अमृतमेव जलम्
मृदुलमथ च निर्मलं जलं सादापि शीतलं
भवति जीवनञ्च सर्वप्राणिनां महीतले ।
अक्षयं जलं सादापि पक्षपातरहितमस्ति
लक्ष्यमस्य समतलं सदा तथा च तिष्ठाति ।
सलिलममृतसन्निभं भवति सर्वतोमुखं
सुखदमपि च पुष्करं सकलजीवरक्षकम् ।
विपुलवैभवान्वितं अतुलगुणगणावहं
सततमस्य रक्षणं करोतु जीवरक्षणम् ॥
--- मुत्तलपुरं मोहनदासः