अमरभरतभुवनजाः
अमरभरतभुवनजाः महितचरितशोभनाः
शयनमात्मनो विहाय कुरुत सपदि जागराम् ।
शुभदजीवनं विधातुमवितुमखिलमानवान्
सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ॥ १॥
क्लेशनिचयवारणाय साधनां प्रकुर्महे
कष्टदुरित-तारणाय योजनां विदध्महे ।
लक्ष्यसिद्धिमुज्वालां विधातुमात्मनो वयं
सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ॥ २॥
युवजनान्तरङ्गके प्रकृत्य धर्मजागरां
अन्धकारमग्नलोकमुद्धराम साम्प्रतम् ।
लक्ष्यसिद्धिमुज्वालां विधातुमात्मनो वयं
सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ॥ ३॥
अतुलसङ्घवैभवेन निखिलसोदरानिमान्
पावयाम संस्कृतापगामृताम्भसा वयम् ।
पूतमानसैः समं ततो विदध्महे द्रुतं
संस्कृतं यशोयुतं समर्थमार्षभारतम् ॥ ४॥
सर्वथा समर्थ-संस्कृतार्षदेशसृष्टये
सर्वसद्गुणाभिपूर्णविश्वपौरवृद्धये ।
शाश्वतैक्यसाधनाय सामरस्यसिद्धये
सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ॥ ५॥
इति रणजितविरचितं अमरभरतभुवनजाः गीतं सम्पूर्णम् ।