अमरभारतीस्तोत्रम्
ललितवाग्युता काव्यभूषिता सरसकोमला तत्त्वबोधिका ।
जयतु सर्वदा वेदभूषिता अमरभारती भारते चिरम् ॥ १॥
कविकुलेश्वराराधिता तथा यतिपतीश्वरेनार्चिता सदा ।
लसतु भूतले शास्त्रसंयुता चिरपुरातनी देवभारती ॥ २॥
विविधनाटकैर्गीतिभिर्युता सुकृतवाहिनी वाङ्विमोहिनी ।
जयतु सर्वदा देववन्दिता अमरभारती भूतले चिरम् ॥ ३॥
सकलमोहनं संस्कृतस्वनं हितविधायकं नीतिदायकम् ।
जयतु सर्वदा कर्मशर्मदं शरणदायकं भूतले चिरम् ॥ ४॥
मम तु भाषणं संस्कृतं पदं मम तु पूजनं संस्कृतं सदा ।
मम तु लेखनं दर्शनं तथा मम हि जीवनं संस्कृताय वै ॥ ५॥
जनपदे वने पत्तने गृहे लसतु संस्कृतदीपिका सदा ।
अमरभारतीज्ञानदीपनात् भवतु संस्कृताः मानवाः चिरम् ॥ ६॥
(समर्पणम्)
अयि मनोहरे संस्कृताम्बिके तव पदाम्बुजमर्चयाम्यहम् ।
तव कृपावशात्काव्यकर्मणि भवतु मे शिवं शं च सन्ततम् ॥
-- शङ्करनारायणः, कोटकरा