अभिमानविचारोयम्
अभिमानविचारोऽयं मम यदिदं हिन्दुराष्ट्रम् ।
ऋषिमुनिकविभिः पाश्चात्यैरपि
नुतं सर्वश्रेष्ठम् इदं हिन्दुराष्ट्रम् ॥
माता भूमिः पुत्रोऽहं मातुः कार्यासक्तोऽहम् ।
त्यागात्तापात् तनुजातानां नश्यति नैव सुखम् ॥
यस्यां गङ्गा अवतरति देवो हि जनानुद्धरति
यस्यां जातः सञ्चितपुण्यैः लब्धे स्वर्गे सञ्चरति
देवानामपि जननं यत्र विद्यतेऽभीष्टम् ॥
आर्यं विश्वं करणीयं मुनिभिर्दृष्टः स्वप्नोऽयं
तत्कुलजातैरस्माभिः सर्वमिदं हृदि धरणीयं
येन भवेदखिलेऽपि प्रपञ्चे पुनः सर्वमान्यम् ॥
- डाॅ नारायणभट्टः
Encoded and proofread by Shubha shubhazero at gmail.com