भारताष्टकम्
हृदये भक्तिर्देहे शक्तिर्मम मुखे लसति भारतगीतम् ।
जय हे! जय हे! जय जय जय हे! गायामि सदा भारतगीतम् ॥ १॥
सुन्दर-सु-सुशोभितराष्ट्रमसि, त्वं भासि रता त्वं भरतभृता ।
शुभकर्मकृते कल्याणमसि, दण्डोऽसि खरो दुष्कर्मकृते ॥ २॥
न्यायश्च तथा दण्डश्च तथा, त्वं कर्मशुभं धर्मश्च तथा ।
हे भव्यतमे भारतभूमे, त्वं भूमितले विभुभासयुता ॥ ३॥
भारतमातः! उपजीव्या मे, आराध्या मे त्वं पूज्या मे ।
रक्ष्यासि मया वर्ध्यासि मया, कर्त्तव्यतया दृश्यासि मया ॥ ४॥
दृष्टिस्त्वमसि दर्शनमथ च, दृश्यं सर्वं खलु मे मातः ।
ननु दृश्यसेऽत्र-सर्वत्र मया, सर्वत्र मया त्वं ह्यनुभूता ॥ ५॥
अहमस्मि तवाधीनो मातस्त्वं चासि मया प्रमुदितवदना ।
त्वं भोरमसि मयि ते सत्त्वं, देही मम देहवतोऽसित्वम् ॥ ६॥
सुफलं सुभगं सुमधुरगीतं, विधिना रचितं कविना मुदितम् ॥
धर्माश्रयभूतं कर्मपदं, भारतवर्षं भारतभूतम् ॥ ७॥
सङ्कल्पदृढ़ं नीत्वा हृदये, पश्यामि सदा भारतदेशम् ।
आयामि सदा पृच्छामि सदा, गच्छामि सदा भारतदेशम् ॥ ८॥
-- चन्द्रगुप्तभारतीयः