अवियोगव्रतपूजाविधिः

अवियोगव्रतपूजाविधिः

(देवीदेवानां नामावलिः) (विष्णुः) सहस्रमूर्द्धा पुरुषः पद्मनाभो जनार्दनः । व्यासोऽपि कपिलाचार्यो भगवान्पुरुषोत्तमः ॥ ८॥ नारायणो मधुलिहो विष्णुर्दामोहरो हरिः । महावराहो गोविन्दः केशवो गरुडध्वजः ॥ ९॥ श्रीधरः पुण्डरीकाक्षो विश्वरूपस्त्रिविक्रमः । उपेन्द्रो वामनो रामो वैकुण्ठो माधवो ध्रुवः ॥ १०॥ वासुदेवो हृषीकेशः कृष्णः सकर्षणोऽच्युतः । अनिरुद्धो महायोगी प्रद्युम्नो नन्द एव च ॥ ११॥ (शिवः) नित्यं स मे शुभः प्रीतः सश्रीकः केशशूलिनः । उमापतिर्नीलकण्ठः स्थाणुः शम्भुर्भगाक्षिहा ॥ १२॥ ईशानो भैरवः शूली त्र्यम्बकस्त्रिपुरान्तकः । कपर्दीशो महालिङ्गी महाकालो वृषध्वजः ॥ १३॥ शिवः शर्वो महादेवो रुद्रो भूतमहेश्वरः । ममास्तु सह पार्वत्या शङ्करः शङ्करश्चिरम् ॥ १४॥ (ब्रह्मा) ब्रह्मा शम्भुः प्रभुः स्रष्टा पुष्करी प्रपितामहः । हिरण्यगर्भो वेदज्ञः परमेष्ठी प्रजापतिः ॥ १५॥ चतुर्मुखः सृष्टिकर्ता स्वयम्भूः कमलासनः । विरञ्चिः पद्मयोनिश्च ममास्तु वरदः सदा ॥ १६॥ (सूर्यः) आदित्यो भास्करो भानुः सूर्योऽर्कः सविता रविः । मार्तण्डो मण्डलज्येतिरग्निरश्मिर्जनेश्वरः ॥ १७॥ प्रभाकरः सप्तसप्तिस्तरणिः सरणिः खगः । दिवाकरो दिनकरः सहस्रांशुर्मरीचिमान् ॥ १८॥ पद्मप्रबोधनः पूषा किरणी मेरुभूषणः । निकुम्भो वर्णभो देवः सुप्रीतोऽस्तु सदा मम ॥ १९॥ (लक्ष्मी) लक्ष्मीः श्रीः सम्पदा पद्मा मा विभूतिर्हरिप्रिया । पार्वती ललिता गौरी उमा शङ्करवल्लभा ॥ २०॥ गायत्री प्रकृतिः सृष्टिः सावित्री वेधसो मता । राज्ञी भानुमती संज्ञा नित्यभा भास्करप्रिया ॥ २१॥ इति भविष्यपुराणे उत्तरपर्वणि अष्टषष्टितमाध्यायान्तर्गतं अवियोगव्रतपूजाविधिः (देवीदेवानां नामावलिः)समाप्तः । भविष्यपुराण । उत्तरभाग । अध्याय ६८/८-२१॥ bhaviShyapurANa . uttarabhAga . adhyAya 68/8-21.. Proofread by PSA Easwaran
% Text title            : Aviyogavratapujavidhi
% File name             : aviyogavratapUjAvidhiH.itx
% itxtitle              : aviyogavratapUjAvidhiH athavA devIdevAnAM nAmAvaliH (bhaviShyapurANAntargatam)
% engtitle              : aviyogavratapUjAvidhiH
% Category              : misc, bhaviShyapurANa, pUjA, nAMAvalI
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhaviShyapurANa | uttarabhAga | adhyAya 68/8-21||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Hindi)
% Latest update         : October 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org