अरविन्दो विजयते
(उपजातिवृत्तम्)
ज्ञानप्रभा-भासित-मानसं तं
सद्धर्म-धीरैयमसक्त-चित्तम् ।
अध्यात्म-पीयूष-हृताऽघवृन्दं
ज्ञानारविन्दं गुणिनं नतोऽहम् ॥
क्रान्ते सृतिं यः समुपास्य पूर्वं
कारागृहे वासमुरीचकार ।
सन्यस्य सर्वं विभवं विरक्तो
यो योगसाघात् तमहं नमामि ॥
पाण्डोश्चरीये सुखदाश्रमे यः
तपोऽन्वतिष्ठत् मुनिवृन्द-वन्द्य ।
स्वाध्यात्म-विज्ञान-परम्परार्थं
यः स्तूयते विश्वमुनिप्रवीरैः ॥
सदा जगद्ध्वान्त निवारणार्थं
घोरं तपो यः तमुपास्त लोके ।
यज्ज्ञानज्योतिर्ज्वलन्तीह दिव्यं
गुणारविन्दं तमहं प्रपद्ये ॥
यद्दर्शनं ज्ञानदृशामुपास्यं
मर्त्यं ह्यमर्त्यं विदधाति सद्य ।
भवाब्धिपारोत्तरणाय सेतु
घोषारविन्दं व्रतिनं श्रयेऽहम् ॥
Proofread by Mandar Mali