अद्य जन्मदिने ते
लल्ललला लला लला लला लालला
शुभचिन्तनमस्तु अद्य जन्मदिने ते
जन्मदिने नृत्यामो गायाम ते ॥
दिने दिने वर्धस्व आप्नुहि यशः
तव मार्गे अस्तु सदा धवलप्रकाशः ।
आशीर्युक्तः हस्तः मस्तके ते ॥
सर्वेषां आशीरद्य सुखं प्राप्नुहि
सद्गुणसम्पद् विलसतु सर्वदा त्वयि
अभिनन्दनमस्तु अद्य जन्मदिने ते ॥
आयुष्मन् शतं जीव चिरञ्जीव रे
लोकमित्रमिति कीर्तिस्तव सदास्तु रे
निरामयं निर्व्याजं हसितमस्तु ते ॥
- (सं) लक्ष्मीकान्त जाम्बोरका