भारतं महीयते
भारतं महीयते सत्यधर्म संभृतम्
त्यागशीलमाश्रितं सर्वलोकरक्षकम् ॥ १॥
सर्वशास्त्रवर्धकं सर्वसौख्यदायकम् ।
सर्वधर्मपोषकं सर्वदुःखहारकम् ॥ २॥
शान्तिगीतिपाठकं सर्वदोषनाश कम् ।
सत्त्वशुद्धिवर्धकं सर्वलोक वन्दितम् ॥ ३॥
याज्ञवल्क्यसम्मितैःराष्ट्रधर्म पालकैः ।
नीतिशास्त्रबोधनं जीवनाय स्वीकृतम् ॥ ४॥
भारताख्यकाव्यदीपशोभितं मही तलम् ।
योगशास्त्रदत्तसौख्यसभृतं हि भारतम् ॥ ५॥
भ्रातृभावसूचकं वीरकर्मदर्श कम् ।
भावये च भारतं पावनं सनातनम् ॥ ६॥
सत्यदीपमाश्रितं सज्जनैश्च पूरितम् ।
तं नमामि मामकं जन्गभूमि भारतम् ॥ ७॥
--- विजयन् वि. पट्टाम्बी