शूद्रमुनिः बलरामदासः
लेखकः - नन्दप्रदीप्तकुमारः
मध्ययुगीय ओडिआ साहित्यस्य प्रख्यात साहित्यिकः पञ्चसखिषु ज्येष्ठो बलरामदासः अन्यतमः विलक्षणप्रतिभासंपन्नश्च बभूव । असौ महात्मा न केवलं ज्ञानिभक्तेषु सम्मानित अपितु महात्मना चैतन्येनापि अभिनन्दितः इति चैतन्यभागवते चैतन्यचरितामृते च प्रामाणिक-विषयः । श्रीजगन्नाथस्य अनन्यभक्तेषु बलरामः श्रेष्ठतमः ज्ञानीनामग्रगण्य आसीत् ।
यद्यपि अस्य महानुभावस्य जन्मविषये वंशानुचरित-विषये च किमपि विशेषतथ्यं न समुपलभ्यते तथापि असौ महापुरुषः १४७२ १४८४ वा ख्रिष्टाब्द-मध्ये (कोणार्क) गोप अन्तर्गत ``एरबंग'' नामके स्थाने एकस्मिन् शुद्रपरिवारे उत्कलराज्ये जनिमलभत । तत्र अद्यापि तस्य स्मृतयः मिलन्ति । यथा बलरामस्य मन्दिरं विद्यते । एरबंगस्य अनतिदूरे ``बेगुनिआ'' इति स्थाने तस्य समाधिपीठो वर्तते । कविः वैष्णव आसीत् मात्र न सन्न्यासी, वस्तुतः आदर्शो गृही एव । जगमोहन रामायणस्य अन्तिमे काण्डे कविना प्रोक्तम्-
``भावग्राही प्रभु मोते दया कले ।
हृदयरे वसि मोते रामायणे कहिले ॥
से प्रभु कवित्व अटै एथिर ।
लोभे मोहर नाम भणाइलि ग्रन्थर ॥
पण्डित जन शुणि न धर मो दोष ।
समुद्र पंहरिबाकु कलंइ साहस ॥
नारायेण प्रसादे भवसिन्धु तरि ।
एहा जाणिण शरधा होइला मोहोरि ॥
जन्मेण शूद्र मुंहि अलप वयेस ।
ग्रन्थ करिवा काले वयस वतिश ॥
दारा सुत धन सुख भोग शिरी ।
अरोगी दातापण देइछन्ति हरि ॥
ए मर्त्त्यलोके मुं जगन्नाथ सेविवि ।
इछा होइले पुण वैकुण्ठकु यिवि ॥ '' इति । ''
ईश्वरदासस्य चैतन्यभागवते सः याजपुर प्रदेशे चन्द्रपुरे अजायत इति लिखितमस्ति । किन्तु दार्ढ्यताभक्ति रसामृत-पुस्तके सः सपरिवारं पुर्यां अवसत् इति ज्ञायते । अस्य पिता सोमनाथ महापात्रः माता च यमुनादेवी आस्ताम् । तस्य पिता प्रतापरुद्र देवस्य कर्मचारी आसीत् । अन्ते सोऽपि प्रतापरुद्र देवस्य राजभवने राजसेवां कृतवान् । चैतन्यदेवस्य सम्मेलनेन तेन राजसेवां विहाय वैष्णवधर्मं गृहीतवान् । एकदा सः जगन्नाथमन्दिरस्थित मुक्तिमण्डपसभायां वेदान्तशास्त्रे पण्डितगोष्ठीषु भागं गृहीतवान् । किन्तु तदानीन्तन पण्डिताः तं शूद्र इति मन्यमानाः अनादरं कृतवन्तः । अत्यधिक भावप्रवणता सकाशात् केचन तं मत्त बलराम इति कथयन्ति । तत्प्रोक्त भगवद्गीतायां तेन स्वपरिचयः इदृशः प्रदत्तः-
महापात्र सोमनाथ तनये ।
बलरामदास गीतारे कहे ॥ अपि च रामायण्स्य आदिकाण्डे तेन भणितम् ।
``सोमनाथ महापात्र कोले होइलि सम्भूत ।
एहुं पिता मोर विष्णुरे भकत ॥
तेणु जगन्नाथ मोते दया कले ।
रामायण ग्रन्थ मो मुखे वखाणिले ॥
महामन्त्रीवर सोमनाथ महापात्र ।
बलराम दास मुं ये ताहांकर पुत्र ॥ '' इति ।
बलरामदास एकाधारेण कविः साधकः भक्तश्च । प्रत्येकक्षेत्रे स अनन्यगुणसंपन्न आसीत् । भक्तिसाहित्यपरंपरासु ज्ञान-योग-भक्तीनामेकीकरणं तस्य अनवद्य-कृतिसु अन्यतमम् । उत्कलीय वैष्णव धर्मस्य पञ्चसाधकाः ``पञ्चसखा'' इति उत्कलभाषया परिचिताः सन्ति । बलराम-जगन्नाथ-अच्युतानन्द- यशोवन्त-अनन्तदासाः पञ्चसखायः भवन्ति । अच्युतानन्दस्य ``शून्यसंहिता'' यां यशोवन्तस्य ``चौराशी-आज्ञा'' यां च पञ्चसखीनां सम्यक् सूचना मिलति । किन्तु चैतन्य चरितामृते चैतन्य भागवते च एतेषां विषये न किमपि तथ्यं समुपलभ्यते । दिवाकरदासस्य जगन्नाथ चरितामृते बलरामदास विषये लिखितमास्ते । १५/०९/१५१० ख्रीष्टाब्दे चैतन्येन सह बलरामस्य संयोगो विहितः । चैतन्यदेवः बलरामस्य प्रतिभया विमुग्धोऽभूदिति कतिपयेषु ग्रन्थेषु उपलभ्यते । कथ्यते बलरामो वेश्यासक्त आसीत् । यमुनानाम्नी कामपि वेश्यालयं सः प्रत्यहं गच्छति स्म । एकदा रथयात्राकाले सहसा वेश्यागृहादागत्य सः रथमुपरि आगतवान् । सेवकाः बलरामं वारितवन्तः । तदा बलरामः समुद्रतीरं गत्वा तत्र सिकताभिः रथं निर्माय रथयात्रां कृतवान् । अत्र बडदाण्डे रथः न चलितः । पश्चात् जगन्नाथस्य स्वप्नादेशेन राजा बलरामं क्षमां याचित्वा ससम्मानं तं पुनः रथं प्रति आनीतवान् । वस्तुतः यमुना न वेश्याऽऽसीत् । जगन्नाथस्य परमा साधिका आसीत् । जगन्नाथस्य निर्देशेन हि बलरामः प्रत्यहं यमुनागृहं गच्छ्ति स्म ।
बलरामदासः सिद्धसाधकस्थथा प्रख्यातो हठयोगी आसीत् । पिण्ड-ब्रह्माण्डतत्त्वेषु तस्य साधना बलीयसी आसीत् । प्रबुद्ध-बलरामस्य जगन्नाथे आसीत् अखण्ड विश्वासः । तन्मतानुसारं जगन्नाथः स्वयं वैकुण्ठवासी । पुरी एव नित्यधाम । कायासाधनया हि मोक्षप्राप्तिः चरमलक्ष्यम् । एतद् बलरामदासस्य मुख्य-दर्शनम् । ज्ञान-योग-भक्तीनां समीकरणार्थं हि बलरामस्य प्रयासोऽत्र सिद्धः । ।
बलरामदास आसीत् जातिस्मरः । सारलादासः गोरक्षनाथ इव तत्पूर्वजन्मवृतान्तः तेन बहुषु ग्रन्थेषु समुल्लिखितः । तथाहि रामायणस्य लंकाकाण्डे-
``मुं बलरामदास रामायण अबतारे थिलि ।
दिहुडि धरिण मु समस्त देखिलि ॥
मते आज्ञा देले मर्त्त्य पुरकु यिबु ।
कलियुगे शूद्रमुनि होइण जनमिबु ॥
जन्महुं वर्णकथा सुमरिबु तुहि ।
श्रीजगन्नाथ प्रभु ये मोहर गोसांइ'' ॥ इति । यदि वा बलरामः शूद्र आसीत् किन्तु न अधमः नापि पतितः नापि अज्ञानी एव । कवेः विनम्रता हि तस्य स्वभावं प्रमाणयति । तदुक्तिः अयोध्या काण्डे-
``मुंहि पामर ये विशेषे शूद्रयोनि ।
सुज्ञ जने कोप न करिबे एहा शुणि ॥
नीलगिरि जगन्नाथ किछु दया कला ।
तेणु से ग्रन्थमो हृदरु स्फुरिला ॥
बलराम दास मुं श्रीहरि सेबक ।
शुणि उपहास न कर दुष्ट लोक '' ॥
तन्मतानुसारं मनुष्यः ब्राह्मणगृहे जाते सति न ब्राह्मणो भवितुं पारयति, कर्म मनुष्यं ब्राह्मणं करोति शूद्रं वा करोति । तस्मात् कर्म प्रधानमत्र । पुराणालोचन-शास्त्रालोचन-सभायां तस्य सदैव योगदानमासीत् । बलरामदासस्य प्रतिभां सन्दर्श्य तदानीं ब्राह्मणानां इर्षा सीमा लंघिता । एकदा मुक्तिमण्डपे भगवद्गीता-आलोचना प्रसंगे शूद्रो बलरामः उपस्थित आसीत् । पण्डित-ब्राह्माणास्तं तत्र दृष्ट्वा भर्सितवन्तः । तं विताडयितुं राजानं प्रतापरुद्रदेवं अनुरोधितवन्तः । किन्तु एकेन शूद्रमुखेन वेदोच्चारयितुं बलरामः ब्राह्मणानां सम्मुखे प्रतिज्ञां कृतवान् । तदा पण्डिताः जनैकं मुक-वधिर-भिक्षुक-हरिदासं मुक्तिमण्डपं प्रति आनीतवन्तः । यदा बलरामः हरिदासस्य मस्तकस्पर्शं कृतवान् तदा स निरर्गलतया वेदपाठं चकार । एतद्दृष्ट्वा पण्डिताः आश्चर्यचकिताः बभूवुः । राजा बलरामस्य अलौकीकतां सन्निरीक्ष्य प्रसन्नोऽभूत् । ससम्मानं बलरामं प्रणामं चकार । श्रूयते जगमोहन-रामायण-रचनावसरे बलरामदासः प्रभु-जगन्नाथेन सह लंकां गतवान् । तस्मिन्नेव काले जगन्नाथः बलरामाय किमपि सुवर्णहारं रक्षणाय प्रदत्तः । प्रातः श्रीमन्दिरे सेवकैः जगन्नाथ समीपे हारो न दृष्टः । अत्र बलरामः जगन्नाथस्य हारं स्व समीपे दृष्ट्वा तस्मै प्रत्यावर्त्तयितुं श्रीमन्दिरमागतवान् । सर्वे बलरामं चौर इति कथितवन्तः । कारागारेऽपि निपतितः सः । रात्रौ स्वप्ने बलरामस्य स्वरूपं महाप्रभोः ज्ञात्वा क्षमां ययाच कारामुक्तं च चकार राजा । जगन्नाथः सदैव सिद्ध-योगिनिभिः प्रपूजितः इति बलराम अभाणि ।
बलरामदासः रामतारकमन्त्रस्य सिद्धसाधक आसीत् । समग्र-मध्ययुगीय-साहित्येषु बलरामस्य कतिपयानि साहित्यानि कुसंस्कारादि क्षेत्रेषु समाजविप्लवस्य वह्निं प्रज्वालयन्ति । सम्माज संस्कारकार्येषु सहायकाः भवन्ति । बलरामस्य बहवो रचनावल्यः दृष्टिगोचरा भवन्ति । तेषु जगमोहन रामायण(दाण्डि रामायण)- ब्रह्मपुराण-महाभारत- चण्डीपुराण- लक्ष्मीपुराण- कुरालपुराण- नामरत्नगीता-मृगुणीस्तुति- दुर्गास्तुति- कान्तकोइलि- कमललोचन चौतिषा-वारमासी- भावसमुद्र- वट अवकाश-भक्ति रसामृत सिन्धु- सभाविनोद- रामविभा-कृष्णलीला-रसकेलि- ब्रह्माण्डभुगोल- शरीरभुगोल- बेढा परिक्रमा-अर्जुनगीता- गजनिस्तारण गीता- भगवद्गीता- अमरकोशगीता- गुप्तगीता- छतिश गुप्तगीता- गरुड गीता-विराटगीता- गणेश विभूति गीता- गीतासार-नीलसुन्दर गीता- कलिभारत- बौला अध्याय- पणस चोरी इत्यादि ग्रन्थाः वैशिष्ट्यमावहन्ति । एषु ग्रन्थेषु जगमोहन रामायणं साहित्यदृष्ट्या अत्युन्नतम् । दाण्डि रामायणं सप्तकाण्ड विशिष्टम् । मूल-संस्कृत-रामायणस्य स्वाधीनानुवादः । ब्रह्माण्ड भुगोलः तत्त्वमूलकः । अत्र पिण्ड-ब्रह्माण्डविवरणी समुपलभ्यते । गुप्तगीता वा ब्रह्मगीता गद्यपद्ययोः संगठनम्, आध्यात्मिकी प्रवृत्तिः । अमरकोषगीता विराटगीतयोः ब्रह्मज्ञानं प्रचुरम् । ज्ञानचूडामणिः गद्यः यौगिकः । श्रीमद्भगवद्गीता मूलगीतायाः सहज लोकप्रसिद्धः पद्यानुवादः । लक्ष्मीपुराणं क्षुद्रकाव्यम् । नारीसशक्तीकरण-विशुद्ध-भक्तेश्च प्रतिपादनमत्र । अन्ये ग्रन्थाः आध्यात्मिकचेतनाषु परिपूर्णाः । जगमोहन रामायणं दाण्डिवृत्तेन (विषमाक्षर) लिखितमस्ति । स्वकीय मौलिकप्रतिभया तेन रामायणस्य विरचनं कृतम् नानुवादेन । तात्कालिक समाजस्य जातिभेदप्रथां विलोक्य सत्शिक्षायै तेन लक्ष्मीपुराणं संपादितम् । यत्तु सर्वेषामुत्कलीयानां गृहे गृहे परिचितम् । मध्ययुगीय सिद्धसाहित्य परंपरायां तस्य स्थानं महत्वपूर्णं भजते । साहित्य माध्यमेन सः आध्यात्मिकविप्लवं सृष्टिकर्तुं समर्थोऽभूत् । ओडिआजातेः सश्चिरो नमस्यः ।
--- लेखकः - नन्दप्रदीप्तकुमारः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com