भारत-भारती-वैभव वैशिष्ट्यम्
अस्माकं भारतीयानां दशा शोच्याऽभवत् यदा ।
संस्कृतां संस्कृतिं त्यक्त्वा जाता वैदेशिका यथा ॥ १॥
आचार्यवर्यपादानां (श्रीजीनां)कृपया लभ्यतेऽञ्जसा ।
भारतभारत्योश्च वै वैभवं यत्प्रवर्तितम् ॥ २॥
साहित्यं विपुलं लोके संस्कृतस्यापि भारते ।
भाषाभावार्थगाम्भीर्यैरेतदेव हितावहम् ॥ ३॥
कां दिशीकां गताश्छात्राः आहिण्डन्तेऽत्र भारते ।
हितं तथ्यं वचः श्रोतुं परं वक्ता न लक्ष्यते ॥ ४॥
श्रीश्रीजीभिर्विना कोऽत्र त्राता भविमतुर्हति ।
एतत्तैश्च विचार्यैव ग्रथितं लघुशास्त्रकम् ॥ ५॥
सर्वेषामेव लोकानां हितं तथ्यं सुखप्रदम् ।
विशेषतस्तु छात्राणां परमोपकृतिप्रदम् ॥ ६॥
अनुशासनहीना ये छात्राः कर्मपथच्युताः ।
सुरद्रुश्चैव तेषां तु गृहस्थानाञ्च कामगौः ॥ ७॥
हिमालयादिनागानां गणना चापि सत्कृता ।
सप्तपुर्यश्चतुर्धाम, गङ्गाद्याः सरितस्तथा ॥ ८॥
दिवाकरनिभप्रख्याः ज्योतिर्लिङ्गास्सृता मुदा ।
करामलकतत्तीर्थ-यात्राफलप्रदायकम् ॥ ९॥
धर्मयुक्तो राष्ट्रवादः कर्मवादश्च नैतिकः ।
राष्ट्रभक्तिर्हरेर्भक्तिर्मणिकाञ्चनयोगवत् ॥ १०॥
उपदेशवचोऽमूल्यं शिवं सत्यं मनोहरम् ।
सम्मतं वेदशास्त्राणां लोके चाऽभ्युदयङ्करम् ॥ ११॥
प्रायः पदावली कान्ता कोमल गीतिका परा ।
ईदृग्विधान कुत्रापि दृश्यतेऽञ्जसा भृशम् ॥ १२॥
लघुरूपमिदं शास्त्रं गागरे सागरी यथा ।
किंस्वित् त्रिवेणिरूपेण सर्वपापप्रणाशकम् ॥ १३॥
रचना -
व्याकरण-वेदाध्यापकः पं. परशुरामशरण भारद्वाजः
श्रीनिम्बार्काचार्यपीठं
Introduction to the composition Bharat
Bharati Vaibhavam of Shri Shriji Maharaj
of Nimbarkapeeth.
Encoded and proofread by Hemangai Rane