भारतीया वयम्
भारतीया वयम्, भारतीया वयम् ;
भारतं नो मातृ-भूमी माननीया स्वयम् ।
भारतीया वयम् ॥ (ध्रुवम्)॥
जयतु जम्बूद्वीप-तिलकं भास्वरम्,
जयतु हिन्दुस्थानमतुलं सुन्दरम् ।
कर्म-भूमी रत्न-कम्रा सत्फला,
स्वर्ग-सुगुणा कला-निपुणा पुष्कला ।
वैरि-दलने वीर-सेना विजयते निर्भयम् ।
भारतीया वयम् ॥ १॥
अहिंसाया दिव्य-वाणी शंसिता,
भ्रातृ-मैत्री हृदय-कमलोद्भासिता ।
यत्र वार्त्ता मानविकता कीर्त्तिदा,
ऐक्य-मन्त्रं वहति महतां संविदा ।
त्रिरङ्गा नो मङ्गलमयी चिरं तनुते जयम् ।
भारतीया वयम् ॥ २॥
आत्मिकं नो बन्धनं सद्भावनम्,
शान्ति-मधुरं भवतु जगतां पावनम् ।
मातृ-चरणे भक्ति-पूताराधना,
अभीष्टा नो जयतु राष्ट्रिय-भावना ।
देश-रक्षा-विधौ दक्षा अद्वितीया वयम् ।
भारतीया वयम् ॥ ३॥
-- गीति-रचना : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher