आशंसा वचनम्
संस्कृताध्ययने नित्यं
संस्कृतस्य प्रचारणे ।
गुरुः नारायणो भाति
यथा सूर्यो नभस्थले ॥
विनयधनसम्पन्नः
विमलकुलसम्भवः ।
आजीवं संस्कृताय स
नैजं सर्वं समार्पयत् ॥
व्याकरणेषु निष्णातः
काव्यमर्मज्ञवाक्पटुः ।
प्रवेशकस्य व्याख्याता
निपुणश्च प्रभाषणे ॥
यस्मात्तु विनयनं लेब्धं
केन्द्रात् तस्माच्च माचिरम् ।
पारितोषिकसम्प्राप्तिः
कस्मिन्न क्रियते सुखम् ॥
असुलभे मुहूर्तेऽस्मिन्
सुहृदस्तस्य सज्जनाः ।
परभृत समाः जाताः
वसन्ते मघुना भृशम् ॥
आयुशरोग्यसम्पन्नः
पुत्रपौत्रादिसंयुतः ।
सभार्यः स्नेहसम्पन्नः
वसेच्च शरदां शतम् ॥
-- विजयन् वि. पट्टाम्बि