भारत-भारती-गीतिका
विजयतां नो मातृभूमी भारतम्,
जयतु भारत-भारती नो
वेदभाषा संस्कृतम्,
लोकभाषा संस्कृतम् ॥ (ध्रुवम्)॥
साङ्गमखिलं वाङ्मयं यत्
सर्व-विद्या-शास्त्र-रुचिरम्,
अव्यया सा दिव्य-सम्पत्
सुप्रतिभया भाति सुचिरम् ।
भूतलेऽस्मिन् सभ्यतायाः सारभूतं निःसृतम्,
जयतु भारत-भारती नो वारयन्ती दुष्कृतम् ।
लोकभाषा संस्कृतम् ॥ १॥
भाति वाल्मीकीय-रचना
व्यास-सेव्या पावनी सा,
देव-संस्कृति-गौरव-धना
कालिदासोद्भावनी सा ।
मानविकता-भव्य-काव्यं भावुकैः समुदाहृतम्,
जयतु भारत-भारती नो विदधती गीतामृतम् ।
लोकभाषा संस्कृतम् ॥ २॥
काल-जयिनी कला-रत्ना
वर्ण-माल्या सुकल्याणी,
नित्य-नूत्ना निःसपत्ना
सर्वदा गीर्वाण-वाणी ।
यशो यस्या विमल-विशदं विश्व-भुवने स्वीकृतम्,
जयतु भारत-भारती नो विबुध-मनसां निर्वृतम् ।
लोकभाषा संस्कृतम् ॥ ३॥
शुद्ध-पद्धति-सिद्ध-वेषा
सुधा-मधुरा पुण्य-धारा,
सा हि भाषा-जनन्येषा
सरस-धन्या सुसम्भारा ।
सपाश्चात्त्यै-र्विपश्चिद्भि-र्मुक्त-कण्ठै-र्व्याहृतम्,
जयतु भारत-भारती नो महाजनैः समादृतम् ।
लोकभाषा संस्कृतम् ॥ ४॥
आर्य-धाम्ना समाम्नाता
सहृदयानां मोदिनीयम्,
मुख्य-भाषा सुविख्याता
शान्ति-समता-बोधिनीयम् ।
देश-संहति-विधौ मैत्री-व्रतं यया सदा धृतम्,
जयतु भारत-भारती नो भ्रातृ-भावैः संस्मृतम् ।
लोकभाषा संस्कृतम् ॥ ५॥
इति भारत-भारती-गीतिका ।
-- गीत-रचना : डाॅ हरेकृष्ण-मेहेरः
(``मातृगीतिकाञ्जलिः'' - गीतिकाव्यात् समानीता )
Copyright Dr.Harekrishna Meher