भारतभूषा संस्कृतभाषा
भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये ।
संस्कृतिरक्षा राष्ट्रसमृद्धिः भवतु हि भारतदेशे ॥
श्रद्धा महती निष्ठा सुदृढा स्यान्नः कार्यरतानां
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम् ।
न हि विच्छित्तिश्चित्तविकारः पदं निदध्मस्सततं
सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम् ॥
श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनं
चेतो वाणी प्राणाः कायः संस्कृतहिताय नियतम् ।
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीं
पुष्टिस्तुष्टिस्संस्कृतवाक्तः तस्मादृते न किञ्चित् ॥
नाहं याचे हारं मानं न चापि गौरववृद्धिं
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित् ।
यस्मिन् दिवसे संस्कृतभाषा विलसेज्जगति समग्रे
भव्यं तन्महदद्भुतदृश्यं काङ्क्षे वीक्षितुमाशु ॥
- जनार्दन हेगडे
Encoded and proofread by Shubha shubhazero at gmail.com