बालशुनक किं करोति रे
बालशुनक बालशुनक किं करोति रे?
चोरस्य आगमने किं करोति रे?
भौ भौ भषामि चोर आगते
तस्य पादं गृह्णामि ॥ १॥
मार्जार मार्जार किं करोति रे?
मूषकस्य आगमने किं करोति रे?
तूष्णीं तिष्ठामि शब्दं न करोमि
मूषकं खादामि म्याँव् म्याँव् म्याँव् ॥ २॥
चिक्रोड चिक्रोड किं करोति रे?
फलस्य दर्शने किं करोति रे?
शीघ्रं धावामि सर्वं खादामि
उदरं पूरयितुं चिल् चिल् चिल् ॥ ३॥
कृष्णकाक कृष्णकाक किं करोति रे?
मालिन्यदर्शने किं करोति रे?
सूक्ष्मं पश्यामि सर्व खादामि
काहलं घोषयामि का का का ॥ ४॥
बालसूर्य बालसूर्य किं करोति रे?
सर्वं दृष्ट्वा किं करोति रे?
किरणस्य स्पर्शनेन तोषयामि भोः
मोदेन हसामि हा हा हा ॥ ५॥