भारतभूप्रशस्तिः
जय भारतभूमि भासि विश्वभुवन-वन्दिता
मुहुरमराः सन्ति सुमुखि तव वैभव-विस्मिताः ।
हिमगिरिवरहीरकमयमुकुटस्तव भासते
सुरसरिदियमुरसि विमलहारस्तव राजते ॥ जय०॥ १॥
चुम्बति तव चरणाम्बुजमम्बुधिरपि दण्डवत्
कम्बुबहुल-मौक्तिकदल - मणिकदम्बमाददत् ।
प्रणमति तव पादपद्ममम्बरतल - चुम्बिभिः
शतसहस्र-मूर्ध्नभिरिव तुङ्गोज्ज्वल-वीचिभिः ॥ जय०॥ २॥
करधृत-नव-पल्लवदल - चामर इव किङ्करः
मलयशिखरिमरुदभिमुखमर्चति हिमशीकरः ।
चन्दनरस-बिन्दुभिरिव किरणैस्तव चन्द्रमाः
स्नपयति वपुरवनीश्वरि ! परिचरतिच ते रमा ॥ जय०॥ ३॥
अमृतकुम्भ-धन्वन्तरि-धन्य - धवल - वाजिभिः
सहगजेन्द्र-मन्दारक - नन्दनवन - राजिभिः ।
मन्दरगिरि - गुरुमन्थन - दुग्ध-सिन्धुमन्दिरा
दुदगमदियमलसङ्गतिर्भिरुद्यदिन्दुरिन्दिरा ॥ जय०॥ ४॥
-साहित्याचार्यश्रीताराचरणभट्टाचार्याणाम्,
वाराणसेयानाम् ।
Proofread by Mandar Mali