भारती
भारताभामयी संस्कृतेर्भास्वती
भारतीयोत्तमा सभ्यता शाश्वती ।
ज्ञानविज्ञानमूला च या वैदिकी
भारतेऽसौ सदा शोभतां भारती ॥ १॥
मानवाचारनीतीतिहासाश्रया
वेदवेदाङ्गशास्त्रात्मिका निर्झरी ।
ब्रह्मणो मार्गसन्दर्शिका पावनी
भारतेऽसौ सदा शोभतां भारती ॥ २॥
ब्रह्मशास्त्राधृतं तात्त्विकं वाङ्मयं
बोधयन्ती स्थिता पुण्यभूमावियम् ।
तत्त्वमारण्यकानाञ्च या पावनं
भारतेऽसौ सदा शोभतां भारती ॥ ३॥
ऋग्यजुस्सामवेदानथर्वादिमान्
ज्ञापयन्ती सुशिक्षां प्रदत्ते च या ।
मानुषी ज्ञानविज्ञानसारस्वती
भारतेऽसौ सदा शोभतां भारती ॥ ४॥
वेदशास्त्रं पुराणं बृहद्वाङ्मयं
काव्यशास्त्रं प्रसिद्धं जगद्दर्शनम् ।
चापि शून्यं पुराविष्करोज्ज्योतिषीं
भारतेऽसौ सदा शोभतां भारती ॥ ५॥
पञ्चतन्त्रोपदेशात्मिका भूतले
ज्ञानगङ्गासुधावाहिका मङ्गला ।
भारतं पोषयन्ती च विद्योतते
भारतेऽसौ सदा शोभतां भारती ॥ ६॥
विश्वबन्धुत्वभावस्य संरक्षिका
राष्ट्रवादात्मिका ज्ञानविस्तारिका ।
राष्ट्रियैक्यस्य या हेतुभूताऽमृता
भारतेऽसौ सदा शोभतां भारती ॥ ७॥
संस्कृतेः सभ्यतायाश्च सम्पोषिका
धर्मनिरपेक्षभावस्य सञ्चारिका ।
राष्ट्रभाषोन्नतेर्मूलभूता च या
भारतेऽसौ सदा शोभतां भारती ॥ ८॥
विश्वभाषाग्रगण्या च या भूषिता
देवभूमावियं सादरं वन्दिता ।
यां विनाऽतो न राष्ट्रस्य नो गौरवं
भारतेऽसौ सदा शोभतां भारती ॥ ९॥
शाश्वतीयं सुबोधा प्रदीप्ताऽजरा
मातृभाषा च विद्वधृदा ज्ञानदा ।
सेव्यतां भारतीयैरतः सन्ततं
भारतेऽसौ सदा शोभतां भारती ॥ १०॥
रचयिता - हेमन्तकुमारजोशी ``शिवः''
Encoded and proofread by Mayuresh Marathe