संस्कृते! अयि मम हृदयनिकुञ्जवासिनि
अयि मम हृदयनिकुञ्जवासिनि! जीवनसङ्गिनि! संस्कृते!
अयि मम अयि मम प्रियतमे! वनिते! त्वमसि जीवनं मे ।
नलिननवलनयनासि
मधुमयमृदुवदनासि
पुण्यवती सहधर्मिणी
प्राणपथि सञ्चारिणी
अयि मम हृदयनिकुञ्जवासिनि! जीवनसङ्गिनि! संस्कृते!
अयि मम अयि मम प्रियतमे! वनिते! त्वमसि जीवनं मे ।
मुदितमना मतिवन्ती
कान्तियुता कुलवन्ती
स्मेरमुखी मितभाषिणी
अतिशय-प्रेमानुरागिणी
अयि मम हृदयनिकुञ्जवासिनि! जीवनसङ्गिनि! संस्कृते!
अयि मम अयि मम प्रियतमे! वनिते! त्वमसि जीवनं मे ।
वंशवधूः मम वनिता
ममसुतनन्दिनीजनिता
मन्दस्मिता मृदुस्वनिता
प्रेमवती निशि सविता
अयि मम हृदयनिकुञ्जवासिनि! जीवनसङ्गिनि! संस्कृते!
अयि मम अयि मम प्रियतमे! वनिते! त्वमसि जीवनं मे ।
हृदयकुसुममृदुकलिका
निश्छलहृत्तरुवल्लिका
गृहकर्मणि त्वतिकुशला
शम्भुनुता निश्चपला
अयि मम हृदयनिकुञ्जवासिनि! जीवनसङ्गिनि! संस्कृते!
अयि मम अयि मम प्रियतमे! वनिते! त्वमसि जीवनं मे ।
गीतकार - आचार्य सुरेश शर्मा भारद्वाज
गोरक्षनाथ राजकीय संस्कृत महाविद्यालय, नाहन