भारतदेशः
(गीतिका)
देशोऽस्तु भारतो मे, कीर्त्या श्रिया समिद्ध ।
देश प्रबुद्ध एष सुषमा-गुणै समृद्ध ॥ देशोऽस्तु०॥
विश्वस्य शान्ति-हेतु, दैन्याऽऽधि-नाश-केतु ।
गुण-गौरवैक-सेतु ज्ञानोन्नतिं विदध्यात् ॥ देशोऽस्तु०॥
कृषका कृषौ नियुक्ता, तपसा श्रमेण पुष्टा ।
धन धान्य-भूति-युक्ता, हृष्टा श्रिया भवेयु ॥ देशोऽस्तु०॥
ये दीन-हीन-लोका दुखाग्नि-ताप-तप्ता ।
शप्ता सुखैर्वियुक्ता, तेषां समुद्धृति स्यात् ॥ देशोऽस्तु०॥
श्रमजीविनो हि लोकाः धनिभिस्तिरस्कृताः ये ।
वृत्यै च शोष्यमाणाः, राज्येन रक्षिताः स्युः ॥ देशोऽस्तु०॥
श्रम शौर्य-दान-शक्तिः, सत्याग्रहेऽनुरक्तिः ।
परमेश-प्रीति-भक्तिः, प्रचरेत् समेऽपि लोके ॥ देशोस्तु०॥
स्यादन्धभक्ति-नाशः नैर्घ्रुण्य-दोष-ह्रासः ।
करुणा-दया-प्रहासः, ज्योतिश्च जीवनेऽस्मिन् ॥ देशोऽस्तु०॥
विश्वाभिराम-देश शौर्याप्ति-सौख्य-कोश ।
ज्ञानाग्नि दग्ध दोष, क्षेम श्रियं प्रणुद्यात् ॥ देशोऽस्तु०॥
क्रान्तेर्ध्वज दधानं, शान्तेश्च मन्त्रदाता ।
विश्वस्य ज्ञानदाता दिव्या धियं तनोतु ॥ देशोऽस्तु०॥
हिंसा-क्षुधा-विरोध, दीनाऽऽर्त-शोष त्रास ।
रोगाऽऽधि-दैन्य-दोष, शश्वद् विनाशमेयात् ॥ देशोऽस्तु०॥
Proofread by Mandar Mali