भारतं महनीयम्
भारतं महनीयम् ।
भारतं जनायत्तं महनीयं महीतलं
महता प्रयासेन देशिकैः समुद्धृतम् ॥ १॥
शतञ्च तत: पुनस्त्रिंशत्कोटिमिताः
जनाश्च निवसन्ति विभिन्नधर्माश्रयाः ॥ २॥
गङ्गया यमुनया पुण्यनिलया कावेर्या च
सन्ततं कलगीतैराशंसा: समार्चिताः ॥ ३॥
हिमवान्महीधरो भारतसंरक्षक -
श्चोन्नतशिरा भूत्वा उत्तरे विराजते ॥ ४॥
बलवान् शत्रून् सर्वानुत्तरान् महावीर्यान्
वारणं कृत्वा नित्यं भारतमसेवत ॥ ५॥
धावयन्त्यो नित्यं पादारविन्दौ भक्त्या
सिन्धुवीचयो हन्त ! देशोऽयं पर्यलालयन् ॥ ६॥
सागरतीरेष्वेव भारतदेशस्यास्य
वाणिज्यं वृद्धिमाप सुस्थिरं निराश्रयम् ॥ ७॥
सज्जनो महात्मानः बहवो कृतयत्नाः
जीवनं धन्यं कृत्वा राजन्ते सुरलोके ॥ ८॥
शङ्करो महागुरुरद्वैतमन्त्रान् कृत्वा
किङ्करानकरोत् स लोकान् धर्माश्रयान् ॥ ९॥
सत्यमेवात्र नित्यं विजयतेतरामिति
उत्तममुच्चैस्तरं धोषयद्राष्ट्रं चैतत् ॥ १०॥
ऋषयो बहवश्चासन् धर्मस्य संरक्षकाः
शौनक व्यास शुक गौतम पराशराः ॥ ११॥
संस्कृतं दिव्यामृतं सज्जनैः संसेवितं
तद्भाषाप्रथितं तद्भारतमहापुण्यम् ॥ १२॥
दीपयन्महीतलं काव्यैश्च शास्त्रादिभिः
शोभते सुभाषितैराचन्द्रतारं देशे ॥ १३॥
भारतमितिहासं महत्तमं पाराशर्यं
सपादलक्षात्मकश्लोकैरलङ्कृतम् ॥ १४॥
उपदेशसहस्रैस्तदनुदिनं राष्ट्रस्यास्य
जीवनमार्गेष्वद्य बहुभ्यो दीपायते ॥ १५॥
सुखिनो भवन्तु जनाः देशेऽस्मिन्नहर्निशं
आमयान् विना सर्वे मोदन्तामनारतम् ॥ १६॥
--- विजयन् वि. पट्टाम्बि