अवधानस्तोत्रम् वन्दनास्तवम्
ॐ नमो लोकनाथाय ।
आराधितोऽसि भुजगासुरलोकसङ्घै-
र्गन्धर्वयक्षमुनिभिः परिवन्दिताय ।
द्वात्रिंशदादिवरलक्षणभूषिताय
नित्यं नमामि शिरसा करुणामयाय ॥ १॥
बालार्ककोटिसमतेजकलेवराय
आलोकिते सुगतशेखरधारिताय ।
शुभ्रांशुमौलितिलकाय जटधराय
नित्यं नमामि शिरसा करुणामयाय ॥ २॥
अम्भोजपाणिकमलासनसंस्थिताय
यज्ञोपवीतफणिराजसुमण्डिताय ।
रत्नादिहारकनकोज्ज्वलभूषिताय
नित्यं नमामि शिरसा करुणामयाय ॥ ३॥
उत्पादभङ्गभवसागरतारकाय
दुर्ग्राहदुर्गतिभुवां परिमोचकाय ।
रागादिदोषपरिमुक्त सुनिर्मलाय
नित्यं नमामि शिरसा करुणामयाय ॥ ४॥
मैत्र्यादिभिश्चतुरब्रह्मविहारणाय
धारामृतैः सकलसत्त्वसुपोषणाय ।
मोहान्धकारकृतदोषविदारणाय
नित्यं नमामि शिरसा करुणामयाय ॥ ५॥
दैत्येन्द्रवंशवलितारणमोक्षदाय
सत्त्वोपकारत्वरितकृतनिश्चयाय ।
सर्वज्ञज्ञानपरिपूरितदेशनाय
नित्यं नमामि शिरसा करुणामयाय ॥ ६॥
अष्टादशनरकमार्गविशोधनाय
अज्ञानगाढतिमिरपरिध्वंसनाय ।
ज्ञानैकदृष्टिव्यवलोकितमोक्षदाय
नित्यं नमामि शिरसा करुणामयाय ॥ ७॥
त्वं लोकनाथ भुवनेश्वर सुप्रदाय
दारिद्रयदुःखमयपञ्जरदारणाय ।
त्वत्पादपङ्कजयुगप्रतिवन्दिताय
नित्यं नमामि शिरसा करुणामयाय ॥ ८॥
मार्तण्डमण्डलरुचिस्तथतास्वभावं
त्वां नौम्यहः सुफलदः विमलप्रभावम् ।
चिन्तामणिं सुसदृशं त्वतिदुर्भगोऽहं
नित्यं नमामि शिरसा करुणामयाय ॥ ९॥
यद्भक्तितो दशनखाञ्जलिसोत्तमाङ्ग-
मष्टाङ्गकैः प्रणमितं तव पादपद्म ।
दुःखार्णवे पतितमुद्धर मां कृपालो
नित्यं नमामि शिरसा करुणामयाय ॥ १०॥
सप्ताष्टभूतगतमाधवशुक्लपक्षे
तारापुनर्वसु सहे भृगुसूनुवारे ।
श्रीक्रौञ्चदारणतिथौ च स्तुतिं करोमि
मे देहि वाञ्छितफलं भुवनैकनाथ ॥ ११॥
ये पठन्ति महापुण्यं पवित्रं पापनाशनम् ।
सर्वकामार्थसिद्धिं च गमिष्यन्ति सुखावतीम् ॥ १२॥
इति श्रीमदार्यावलोकितेश्वरभट्टारकस्यावधानस्तोत्रं
अथवा वन्दनास्तवं सम्पूर्णम् ॥