भारतीयजनतन्त्रोपलब्धय
(उपजातिवृत्तम्)
यल्लोकतन्योद्धरणाय हृद्यं
प्रक्रान्तमासीज्जनता हिताय ।
आयोजनं पञ्च-सुवर्ष मूलं
साफल्यमाप्तं सुख-शान्ति-वृद्ध्यैः ॥
कृषैर्विकासाय नवप्रयोगैः
यन्त्रैर्नवैः क्रान्ति-समुद्भवोऽभूत् ।
हरिच्छन्द-क्रान्ति-समुन्नयार्थं
विधिर्नूतना लोक मनोहरोऽभूत् ॥
यत्रापि कुत्रापि कृषेस्तु योग्या
भूमिर्दृशोर्गोचरतामयासीत् ।
राज्येन सङ्गृह्य तथाविधा भूः
कृषौ प्रयुक्ताः जनता-समृद्ध्यैः ॥
ससेचनार्थं परियोजना या
युक्ता प्रयुक्ताश्च विभिन्नभागे ।
क्रान्ति कृषौ हर्ष-समुद्भवश्च
व्यलोकि लोकैर्जन-मानसेषु ॥
उद्योग-क्षेत्रे नव-पारपत्रम् ।
प्रदान-कार्यस्य विधि ऋजूकृत् ।
येनात्म-नैर्भैर्य-समाश्रयेण
विकास-कार्यं-प्रगति प्ररुढा ॥
यच्चार्यभट्टो गगने चकासन्
भूपग्रहो भाति श्रयन् सुकीर्तिम् ।
स भारतीयाय-जनस्य लोके
वैज्ञानिकीमुन्नतिमातनोति ॥
यद् भारतीयैः परमाणु अस्त्र-
परीक्षणे या कृतिता त्वदर्शिः ।
वैज्ञानिकानां गरिमाणमेतद्
लोकत्रयेऽपि प्रथयत्यजस्त्रम् ॥
विद्युद्गृहाणामणु चालितानां
संस्थापनं भारत-गौरवाय ।
फिगेट-नाम्ना जल-पीतकानां
निर्माणमिष्टा श्रियमादधाति ॥
औद्योगिकं प्रापयितुं विकासं
संयन्त्रकाणीह प्रवर्तितानि ।
सलौह वृद्ध्यै परिशोधनार्थं
तैलस्य, चैवोवरकस्य देशे ॥
या चाप्यपूर्वा समुपागता श्री
भव्यं नवं भारतवर्षमेतत् ।
बङ्गाहवे पाक-चमू दलन्तः
स्थले जले व्योम्नि च सर्वतोऽपि ॥
पाकैर्विपाको युधि यश्च लब्धः
स्वक्रुर कृत्यस्य नृशंसतायाः ।
पैशाचिकं चाचरितं जघन्यं
कृत्यं फलं तत् तनुतेऽनुरूपम् ॥
वड्गीय-बाला वनिता नराश्च
सपीडिता शान्तिलवं न तेषु ।
अवाप्य ते भारत-भू-सुसख्यं
स्वातन्त्र्यमाप्ता विनयावनम्रा ॥
लक्षाधिका पाकचमूचराः ये
योधा गृहीताः विवशाः विवर्णाः ।
लब्धं फल तैर्निज-धृष्टतायाः
ते चान्वभूवन् नरकं पृथिव्याम् ॥
यश्चापि सन्धि शिमला-प्रदेशे
देशं-द्वयेऽभूद् जनता-हिताय ।
आश्रित्य तं भारत-पाक-देशैः
सबन्ध-सामान्यमुपागतं च ॥
आदृत्य लोकस्य विचार-जातं
प्रान्ता नवीना विहिताश्च केचित् ।
मेघालयश्च अरुणाचलश्च
मणे पुरं च त्रिपुराभिधानम् ॥
सञ्चिन्त्य देशैक्यमवेक्ष्य नीतिं
राज्यं गृहीतं सिखिमाभिधानम् ।
संप्रेक्ष्य चैव जनता-मतं तु
अभूदिदं भारत-भूमि-भागम् ॥
यल्लोकतन्त्रं, निरपक्षिता च
धर्मे, व्यवस्था विनियोजिताऽर्थे ।
सामाजिकी स्यात् प्रगति प्ररूढा
सैवाऽऽथिता नीतिरदृप्तभावात् ॥
शान्तिः स्वदेशे, प्रगतिर्विकासे,
मैत्री विदेशैः, करुणाऽऽर्तदेशे ।
निर्भीन्न्ताऽजौ, विमतिर्विरोधे,
सर्वोदया नीतिरुपास्यते च ॥
अर्थ-व्यवस्था सुविरूढ-मूला
कर्तुं श्रिता नीतिरुदार-भावा ।
लोकाश्रयोद्योग-परम्पराणां
अग्रेसरत्वं प्रतिपादितं च ॥
राष्ट्रीकृता केचन लब्धवर्णाः
उद्योगजाता नृहितं समीक्ष्य ।
समायिता च सुविधा समस्ता
राज्ञा समत्वं प्रतिपादनार्थम् ॥
अवर्षणादे कृषि-कार्य-जाते
रुद्धो विकासो जन शोषणाय ।
हरिच्छदं-क्रान्तिमुपास्य सर्वो
रोधोष्वरद्धं कृषकार्थ सिद्ध्ये ॥
मुद्रा-गत-स्फीति निवारणार्थं
समाश्रिताश्च बहवो ह्युपायाः ।
साफल्य-लाभाद् जनता-मनःसु
विश्वास-भावोदय-वृद्धिरासीत् ॥
उद्योग-कृत्ये कृषि-कार्य-जाते
निरन्तरं वृद्धिमुपैति राष्ट्रम् ।
प्रवर्तिते योजन-कार्य-जाते
व्यलोकि लोककैरुदयं समस्तैः ॥
कठोर-दण्डाश्रयणेन राष्ट्रे
विलोक्यते संयम-वृद्धिरिष्टा ।
शान्तिर्व्यवस्था स्वनुशासनं च
तापार्त-लोके धृतिमादधाति ॥
उन्मूलितास्ते ऋणजाश्च बन्धाः
प्रणांशितं शोषित-शोषणं च ।
दीनार्त-लोकोद्धरणं समीक्ष्य
भूमिं प्रदिष्टा सुख-वास-हेतोः ॥
आक्रामकाः येऽविरतः यतन्ते
देशा अशेषा अहितं निरीक्ष्य ।
तेषां विमर्दार्थमभीष्ट साधनी
नृ-वाहिनीं सिंह-सम-क्रमाऽऽस्ते ॥
सञ्चार कार्ये विपुला विवृद्धिः
इष्टा विशिष्टा प्रगतिं तनोति ।
दूरेक्षणे दूर-प्रभाषणे च
समुन्नतिं कस्य मुदं न धत्ते ॥
ग्रामेषु पुर्यां नगरेषु चैव
चिकित्सकानां भिषजा नियुक्तिः ।
आरोग्य-हेतोर्नव-यन्त्र-वृद्धिः
शय्या-विवृद्धिश्च हितं तनोति ॥
शिक्षा-प्रसाराय प्रवर्तिताश्च
राज्येषु नूत्ना विविधा हयुपायाः ।
शुल्क-प्रमुक्तिः-र्बुक-बैङ्क-युक्तिः
प्रोत्साहनार्थं बहु-छात्रवृत्तिः ॥
स्त्रीणा च यूनां च हिताय प्रेष्ठा
कार्यक्रमाः शासन-दिष्ट-रुपा ।
एवं प्रदृष्टा नव-योजनान्ते
समुन्नतिं सर्व दिगाश्रयाः सा ॥
Proofread by Mandar Mali