आशीर्वादात्मकं पत्रम्
(अनुष्टुप्छन्दः)
सौम्य ते हार्दिकी निष्ठा प्रीणाति बहु हृन्मम ।
मदर्थं यत्त्वया क्लेशाः सोढास्ते मोक्षसाधकाः ॥ १॥
आनन्दस्यैकमात्रत्वात्प्राप्यत्वाच्च तथा पुनः ।
आनन्दब्रह्ममात्रं हि जीवनं जगतः स्फुटम् ॥ २॥
कारणाभिन्नरूपेण कार्यं कारणमेव हि ।
कार्यकारणमिथ्या च सर्वं ब्रह्मेति निश्चयात् ॥ ३॥
स्वमूलरूपतो विश्वमानन्दब्रह्ममात्रकम् ।
मूलस्वरूपतो भ्रान्तिर्वीक्षमाणेऽपि भाति नो ॥ ४॥
वेदनं ज्ञानमात्रं हि ज्ञानमानन्दमात्रकम् ।
चिदानन्दस्वरूपेण सुविचार्य विराजताम् ॥ ५॥
आनन्दघनरूपोऽसि संविन्मात्रतया स्थितः ।
निर्विकल्पः प्रसन्नात्मा निरालम्बो निराकृतिः ॥ ६॥
बुद्ध्वा दिव्यं स्वरूपं ते आनन्दघनमात्रकम् ।
नित्यं शान्तं परं ब्रह्म गच्छ तिष्ठ यथासुखम् ॥ ७॥
यथैव रोचते तुभ्यं कुरु तत् प्रियदर्शन ।
ममाशीस्ते सदा भूयात् भद्रं कवचमुत्तमम् ॥ ८॥
देहारोग्यमिदानीं मे सुष्ठु यत्नाच्चतेऽनघ ।
न क्वापि शङ्का नो चिन्ता भद्रं ते प्रियसत्तम ॥ ९॥
श्रीक्षेत्र सज्जनगिरि, संवत्सरः - १९४९
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं उपदेशात्मकं पत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar