बालरुचिः
जननी कथयति पठ पठ पुत्र!
जनकः कथयति पठ पठ पुत्र!
भगिनी कथयति पठ पठ भ्रातः!
कोऽपि न कथयति खेल खेल ॥ १॥
खेलं खेलितुमहमिच्छामि
प्रातः सायं, दिवसे रात्रौ
परं कदापि न कोऽपि ब्रूते
कुरु खेलं सततं बाल त्वम् ॥ २॥
ईश्वरपूजा गुरुजनसेवा
मातुर्वचनानुगमनमादि ।
कार्यं बहु मम, दिने समस्ते
बहुधा श्रान्तो भवामि तेन ॥ ३॥
भारतवन्दनमहमिह कुर्वे
यतोहि देशो मम वन्द्योऽयम् ।
सरस्वतीमपि सततं वन्दे
यतोहि सा मम विद्यादेवी ॥ ४॥
मम रुचिरधिका खेलितुमस्ति
कठिनं पठितुं न हि शक्नोमि ।
कथयतु मम मातरमागत्य
प्रेषय खेलितुमेतं बालम् ॥ ५॥
रचयिता - हेमचन्द्र बेलवालह् ``हिमांशुः''
Encoded and proofread by Mayuresh Marathe