मननं तदनन्तरम् ।
निधिध्यासनमेवाहुः पूर्णबोधस्यकारणम् ॥ ६॥
आत्मनोऽन्यतया भान्तं चराचरमिदं जगत् ।
आत्ममात्रतया बुद्ध्वा सुखमस्मीति भावय ॥ ७॥
विलाप्य विकृतिं कृत्स्नां सम्भवव्यत्ययक्रमात् ।
परिशिष्टनिजानन्दं चिन्मात्रमिति चिन्तय ॥ ८॥
राराजतां मोक्षधर्मो निजानन्दः प्रवर्तताम् ।
अकुण्ठितज्ञानसत्रं सर्वान् सन्तर्पयत्विह ॥ ९॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं उपदेशात्मकं पत्रं सम्पूर्णम् ।
सज्जनगिरि, ज्येष्ठ शुद्ध ५, संवत्सरः - ९९६९
Proofread by Manish Gavkar