अखिलाण्डमण्डलम्
अखिलाण्डमण्डलं सुविधाय सज्जं
आनन्ददीपं च तस्मिन् प्रज्वाल्य ।
परमाणुसारेऽपि स्फुरसि च नित्यं
परमप्रकाश भोः शरणं त्वमेव ॥ १॥
सुरगोलक्षाणि संयोज्य तेषां
अविकल्पसौहृदबन्धं विधाय ।
आधारमेतेषां परिकल्प्य सर्वं
विजयसे सत्य भोः शरणं त्वमेव ॥ २॥
दुरितसङ्कुलितेऽस्मिन् भुवने त्वदीय
परिपूर्णतेजःप्रभावोऽस्तु नितराम् ।
एकास्तु जातिस्तथा धर्म ईशः
परिशुद्धवेदान्तः सफलोऽस्तु नित्यम् ॥ ३॥
अखिलाधिनायक! पुरतो वयं ते
प्रणमाम सादरं शरणाय नित्यम् ।
समरादितृष्णाः सकलाश्च त्यक्त्वा
समताञ्च शान्तिञ्च क्षेमञ्च देहि ॥ ४॥
जनता च जनता च हस्तं गृहीत्वा
तज्जातसौभाग्यगीतमुद्गीर्य ।
नरलोऽस्यानन्दमहिमानं प्राप्य
विजयतां तव दिव्यनामानि स्तुत्वा ॥ ५॥
Original Malayalam prayer song
Akhilanda Mandalam aniyichorukki
composed by Pandalam K.P. Raman Pilla
Translated by Muthalapuram Mohandas