भारतं पुण्यास्पदं भोः
भारतं पुण्यास्पदं भोः! पुण्यपुरुषं भारतम् ।
वन्दतां संसेवतां तां पुण्यभूमिं भारतम् ॥ ध्रुवम् ॥
त्यागशीलाद्भरत्मुनितो राष्ट्रमेतत् भारतं
शौर्यवान् दौष्यन्तिरासीत्तदिह देशो भारतम् ।
भ्रातृदेवाद्भरतनृपतेरेष देशो भारतं
भासि निरताः पूर्वजा इह तद्धि देशो भारतम् ॥ १॥
ज्ञानकिरणाः प्रथममुदिताः ज्ञानभूमौ भारते
शूरवीरा रेजिरेऽत्र च कर्मभूमौ भारते ।
शक्तिमत्त्वं दृढमिहासीत् पुण्यभूमौ भारते
बुद्धसिद्धाश्शुद्धसत्त्वा बहव आसन् भारते ॥ २॥
कर्मपूताः शक्तिदूता उद्गता इह भारतात्
विमलकान्तिज्ञानशाखा निस्सृता इह भारतात् ।
सत्यशान्त्योस्सत्प्रवृत्तिर्निर्गता इह भारतात्
विश्वजनता सर्वमलभत सर्वमित्राद्भारतात् ॥ ३॥